________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
इत्यादौ । ग्राम्यार्थत्वमविदग्धमात्रप्रतिपादितरिरसाद्यर्थकपदाभिधेयार्थत्वम्, अश्लीलत्ववत् सहृदयहृदयवैमुख्यापादकत्वं चास्य दूषकताबीजं,विदूषकायुक्तौ तु तदौचित्यमित्ययमनित्यो दोषः । यथा-'भो जह कस्सव्वि पिंडीखज्जूरेहि उव्वेजिदस्स तितिडीए अभिलासोभोदि, तह अंदेउरइथिआरअणपरिभोइणो भअदो इअ पत्थला ।' इति । व्याहतार्थत्वं पूर्वापरविरुद्धार्थत्वेन तिरस्कृतप्रतिपाद्यार्थत्वम् । अस्य च वाक्यार्थाप्रतीतिर्दूषकताबीजम् । 'हेयोपादेयत्वविरोधो दूषकताबीजम्' . इत्यन्ये प्राहुः । अत्रेदं बोध्यम् , यस्य कस्याप्युत्कृष्टत्वं प्रतिपाद्य पुनस्तस्यैवापकृष्टत्वप्रतिपादने पूर्वापरविरोध इत्येकविधो व्याहतार्थत्वन्नाम दोषः, यस्य कस्यचिदपकृष्टत्वं प्रतिपाद्य तस्यैव पुनरुत्कृष्टत्वप्रतिपादने पूर्वापरविरोध इत्यपरोऽयम् । द्विविधोऽप्ययमनित्यो दोषः । अश्लीलार्थत्वं ब्रीडाजुगुप्साऽमङ्गलसमर्पकार्थत्वम्, तथासति श्रोतुर्वैरस्यं दृषकताबीजम् । अत एव असभ्यायुक्तौ तदभावः प्रत्युत गुणत्वम् । न ततोऽयन्नित्यो दोषः । असौ च समर्प्यमाणवीडादित्रयमूलत्वात्रिविधः । यथा-'आदित्सयांऽशुकानामुन्नतभुजवीरुधां कुमारीणाम् । पश्यति हरौ विरेजे गतवसनानामधो दृष्टि: ॥"अन्त्राण्यस्थीनि मेदांसि रक्तान्यङ्गानि च क्वचित् । पितामह ! तव स्थानं सङ्ग्राममतिवर्तते ॥"लोकान्तरकृतप्रेमा निर्निमेषमुदीक्षिता । जितवासानिल: शान्त एष हन्त तव प्रियः॥'इत्यादौ । अस्य च प्रतिप्रसवो यथा-'स्तनौ तुङ्गो निपतितौ कामसङ्ग्राममर्दितौ । पुरस्तादवलोक्यास्या भगं शुष्कम्भयादिव ॥' 'तेण परापडिदेण जेव्व बराइआ कल्लाणिआ मडमडाइदा ।' 'घटयत घटजालं तोयशून्यं पुरस्तात् पथि तुषनखलेखा क्षिप्यताम्भो नियुक्ताः । निजपुरपरिचर्चा कर्तुमेवायमुत्को नृपतिरनयसिन्धुस्तर्णमागच्छतीह ॥' इति । कष्टार्थत्वमासत्त्यादिसद्भावेऽपि दुरूहार्थत्वम् । सम्य
प्रतीतिविरहश्च दूषकताबीजम् । अत एव तदभिमतत्वे दूषकताऽपायादनित्योऽयम् । न चास्य क्लिष्टत्वेन गतार्थत्वम्, घटनान्तरेण तत्रार्थस्य सुखेनैव प्रतिपत्तः, अत्र पुनर्विवक्षितस्याप्यर्थस्य शब्दान्तरैः कथञ्चिदुन्नयनेऽपि क्लेशेनैव प्रतीतेः । निर्हेत्वर्थताऽनुपात्तहेतुकार्थत्वम् , इत्यनभिधानेनोद्देश्यप्रतीतिविरहो दूषकताबीजम् । अतः प्रसिद्धिसत्त्वे तदनुपादानेऽपि तदभावान्नास्य नित्यदोषत्वम् । ननु हेत्वनुपादाने निर्हेतुत्वम्, तत्र हेतुं विना प्रतीते: पर्यवसानं, न वा; आद्ये दोषाभावः, अन्त्ये साकाङ्क्षार्थत्वेन सङ्कर इति चेत् ? केचिदाहुः-'उपात्तस्य परेणान्वये साकाङ्क्षार्थत्वम् , अनुपादाने निहेस्वर्थत्वमिति विशेष इति, तन्न; 'ऐशस्य.' इत्यादा वुपेक्षितु'मित्या'काङ्क्षती'त्यनेनानुपात्तसाकाङ्क्षार्थताया एव प्रदर्शनात् । तस्मात् हेतुतद्भिन्नसापेक्षतया द्वयोर्भेदः ।' इति । अन्ये त्वाहु:-'अत्र अप्रतीतिमात्रं' तत्र तु विरुद्धा प्रतीतिः श्रीरत्ने एवामर्षप्रतीतरिति विशेषः ।' इति । प्रकाशितविरुद्धार्थता व्यजितविवक्षितार्थप्रतिकूलार्थत्वम् ।विरुद्धार्थप्रकाशनं च दृषकताबीजम् । अत एवायं नित्यो दोषः । तत्तत्पदपरिवर्तनेऽपि यावत् तदर्थोपस्थितिस्तावत् प्रकाशितविरुद्धार्थत्वस्य तादवस्थ्यमिति नास्यामतपरार्थत्वेन सङ्करः । अत एवास्यार्थगतत्वम् । एतेनविरुद्धमतिकारित्वादपि अस्य भेदोऽभिहितः । ननु तदस्तु सहचरभिन्नत्वेनैतस्य गतार्थत्वमिति चेत् ? न; नहि तत्र ध्यजितविवक्षितार्थप्रतिकूलार्थत्वं, किन्तु समभिव्याहृतभिन्नार्थमात्रत्वम् । इति । सन्दिग्धार्थता प्रकरणाद्यभावेन अनिश्चितोद्देश्यार्थत्वम् । अस्य चोद्देश्यनिश्चयाभावो दूषकताबीजं, तस्य पुनर्विवक्षितत्वे नायं दोषः । यथा-'वृषापहि परक्षेत्रादायाति क्षेत्ररक्षकः । यदद्य भुक्तं तदलं, क्षणं लोभं परित्यज ॥' इति । पदानामसन्दिग्धत्वात् पदगतादस्य भेदः। ख्यातिविरुद्धार्थता प्रसिद्धिविरुद्धार्थत्वम् । प्रसिद्धिश्च लौकिकी तद्भिन्ना च । अतो द्विविधोऽयं दोषः । विरोधादर्थाप्रतीसिषकताबीजम् । लोकप्रसिद्धिविरुद्धार्थतायाः कविप्रसिद्धयविरुद्धार्थतया. लोकेतरप्रसिद्धि (कविसमय) विरुद्धार्थताया लोकप्रसिद्धयविरुद्धार्थतयाऽर्थप्रतीतेरदोषत्वम् । उत्पातादिना विरुद्धताया अवश्यं वर्णनीयत्वं पुनर्गणत्वम् । क्रमेण-यथा मम-'अपि विकसति कमलानां प्रेयसि महसान्निधौ तमालोक्य । कमलं विकसितमचिरात् स्वकरेणामीलयतू सुदती ॥' इत्यत्र सूर्य उदयमानेऽपि कमलनिमीलनं विरोधाभासं पोषयत्, सुदत्या व्यज्यमानेन स्मयमानत्वेन व्यज्यमानं चन्द्रिकात्वं 'नायं रमणाय समयः, किन्तु चन्द्रिकामुदिर एवाहती'ति विभावयत्य.
१ 'भो यथा कस्यापि पिंडीखर्जरैरुद्धेजितस्य तितिड्यामभिलाषो भवति, तथाऽन्तःपुरस्त्रीरत्नपरिभोगिणो भवत इयं प्रार्थना ॥' इति संस्कृतम् ।
२ तेन परापतितेनैव बराका कल्याणी मटमटायिता।' इति संस्कृतम् ।