________________
साहित्यदर्पणः।
सप्तमःवाक्यान्तरे वाक्यान्तरप्रवेशो गर्भितता । यथा'रमणे चरणोपान्ते प्रणतिप्रवणे सति । वदामि सखि ते तत्त्वं मान एष न शोभते ॥ १८ ॥' अथार्थदोषानाह
५ अपुष्टेदुष्क्रमग्राम्यव्याहताश्लीलॅकष्टताः ।
अनवीकृतनिहेतुप्रकाशितविरुद्धताः ॥९॥ सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते । साकाङ्क्षी सहचरभिन्नतोऽस्थानयुक्ततौ ॥ १० ॥ अविशेषे विशेषश्चानियमे नियमस्तथा । तयोविपर्ययौ। विध्यनुवादायुक्तते तथा ॥ ११ ॥
निर्मुक्तपुनरुक्तत्वमर्थदोषाःप्रकीर्तिताः । तयोविपर्ययौ विशेषेऽविशेषः, नियमेऽनियमः। '
त्रयोविंशं गर्भितत्वं लक्षणन्नुदाहरति-वाक्यान्तरे इत्यादिना ।
वाक्य.न्तरे । वाक्यान्तरपवेशः 'नतु पदानां प्रवेश' इति शेषः । एवं चास्य सङ्कीर्णत्वादस्य भेदः सूचितः । गर्भितता तन्नामा दोषः । असौ यथा-'हे सखि ! अत एवोपदेशाहे । रमणे कान्ते । चरणोऽपान्ते चरणसमीपे । प्रणतिप्रषणेऽपराध स्वीकृत्य तं क्षमापयितुं प्रणमनोन्मुखे जाते इत्यर्थः । सति । ते । तत्त्वं कर्तव्यम् । वदामि । किं तदित्याह-एष दुःपरिणाम इत्यर्थः । मानःन । शोभते । 'अत्र हि तृतीयपादरूपं वाक्यं गर्भितमिति' बोध्यम् । कस्या अपि सखी प्रति प्रणयोक्तिरियम् ।
अथार्थदोषान्निरूपयितुमुपक्रमते-अथ वाक्यदोषनिरूपणानन्तरम् । अर्थदोषान् । आह-५ अपुष्टेत्यादिना ।
५ अपुष्टदुष्क्रमग्राम्यव्याहताश्लील कष्टता अपुष्टार्थता दुष्कमता प्राम्यता व्याहतार्थता अश्लीलार्थता कष्टार्थता चेत्यर्थः । अत्राप्यश्लीलार्थत्वं पूर्ववत्रिविधमेव बोध्यम् । अनवीकृतनितप्रकाशितविरुद्धता अनवीकृतार्थता निर्हेत्वर्थता प्रकाशितविरुद्धार्थता चेत्यर्थः । सन्दिग्धपुनरुक्तत्वे सन्दिग्धार्थवं पुनरुक्तार्थत्वं चेत्यर्थः । ख्यातिविद्याविरुद्धते ख्यातिविरुद्धार्थता विद्याविरुद्धार्थता चेत्यर्थः । साकाङक्षता साकाइक्षार्थतेत्यर्थः । सहचरभिव्रता सहचरभिन्नार्थता । अस्थानयुक्तताऽस्थानयुक्तार्थता । अविशेषे विशेषाभावे कर्तव्ये इति भावः । विशेषो विशेषार्थता । च । अनियमे नियमाभावे कर्तव्ये नियमो नियमार्थता । तथा । तयोविशेषार्थत्वनियमार्थत्वयोः ।विपर्ययौ विपरीतो अविशेषार्थत्वमनियमार्थत्वं चेत्यर्थः। तथा । विध्यनवादायुक्तते विधिविधानं तस्यायुक्तार्थत्वम्, अनुवादस्य चायुक्तार्थत्वमित्यर्थः । निर्मुक्तपुनरुक्तत्वं निर्मुक्तोऽथ पुनरुक्तस्तदर्थत्वम् । इत्येते
त्रयोविंशतिसङ्ख्याकाः अर्थदोषाः । प्रकीर्तिताः ॥ ९ ॥ १० ॥११॥ , तयोरितिपदस्य दुर्बोधतां पारहरति-तयोरित्यादिना । स्पष्टम् ।
अत्रायं पालोकः-एषु त्रयोविंशतिसयाकेषु दोषेषु-अपुष्टार्थत्वम्मुख्यार्थानुपकारित्वम् । अशक्तयुग्नयनेन श्रोतुर्वैमुख्यं दूषकताबीजम् । अत एव यमकादौ दोषाभावः । यथा 'सकलां सकलां लक्ष्मी विभ्रद्विभ्रद्विभाविभाः । रुचिरोरुचिरोचिष्णू राजन् राजन्महामहान् ॥' इत्यनित्योऽयं दोषः । दुष्कमार्थत्वं लोके शास्त्रे वा प्रथितस्य पौर्वापर्यनियमस्य विरुद्धतयाऽभिधानेन क्रमानौचित्यम् । तथासति-झटित्यांप्रतीतिः सहृदयोद्वेगो या वकताबीजम् । कामानौचित्यस्य लोकशास्त्रयोर्भेदादनेकत्वम् । प्रहसनादौ पुनस्तथैवौचित्यमित्ययमप्यनित्यो दोषः । यथा-'भुक्त्वा स्नात्वा स्वपित्वा च कृत्वा च रदधावनम् । मलमूत्रोत्सर्गकर एष आयाति सज्जनः ॥'