________________
परिच्छेदः ]
१५
रुचिराख्यया व्याख्यथा समेतः।।
अस्थानस्थसमासता यथा'अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यद्दरतरप्रसारितकरः कर्षत्यसो तत्क्षणात्। फुल्लत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी ॥ १७ ॥ भत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः । वाक्यान्तरपदानां वाक्यान्तरेऽनुप्रवेशः सङ्कीर्णत्वम् । यथा-'चन्द्रं मुन कुरङ्गाक्षि ! ५श्य मानं नभोऽङ्गने' इति । अत्र 'नभोऽङ्गने चन्द्रम्यश्य मानम्मुश्चेति युक्तम् । किष्टत्वमेकवाक्यविषयमित्यस्माद्भिन्नम्।
अस्थाने समासन्यासमुदाहरति-अस्थानस्थसमासतेत्यादिना ।
अस्थानस्थसमासताऽस्थाने तिष्ठतीति तथोक्तः समासो यत्र तस्य भावस्तता न कुत्सितं स्थानमिति अस्थानम्, तच्च प्रकृताननुकूलत्वमूलमेवेति बोध्यम् । यथा-अद्य अपि । एषः । मानः 'वयं नितान्तं सुभगा विभ्रमजितव लभाः । इत्येवं रूपः 'स्त्रीणामीाकृतः कोपो मानिन्याःसङ्गिनीप्रिये।' इत्युक्तस्वरूपो वा भावविशेषः । स्तनशलगविषमे स्तना एव शैला इति, तो एव दुर्ग तेन विषममिति. स्तनावेव शैलदुर्गे शैलनिर्मिते दुर्गे ताभ्यां विषममिति वा, स्तनौ शैल दुर्गे इवेति ताभ्यां विषममिति वा, स्तनौ एव शैलौ यत्र तादृशं यदँदुर्गमत एव विषममिति वा; तत्र । सीमन्तिनीनां स्त्रीणाम् । हदि हृदये । स्थातुम् । वाजछति 'इतीद'मिति शेषः । धिक् । इत्येवम् । क्रोधात । इव । आलोहितः समन्ताल्लोहितः । प्रोद्यदरतरप्रसारितकरः प्रोद्यन्तोऽत एवं दूरतरं प्रसारिताः कराः किरणा हस्ता वा यस्य सः,प्रोद्यंश्वासौ दूरतरं प्रसारिताः करा येन स इति वा । असौ दृश्यमानः । शशी चन्द्रमाः । तत्क्षणात। फुल्लत्कैरवकोशनिःसरदलिश्रेणीक्रपाणं फलद्विकसद यत् कैरवं कुमुदं तस्य कोशः कुड्मलरूपं खापिधानं तस्मानिः सरन्ती याऽलिश्रेणी भ्रमरपडक्तिः सैव कृपाण: खगइति तम् । 'कोशोऽस्त्री कुड़मले पाने दिव्ये खड्गपिधानके।' इति मेदिनी। कर्षति निःसारयति । अत्र-शशिनो नायकत्वं मानस्य च प्रतिनायकत्वं पारकल्प्य कविना जारस्येव मानस्य वधाय कुमुदकोशादलिरूपकृपाणकर्षणमुत्तम्भितं चन्द्रोदये च मदनोन्मादस्य खाभाविकतया मानिनीनां मानपरित्यागपुरःसरं कान्तप्रसादनं दृष्टचरं,चंद्रश्चोदयमानो रक्तिमान प्रपद्यते,तदानीं च कुमुदकोशस्य विकसिततया भ्रमरश्रेणी निःसरतीति प्रत्यक्षदृष्टम, अथापि क्रोधाचन्द्रमसोरक्तत्वम, अलिश्रेण्याश्च कृपाणरूपत्वं कविनोत्प्रेक्ष्य प्रतिभामात्रेणोत्तम्भितम् । अत्र शालविक्रीडितं छन्दः, तल्लक्षणं च प्रोक्तं प्राक् ॥ १७ ॥'
अत्र । कोपिन: 'शशिन' इति शेषः । उक्तौ 'अद्यापि...धिगित्यभिधाने' समासो दीर्घसमासः क्रोधानुगुणीजोगुणव्यञ्जक इति यावत् । न । कृतः, 'तत्र तस्यौचित्येऽपि' इति शेषः । कवेरकोपिन इति भावः । उक्तौ 'प्रोद्यद' इत्यत्र । कृतः 'समास' इति शेषः ।अत्र 'सहृदयवैमुख्यं दृषकताबीजम् ।' इति ।
द्वाविंशं सङ्कीर्णत्वं लक्षयनुदाहरति-वाक्यान्तरपदानाभित्यादिना ।
वाक्यान्तरपदानाम् । अत्र बहुवचनमविवक्षितम्, तेन तद्वहत्वाभावोऽपि बोध्यः । सङ्कीर्णत्वं तन्नाम दोपः । स च यथा-'हे करडाक्षि मृगनयने । मानं रोषम् । मञ्च । नभोऽडाने आकाशरूपे गृहान्तर्देशे । चन्द्र चन्दयत्याह्लादयति पारस्परिकवैमनस्यहरणपूर्वक युवानाविति तं तथोक्तम्, वस्तुतस्तत्त्वेनाध्यस्तं नायकम् । पश्य । 'गृहाण शयनं कान्तं प्रणमन्तमलङ्कुरु । इति शेषः ॥' इति । अत्र 'चन्द्रं पश्ये त्यादिवाक्यस्य पदानि 'मुश्चादीनि "मुञ्च मान'मित्यस्य च'चन्द्रम्मुञ्चेत्यादीनि । पदानि सङ्कीर्णानीति शेषः । अतः-'नभोऽने । चन्द्रम् । पश्य । मानम् । मुश्च' इति । युक्तम् । 'वक्तु'मिति शेषः । नन्वेवं क्लिष्टत्वमापत्स्यते इत्याह-क्लिष्टत्वं तदाख्योदोषः । एकवाक्यविषयम। 'अयं चानेकवाक्यविषय'मिति शेषः । इत्यस्मात । भिन्नम । एकवाक्यत्वे सति स्वघटकपददुर. न्वयव्यवहितविवक्षितार्थत्वं क्लिष्टत्वम् , अनेकवाक्यत्वे तु सङ्कीर्णत्वमिति भावः ।