________________
साहित्यदर्पणः ।
[ सप्तमःइह केऽप्याहुः-'पदशन्देन वाचकमेव प्रायो निगद्यते, न च ननोवाचकता निर्विवादात, , स्वातन्त्रेणार्थबोधनविरहात; इति-यथा 'द्रयं गतम्' इत्यादौ 'त्व'मित्यनन्तरं चकारानुपादनादक्रमता, तथाऽत्रापि ।' इति।
चे'त्यादावपि कथं नैव तस्यैव सद्भावः स्वीक्रियते इति चेत् ? यस्याव्यवधानेनैव निवेशे विवक्षितार्थप्रतीतिजननसामर्थ्य तस्य तथा निवेशाभावे दोषान्तरस्या( अक्रमत्वस्या पातः, यस्य पुनर्व्यवधानेनापि निवेशे विवक्षितार्थजननसामर्थ्य तत्र नैव दोषान्तरस्या (अक्रमत्वस्या) पातः, किन्तु अस्थानस्थपदत्वस्यैव; चादीनां च अव्यवहितपदार्थेष्वेव समुच्चयादिद्योतकता । तदुक्तम्महिमभटेन--'अत एव व्यवहितैबुधा नेच्छन्ति चादिभिः । सम्बन्धं ते हि स्वां शक्तिमुपदारनन्तरे ॥' इति । न च नमोऽपि तथात्वम् । 'न खल न खलु बाणः सन्निपात्योऽयमम्मिन्'-इत्यादौ नो व्यवहिततया निवेशेऽपि विवक्षितार्थप्रतीतेर्निबाधितत्वात् । इति । वस्तुतस्तु-नैवम् । वाचकेतरपदस्यास्थाने निवेशेऽक्रमवस्य, वाचकस्य पुनरस्थाने निवेशे स्थानस्थपदत्वस्य स्वीकारोचित्यनियतत्वभङ्गात् ।
खमतं दिदर्शयिषुराह-इहेत्यादि।
इह 'हितान यः संशृणुते' इत्यादौ असहमाना मत्सराः । केचित । आहुः। ‘पदशब्देन 'अस्थाने पदन्यास' इत्यत्र 'अस्थानस्थपदता' इत्यत्र वा पठितेन पदशब्देन । वाचकम् । एव न तु तद्भिन्नं द्योतकपदम् । प्रायः । निगद्यते । वाचकता। चीन निर्विवादात् सिद्धान्तात् । स्वातन्त्र्येण स्वतंत्रतया। अर्थवोधनविग्हादर्थबोधजननसामर्थ्यस्याभावात् । 'वाचकेतरस्येति शेषः । न हि वाचकातिरिक्तं स्वयं कमप्यर्थ बोधयितुम्प्रभवति, तस्य परसाहाय्येनैवार्थबोधकत्वस्वीकारादिति भावः । यदुक्तं भर्तहरिणा 'चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः । प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते ॥ इति। इति । यथा-'द्रयं गतं'-इत्यादौ । 'त्वमित्यनन्तरम् । चकारानुपादानाचकारस्यानुपादानादुपादानाभावात् । अक्रमता । तथा । अत्र 'हितान यः' इत्यादौ । अप 'अक्रमतैव दोषः । न तु अस्थानस्थपरता।' इति शेषः । अत्रायं पर्यालोक:-'तीर्थे तदीये'-इत्यत्र तच्छब्देन गमापादर्थस्य परामर्शोऽपेक्ष्यते, स च न सम्भवति, गङ्गाशब्दस्य तच्छब्देनापरामृष्टत्वात् । तच्छन्दो हि पूर्वपरामर्शी न तु परपरामशीति गङ्गापदस्यास्थाने न्यासः । इति कविराजानामभिप्रायः । किन्तु-'तदीये वैध्ये' इति मल्लिनाथोक्तदिशा न तत्र तच्छब्देन गङ्गापदार्थः परामृश्यते, परामृश्यते पुनर्विन्ध्यपदार्थः । युज्यते चैतत्, विन्ध्यस्य प्रक्रान्तत्वातू, तच्छब्दस्य प्रक्रान्तपरामार्शत्वाच । तस्मात्-'लग्नः केलिकचग्रहलथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तः कपोलस्थलम् । पार्वत्यानखलक्ष्मशङ्कितसखीनमस्मितहीणया प्रोन्मृष्टः करपल्लवेन कुटिला ताम्रच्छविः पातु वः ॥' इत्युदाहार्य्यम् । अत्र हि-'कुटिलताम्रच्छवित्वस्य साधर्म्यरूपस्य नखलक्ष्मशशाङ्कबीजस्य प्रागप्राप्तस्तच्छङ्कायास्तन्मुनिरीक्षकत्वेन अयोग्यताऽऽदिपरिहाराय साधयॊपस्थापकापेक्षणाद्विलम्बन प्रतीतिः, पूर्व प्रयोगे तु झटिति हेतुहेतुमद्भावेनान्वयप्रतीतिरिति 'नखलक्ष्मे'त्यतः पूर्वं 'कुटिला ताम्रति वाच्यम् । अन्यथाऽस्थानस्थपदत्वं स्यादित्येके, अपरे तु-'यदि तत्पदेन विन्ध्यः परामृश्यते तदा माभूगङ्गापदस्यास्थाने न्यासः, यदि तु गङ्गापदार्थ एव तच्छब्देन परामृश्यते तदाऽस्त्येव निरुक्तो दोषः । तच्छब्देन गङ्गापदार्थस्यैव परामर्श: कवेरभिप्रत इति कविराजानामभिधानं, तदादायैव दोषनिदर्शनं चेति सर्वमवदातम् । इति । अथ-'हितान्न यः संशृणुते' इत्यत्र नमोऽस्थाने न्यासाभिधानं 'स्रज न काचिद्विजहो' इत्यत्रेव बोध्यम् । वस्तुतस्तु-अक्रमत्वस्य क्रमप्राप्त स्थानमपहायान्यत्र वाचकेतरमात्रस्य निवेशोमूलम्, अस्थानस्थपदत्वस्य तु वाचकमात्रस्य क्रमप्राप्त स्थानमपहायान्यत्र निवेशो मूलम्। इति 'द्वयं गतं'-इत्यत्रेव 'हितान यः संशृणुते' इत्यत्र 'लज न कानिद्विजहों' इत्यत्र वा वाचकपदातिरिक्तस्य क्रमप्राप्तं स्थानमपहाय निवेशादक्रमत्वमेव, न त्वस्थानस्थपदत्वम् । एवं च -'न खलु न खलु बाणः, व नु खलु हरिणानां जीवितं चातिलोलं, क्वच'इत्यादौचकारस्येव नमोऽस्थाने निवेशे नास्थानस्थत्वं माभूत्, किन्त्वक्रमत्वमेव ।