________________
परिच्छेदः - ]
रुचिराख्यया व्याख्यया समेतः ।
अस्थानस्थपदता यथा- 'तीर्थे तदीये गजसेतुबन्धात् प्रतीपगामुत्तरतोऽस्य गङ्गाम् । भयत्नवालव्यजनीबभूवुर्हेसा नभोलङ्घनलोळपक्षाः ॥ १६ ॥
अत्र तदीयपदात् पूर्व 'गङ्गा' मित्यस्य पाठो युक्तः । एवम्- 'हितान्न यः संभृणुते स किंप्रभुः ।" अत्र 'संशृणुते' इत्यतः पूर्व नञः स्थितिरुचिता । अत्र पदमात्रस्यास्थाने निवेशेऽपि सर्वमेव व क्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता । एवमन्यत्रापि ।
ध्वनेर्वाचकत्वाप्रसिद्धेः । अन्यद्धि व्युत्पत्तिनिमित्तम्, अन्यच्च प्रवृत्तिनिमित्तम्; इति प्रसिद्धिमहिमवैवम्भूतः, यत्-रवोमण्डूकादीनामेव, ध्वनिः पुनर्वारिमुचामेव । अत एव मारीचादीनां मुनिविशेषदैत्य विशेषवाचकत्वसाधारण्येऽपि दैत्यविशेषवाचकत्वस्यैव प्राधान्योपपत्तिः ।
अस्थानस्थपदत्वमुदाहरति-अस्थानेत्यादिना ।
अस्थानस्थपदता नाप्रशस्तं स्थानमित्यस्थानं, तत्र तिष्ठतीत्येवम्भूतं पदं यत्र तस्य भावस्तता । यथा- 'प्रतीपग प्रतिकूलवाहिनीम् । गङ्गाम् । तदीये तस्या गङ्गाया इदं तत्र गङ्गासम्बन्धिनीलार्थः । तीर्थे प्रवाहे । गजसेतुबन्धाद् गजानां सेतुस्तस्य बन्धात् तमवलम्ब्येति यावत् । अत्र 'ल्यब्लोपे कर्मण्यधिकरणे च । १।४।३१ इत्यनेन त्यब्लोपे पञ्चमी । उत्तरत उहङ्घमानस्य । अस्य कुशस्य । नभोलङ्घनलोढ पक्षा नभस आकाशस्य लङ्घनं तेन लोलाश्चञ्चलाः पक्षा येषां ते।हंसाः । अयत्नवालव्यजनीबभूवुरयत्नेन यत्नमन्तरेणैव वालव्यजनीबभूवुर वालव्यजनान्यपि वालव्यजनानि बभूवुरित्यर्थः । उपजातिछन्दस्तलक्षणन्तूक्तं प्राक् ॥ १८ ॥' अत्रोदाहृते पये । तदीयपदात पूर्वम्। 'गङ्गा' मित्यस्य 'पदस्ये'ति शेषः । पाठः । युक्तः 'अन्यथा तच्छब्दस्य पूर्वपरामर्शकत्वे तेन परामर्शनीयस्य गङ्गापदार्थस्य परामर्शकत्वानुपपत्तेः पदार्थान्तर परामर्शित्वाभ्युपगतेश्चानर्थपातः स्यात्' इति शेषः । अत्रेदं बोध्यम्- 'तदीये' इति पदमस्थानस्थम्, विलम्बेन विवक्षितार्थप्रत्यायकत्वात्, अविवक्षितार्थस्य झटिति प्रत्यायकत्वाश्च । तम्मादत्र स्फुटमस्थाने पदन्यासः । 'प्रतीपगां स्व:सरितं तदीये तीर्थे गजैरुत्तरतः कुशस्य' इति पाठे तु तन्निरासः । इति । 'हितादाप्तजनान्मित्रात्सकाशाद्वा । 'आख्यातोपयोगे ।' १।४।२९ इति पञ्चमी । न 'हित' मिति शेषः । यः । संशृणुते सम्यक् शृणोति । 'यमो गम्यच्छिभ्याम् ।' १ । ३ । २९ 'अर्त्तिश्रुदृशिभ्यश्चेति वक्तव्यम् । ' * इत्यादिना सम्पूर्वाच्छृणोतेरकर्मत्वादात्मनेपदम् । सः । किंप्रभुः कुत्सितः प्रभुः । 'किमः क्षेपे ।' ५ । ४ । ७ इति समासान्तनिषेधः ।' अन्नारिमन्' 'स किं सखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदाऽनुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सवैसम्पदः ॥' इति किरातार्जुनी
यस्य द्वितीये उदाहृते पादे इति भावः । 'संशृणुते' इत्यतः । पूर्वम् । 'अन्यवधानेने 'ति शेषः । नञः । स्थितिन्यांसः । उचिता । अत्रायम्भावः नमो यथोपस्थितौ 'हितोपदेष्टजनसकाशात्, किन्तु तद्विपरीतात् अहितात् यः
कंप्रभुतः ।' इति प्रतीयते, विवक्षितः पुनः 'हिताद् यो न संशृणुते' इत्येतावानेवार्थः । अन्यथा तस्य सर्वथा प्रभुत्व (वस्तुतस्तु किम्प्रभुत्वापेक्षया ) नितान्तं निन्दनीयं यथाजातत्वमपि अभिषेयं स्यात् । यत्सूक्तं कैश्वित्अन्वयप्रतियोगिसन्निधिर्योग्यत्वं, तदभावः पुनरयोग्यत्वम्, एतदेव पदस्थानस्थत्वमूलम् ।' इति । तन्न । 'न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्' इत्यादौ निरवद्यताया दुरवस्थापातात् । इति ।
ननु पदमात्रस्यास्थानस्थत्वे पददोषत्वस्वीकारौचित्येऽपि कथन्नाम नास्य पददोषत्व स्वीकार इत्याशङ्कयाह - पदमादस्येत्यादि ।
पदमात्रस्य । च । अस्थाने । निवेशे । अपि । सर्वम् । एव न तु तत् पदमेव । विवक्षितार्थप्रत्यायने । मन्थरं विलम्बसहम् । इतित्यस्मात् । वाक्यदोषता 'अवसेया' इति शेषः । उक्तन्न्यायमन्यत्राप्यतिदिशेदित्याह - एवम् | अन्यत्र 'प्रियेण सङ्घथ्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तने । सजन काचिद्विजहौ जटाविलां वसन्त हि प्रेम्ण गुणा, न वस्तुषु ॥' इत्यादौ । अपि । अस्थाने पदन्यासः । 'न काचि' दित्यपठित्वा 'काचि - नेति पठनीयत्वात् ।' इति शेषः । ननु यदि ' हिनान्न यः संशृणुते' इत्यादावप्यस्थानस्थपदत्वमेव तर्हि ' त्वमस्य लोकस्य