________________
साहित्यदर्पणः।
[सप्तमःअत्र 'मिता भूः पत्याऽपा' मिति युक्तः पाठः । अत्राद्ययोः प्रकृतिप्रत्ययविषयः प्रक्रमभेदः, तृतीये सर्वनामविषयः, चतुर्थे पर्यायविषयः । एवमन्यत्रापि · अखिद्धेस्त्यागो यथा-'घोरो वारिमुचां रवः' इत्यत्र मेवानां गजितमेव प्रसिद्धम् । यदाहुः
__ 'मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति ।।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम् ॥' इत्यादि।
यावत् । 'कालाध्वनोरत्यन्तसंयोगे।' २।३।५ इति द्वितीया।' 'सदा पान्थः पूषा गगनपरिमाणं गणयति । इति प्रायो भावाः स्फुरदवधि मुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ इति शेषः ।' अत्रोदाहृते पद्ये । 'उदन्वता प्रक्रम्यापांपतिनोपसंहार इति भग्नप्रक्रमत्वं तस्मात्' इति शेषः । 'मिता (परिच्छन्ना ) भूः पत्याउपा' मिति पाठः । युक्तः । अत्रायम्भाव:-'उदन्वच्छन्ने ति समस्तं, तच्छब्दश्चोदन्वतः परामर्शकः, तत्त्वं चैतस्यैकाकिनो न सम्भवति तस्य समासच्छन्नत्वात, इत्यभवन्मतसम्बन्धत्वम् । अथ, यदि उदन्वता 'छन्ने'त्यसमस्तं स्यात्, तदाऽपि तच्छब्दस्य पूर्वपरामर्शकत्वेनोदन्वच्छब्दस्येव परामर्शकत्वं, नत्वपापतिशब्दस्येति तयोः पर्यायत्वेऽपि न तथा झटित्यभिन्नार्थः स्फुरति, यथोभयत्रोदन्वतोऽपांपतेः प्रयोगात् , तस्मात् पर्यायक्रमभङ्गेन स्फुटं प्रकृते भमप्रक्रमत्वम् । एतदप्यभवन्मलपम्बन्धत्वेन संश्लिष्टमिति सुष्डूक्तं 'मिता भुरित्यादि । एवं सति न निरुक्तदोषावकाशः । इति ।
दर्शितोदाहरणानां विशेषमाह-अत्रेत्यादिना।
अत्रोदाहृतेषु पयेषु । आद्ययोः पूर्वमुदाहृतयो: 'एवमुक्तः' इत्यत्र 'यशोऽधिगन्तु'मित्यत्र चेत्यर्थः । प्रकृतिप्रस्पयविषयः । 'क्रमादिति शेषः । तथा च-तत्राप्याद्ये प्रकृतिविषयः, अन्त्ये पुनः प्रत्ययविषय इत्यर्थः । प्रकृतिश्च प्रत्ययश्चेति, तो विषयौ यस्य सः । प्रक्रमभेदः । तृतीये 'ते हिमालय'मित्यस्मिन्नुदाहृते पद्ये । सर्वनामविषयः । चतुर्थे 'उदन्वच्छन्ने'त्यत्र 'पुनरिति शेषः पर्यायविषयः । 'प्रकमभेद' इति पूर्वेणान्वेति ।
न केवलमीदृशेष्वेव स्थलेषु निरुक्तदोषः सम्भवतीति बोध्यमित्याह-एवमित्यादि।
एवं यथोदाहृतेषु तथेति भावः । अन्यत्रान्येषु 'स्थलेषु । अपि 'निरुक्तो दोषो बोध्य' इति शेषः । तथा हि-'वियदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायतेरगरीयान पदं नपश्रियः ॥' अत्र 'विपद' इति व्युपसर्ग प्रक्रम्य 'आप'दित्याङउपादानात् , 'लघुते'ति पर्यायेण प्रक्रम्य 'अगरीया नित्युपादानाच्च क्रमादुपसर्गपर्यायविषयः प्रक्रमभङ्गः । तस्मात्-'विपदोऽभिभवन्त्यविकमं तदभिभवः कुरुते निरायतिम् । लघुताम्भजते निरायतिलघुतावान् न पदं नृपश्रियः ॥' इति स्थाने ।
प्रसिद्धित्यागमुदाहरति-प्रसिद्धरित्यादिना ।
प्रसिद्धेः प्रयोगप्रवाहोत्तम्भितायाः प्रख्यातेः । त्याग उल्लङ्घनम् । यथा-'वारिमुचां जलदानाम् , घोरो भयधरः । रवोध्वनिर्जितमिति यावत् ।' इत्यत्र घोरो वारिमुचां खोऽयमुदितः प्राणेश ! विष्वङ्मुहुर्हादिन्यो निपतन्त्यमी, व तिमिरं व्याप्त, च नाध्या पुरः । आवां वाऽपि वने तदद्य शरणं कुजो नचान्यत्, प्रभो ! बालाऽहं, न च हा भवानपि भृश प्रौढो न च ज्ञः पथाम् ॥' इत्यस्मिन् पद्ये । मेघान। गर्जितम् । एव न तु रवः । प्रसिद्धम्।
- न किमत्र प्रमाणमित्याशङ्कयाह-यद् यतः । आहुः मनिरादिषु मञ्जीरो नूपुर आदिर्येषां तेषु । 'मजीरो नूपु. रोऽस्त्रियाम् ।' इत्यमरः । रणितप्रायं रणितेन (शब्दविशेषेण ) तुल्यमिति तथोक्तम् । 'प्रायो बाहुल्यतुल्ययोः।' इति । विश्वः । अत्र प्रायपदमाद्यर्थकमवसेयम् आयादीनां तुल्यार्थवाचकत्वात् । तथा च-रणितक्कणितशिञ्जितादीत्यर्थः । 'पदं प्रसिद्ध मिति शेषः। पक्षिषु च पुनर्मण्डूकादिष्विति यावत्।कूजितमभृतिकूजितरववासितादि। पदं प्रसिद्धम्' इति शेषः। सुरते मैथुने । स्तनितमणितादि स्तनितं च मणितादि च मेधादिषु मेघसिंहवीरादिषु । गर्जितप्रमुखं गर्जितं प्रमुखं प्रधानं प्रथमं वा यत्र (ध्वन्यादी) तत् । 'प्रमुखं प्रथमे मुख्ये' इति हैमः । 'पदंप्रसिद्ध'मिति शषः॥' इत्यादि। अत्रायभाष:-'वारिसुचां रख' इत्यत्र 'ख' इत्यपठित्वा 'ध्वनि रिति पठनीयम्, रवपदस्य शब्दसामान्यवाचकत्वेऽपि वारिमुखां