________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देश्यत्वं, यथा
उदेति सविता ताम्रस्ताम्र एवातमेति च ।' इत्यादौ । __ यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदाऽन्योऽर्थ इव प्रतिभासमानः प्रतीति स्थग• यति । यथा वा
'यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ १४ ॥' अत्र 'सुखमीहितु'मित्युचितम् । यथा वा
'ते हिमालयमामन्य पुनः प्रेक्ष्य च शूलिनम्।सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः॥२५॥' अत्र 'भस्मै' इतीदमा प्रकान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यां वा परामर्शी युक्तो नतु तच्छन्देन ।
एवम्-'उदन्वच्छन्ना भूः स च पतिरपां योजनशतम् ।' .
(पुनः प्रत्याय्यो) यत्र तस्माद्वयतिरिक्त इत्यसौ विषयो यस्य तस्य भावस्तत्त्वं तस्मात् अत्रायम्भाव:-उद्देश्यप्रतिनिर्देशाव्यति रिक्तमेकं पदं न प्रयोज्यं, तस्य निषेधविषयत्वात् । अत एव 'प्रायेणेति सङ्गच्छते । एवं च-यत्रीद्देश्यप्रतिनिर्देश्यत्वं तत्र द्विः प्रयोग एव युक्तः, तस्य तथैवौचित्यात् । अन्यथा तयोरैक्यमेव न प्रतीयते । यत्र पुनरुद्देश्यप्रतिनिर्देश्यत्वं नास्ति, तत्र द्विः प्रयुक्तमकं पदं दुष्टमंव । अतः कथितपदत्वमुद्देश्यप्रतिनिर्देश्यव्यतिरिक्तस्थले एवैकस्य पदस्य प्रयोगे, न तु अर्थान्तरसमितवाच्य-लाटानुप्रासादौ । इति । उक्तमेवार्थ दृष्टान्तेन स्पष्टयितुमाह-हि यतःइह-एवं पाठपरिवृत्तौ ।
नप्रतिवंचनयोः। तथा-उद्देश्यप्रतिनिर्देश्यत्वम । 'तस्मान्नात्र निरुक्तदोषावकाशः' इति शेषः । यथा। 'सविता सर्यः ।' ताम्रो रक्तः 'सन्नि'ति शेषः । उदेति । च पुनः । ताम्रः। एव 'सन् सविता' इति शेषः । अस्तम्। एति प्राप्नोति । 'सम्पत्तौ च विपत्तो च सहतामेकरूपता ॥” इति शेष ।' इत्यादौ । एवमस्वीकारे दोष दर्शयति-यदि । पदान्तरेण 'रक्त' इत्यादिरूपणान्येन पदेनेत्यर्थः । स ताम्र इति पदवाच्यः । एव । अर्थः। प्रतिपा. द्यत तदा । अन्यः । अर्थ इव। प्रतिभासमानः'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाते' इति न्यायेन शाब्दबोधे शब्दस्यापि विशेषणतया भानात्' इति शेषः । प्रतीतिं 'ताम्ररक्त पदार्थस्यैकरूपतया प्रत्ययम् । स्थगयति शिथिलयति । यथावा-'सिद्धिः समुत्सुकेवोत्कण्ठिता नायिकेव । अत्र इवेन समासो विभक्त्यलोपश्च'इति समासो विभक्त्यलोपश्च । यशः। अधिगन्तुं लब्धुम् । वाऽथवा । सुखलिप्सया सुखस्य लिप्सया लब्धुमिच्छया । वा । मनुष्य सङ्कयाम्मनुष्यम्य सड़ख्या गणना ताम् । अतिवर्तितुमतिक्रमितुं देवात्मतां प्राप्तुमिति यावत् । निरुत्सुकानामनुत्कण्ठितानाम् । अभियोगभाजामभियोगं साभिनिवेशं यत्न भजन्तीति तेषाम् । अङ्कमुत्सङ्गम् । 'उत्सङ्गचिह्नयोरक' इत्यमरः । उपैति प्राप्नोति । किरातार्जुनीयस्थमिदं पद्यम्, उपेन्द्रवज्रा छन्दस्तलक्षणं चोक्तं प्राक् ॥ १४ ॥' अत्रो
हितम।' इत्पुचितम् । 'अन्यथा तुमनः प्रक्रमे सनः प्रयोगे प्रक्रमभङ्गस्य दोषस्य निरासासम्भवः ।' इति शेषः । यथा वा 'ते मरीचिप्रमृतयो मुनयः । हिमालयम् । आमन्य पृष्ट्वा । पुनः । शलिन त्रिशूलधारिणं शङ्करम् । 'कच्चिदन्यस्मै न दास्यतीति शुलसदृशाधिभृतमिति वा । प्रेक्ष्य । च । अस्मै शुलिने । अर्थ पार्वतीदानरूपं प्रयोजनम् । सिद्धम् । निवेदय ज्ञापयित्वा । च । तद्विसृष्टास्तेन शुलिना विसष्टा आज्ञमाः । खमाकाशम् । 'अनन्तं सुरवर्त्म खम्' इत्यमरः । उद्ययुरुत्पेतुः । कुमारसम्भवस्थमिदं पद्यम् ॥ १५ ॥' अत्रोदाहृते पद्ये । 'अस्मै' इतीदमा । प्रक्रान्तस्य तेनेदंशब्देन । एव । तत्समानाभ्यां तेनेदशब्देन समानौ समानार्थवाचकावितिताभ्याम्। एतददःशब्दाभ्याम्।वा । परामर्शः। युक्तः। ननतु।तच्छब्देन । उक्त न्यायमन्यत्रातिदिशति-एवं यथो. दाहृते स्थल तथा। 'उदम्वच्छन्नोदन्वता समुदेण च्छन्ना तिरोहितेति तथोक्ता। उदकानिजलानि सन्त्य नेत्युदन्वान्। 'उदन्वानुदधौ च ।' ८।२।२३ इति निपातात् साधुः। भूःपृथ्वी । स समुद्रः । च । अपां जलस्य । 'आपः स्त्री भूम्नि वाारि' इत्यमरः । पतिः स्वामी । समुद्र इति यावत् । 'यादःपतिरपांपतिः।' इत्यमरः । योजनशतं तत्पर्यन्तं स्थित इति