________________
४०
साहित्यदर्पणः।
| सप्तमःअमतपरार्थता यथा-राममन्मथशरेण ताडिता' इत्यादौ शृङ्गाररसस्य व्यञ्जको द्वितीयोऽर्थः प्रकृतरसविरोधित्वादनिष्टः।
वाच्यस्यानभिधानं यथा-'व्यतिक्रमलवं कम्मे वीक्ष्य वामाक्षि ! कुप्यसि ।'
इत्यत्र 'व्यतिक्रमलवमपी'त्यपिरवश्य वक्तव्यो नोक्तः । न्यनपदत्वे वाचकपदस्यैन न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः ।
एवमन्यत्रापि । यथा-'चरणानतकान्तायास्तन्वि! कोपस्तथाऽपि ते इति अत्र 'चरणानतकान्ताऽसीति वाच्यम् । भग्नप्रक्रमता यथा--'एवमुक्तो मन्त्रिमुख्यै रावणः प्रत्यभाषत ॥'
अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं, तेन-रावणः प्रत्यवोचत ॥' इति राठो युक्तः । एवं सति न कथितपदत्वदोषः, तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयकत्वात् ।
अमतपरार्थत्वमुदाहरति-अमतेलादिना ।
भमतपरार्थता। यथा-'राममन्मथशरण ताडिता।' इत्यादौ उदाहृतपूर्व इति शेषः । शृङ्गारसस्य पक्षको द्वितीयो 'बीभत्सादिरूप' इति शेषः । अर्थः। प्रकृतरसविरोधित्वात प्रकृतरसस्य बीभत्सरसस्य विरो. पित्राद्धेतोः। अनिष्टो नेटः । 'तस्मादत्रामतपरार्थता दोषः' इति शेवः ।।
अनभिहितधाच्यत्वमुदाहरति-वाच्यस्येत्यादिना।
पाच्यस्य अनभिधानमभिधानाभावः । 'दोष' इति शेषः । यथा। 'हवामाक्षि अतिमुन्दराक्षि ! कम्। व्यतिक्रमलवं व्यतिक्रमस्यानुज्ञातरीत्याऽऽचाराभावस्योच्छखलतयाऽनुष्ठानस्येति यावत् लवी शस्तम् । 'अपीनि शेषः । वीक्ष्य दृष्ट्वा । कुप्यसि । “अई तु सुम्मिते : नित्यं चकोरवदनुव्रतः ॥' इति शेषः ।' इत्यत्र 'यतिक्रमलवमपि' इत्यपि 'शब्द'इति शेषः । अवश्यम् । वक्तव्यः। न । उक्तः तस्माद् वान्यानभिधानं दोषः'इति शेषः। इतीत्येषः । अनयोन्यूनपदत्वानभिहितवाच्यतयोः । भेदः । एवं यथाऽत्र तथा । अन्यत्र दोषान्तरसङ्कीर्णत्वसंशयं । अपि 'परस्परं सूक्ष्मदृशा भेदोऽवगन्तव्य' इति शेषः । यथा । 'हे तन्त्रि! चरणानतकान्तायाश्चरणयोरानतः प्रणतः कान्तो यस्यास्तस्याः ( यद्यप्ययं तव चरणावानतः) । तथापि । ते तव । कोषः। 'हन्त जीवितमेतस्य कथनाम लभेत शम् ॥ इति शेषः ॥ इति अत्र । चरणानतकान्ता । भसि त्वम् । इत्येवम् । वाच्यम् । अत्रायम्भावः--.'तथाऽपी'त्यत्र तच्छब्दार्थः कमपि यच्छन्दार्थमपेक्षते, तं विना तस्य सम्बन्धानुपपत्तेः । तस्मात्तथाऽपीत्य. पेक्षितस्य यद्यपीत्यस्य वक्तव्यतया 'चरणानतकान्ताया' इत्यनभिधाय 'चरणानतकान्ताऽसि' इत्यभिधेयम्' अन्यथा. ऽध्याहियमाणस्य 'यद्यपी त्यस्य सम्बन्धानुपपत्तेः । अतोऽत्र विभक्तिन्यूनत्वनिबन्धनो दोषः, विभक्तेरपि वाचकातिरिक्त तया द्योतकत्वस्वीकारात् । सम्बन्धानुपपत्तिर्दूषकतावीजमित्यभवन्मतसम्बन्धत्वसकीर्णोऽयं नित्यो दोषः ।
भन्नप्रक्रमत्वमुदाहरति---भग्नप्रक्रमतेत्यादिना ।
भापक्रमता । प्रक्रमश्च शब्दतोऽयंतश्चति द्विविधः, आद्यः शब्दस्य प्रकृतिप्रत्ययसर्वनामपर्यायादीनामनकात्मा । अर्थतः पुनर्वाच्यलक्ष्यव्यङ्ग्यरूपेणार्थस्य त्रैविध्यात्रिविध एवति बोध्यम् । यथा--'एवमनेन प्रकारेण । मन्त्रिमुख्यमन्त्रिप्रवरैनिकुम्भकुम्भायैरिति यावत् । उक्तः गवणः । प्रत्यभाषत । 'नात्र प्रतिवचोयुक्तं तद्यात नत मा चिरम् ॥' इति शेषः । अत्र उदाहृते वाक्ये इत्यर्थः । वचधातुना प्रकान्तम् । तत् प्रतिवचनम् । अपि । तेन एव न तु भाषधातुना । वक्तुम् । उचितं युक्तम् अन्यथा, प्रक्रमभङ्गापत्तेः । तर्हि कीदृशो युक्तः पाठ इत्याह--तेन 'राष प्रत्यवोचत ।' इति पाउः। युक्तः। ननु 'नकं पदं द्विः प्रयोज्यं प्रायेणेत्युक्तया 'प्रयुक्तपदत्वमेव दोषः स्यादित्याशङ्कयाह--एवं सति 'प्रत्यवोचते' ति पाठे कृते सति । कथितपदत्वदोषः । न 'आशङ्कनीयः' इति शेषः । तस्य कथितपदत्वस्य । उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयकत्वात् उद्देस्य एव (प्राक् प्रत्याय्य एव ) प्रतिनिर्देश्यो