________________
परिच्छेदः ] . रुचिराख्यया व्याख्यया समेतः । अत्र भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनस्य परशुना सह सम्बन्धो न घटते इति प्राच्या, 'परशुनिन्दामुखेन भार्गवनिन्दाऽऽधिक्यमेव वैदग्ध्य द्योतयतीति वाधुनिकाः माहुः । अक्रमता यथा-'समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयूरमणीयताम् ॥१२॥' अत्र परामृश्यमानवाक्यानन्तरमेव 'इति'शब्दोपयोगो युज्यते, न तु 'प्रणिगदन्त' इत्यनन्तरम्। एवम् । 'द्वयं गतं सम्प्रनि शोचनीयतांसमागमप्रार्थनया कपालिनः।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ १३ ॥' अत्र 'स्व'मित्यनन्तरमेव चकारो युक्तः ।
'प्रतिपाद्याया'मिति शेषः । प्रयुक्तस्य।मातृकण्ठच्छेदनस्य मातृकण्ठच्छेदनकर्तृत्वस्यापरशुना ।सहासम्बन्धः। न। युक्तः।' इत्येवम् । प्राच्याः प्राञ्चः 'प्राहुरित्यग्रिमेण अन्वयः । आधुनिकाः । तु 'परशुनिन्दामुखेन परशुनि. न्दाद्वारा। भार्गवनिन्दाऽऽधिक्यम् । एव । वैदग्ध्यं चातुर्यम् । द्योतयति प्रकाशयति ।' इत्येवम् । प्राहुः । अत्रायम्भावः-तवेत्यनेनमातुःसम्बन्धः 'स्थाली पचती तिवत् करणस्यापि कर्तत्वं स्त्रीवधकर्तत्वेनारोपितेनापि निन्दनीयत्वं च परशौ सम्भाव्येते तस्मात् निन्दनीयस्य परशो: स्पधित्वं कृपाणगतं न स्थाने इति परशोनिन्दया रामस्य निन्दा प्रत्याय्यते इति नात्र निरुक्तदोषावकाशः । इति । वस्तुतस्तु प्राचाम्मतमेव न्याय्य प्रतीयते, क्लिष्टकल्पनायास्तत्रान सम्पर्कात् । इति ।
अक्रमत्वमुदाहरति-अक्रमतेत्यादिना ।
अक्रमता । यथा । 'समयः कालः । एव । शरीरिणां शरीरं भोज्यायतनत्वनैषामस्तीति तेषा. जीवाना. मित्यर्थः । बलाबलम् । 'विप्रतिषिद्धं चानधिकरणवाचि ।' २।४।१३ इत्येकवद्भावः । करोति । इत्येवम् । प्रणि. गदन्तः । 'उपसर्गादसमासेऽपि णोपदेशस्य ।' ८४/४ इति नस्य णः । इव । शरदि । हंसरवा हंसानां रवाः शब्दाः । परुषीकृतस्वरमयूरं परुषीकृताः खरा येषां तादृशामयूरा यस्मिन् कर्मणि, तद् यथा स्यात्तथा। रमणीयतां मनोरमत्वम् । अयुगतवन्तः प्रापुरिति यावत् । तथा च-प्रावृषि रमणीयस्वरा मयूराः शरदि परुषस्वरा जायन्ते तेषां तदा मदात्ययात् ; तदानीमेव ये परुषस्वरास्ते राजहंसाः शरदि मधुरस्वराः सम्पद्यन्ते तेषां तदैवामोदोद्रेकात; इति सर्वेषां जीवानां बलवृद्धिं बलहासं च समय एव करोति, नतु कारणान्तरं तत्रोपपद्यते इत्युपदिशन्तो हंसाः प्रावृषि मधुरस्वरतयाऽ. भिमतानपि मयूरान् परुषस्वरान् स्वात्मनश्च तदानीं परुषस्वरतयाऽभिमतानपि मधुरस्वरानालक्षयन्ती तदुभयेषां सम्पद्विनिमयमिव कारयन्ती रमणीयतां प्राप्तवन्त इति निष्कृष्टोऽर्थः । शिशुपालवधस्येदं पद्यम् । द्रुतविलम्बितं च वृत्तं तल्लक्षणं प्रोक्तं प्राकू ॥१२॥
अत्र परामृश्यमानवाक्यानन्तरं परामृश्यमानं यद् वाक्यं 'समय एव बलाबलं करोती'त्यात्मकं, तस्यानन्तरम् । एव । 'इति'शब्दोपयोगायुज्यते । न तु । 'प्रणिगदन्त इत्यनन्तरम् । तस्मात् क्रमपरित्यागादक्रमतादोष' इति । यथा। वा । 'सा कपालिनो मौलिगतत्वेन प्रसिद्धा । कलावतः कलानिधेरित्यर्थः । नित्ययोगे मतुप । कान्तिमती कला षोडशो भागः । अस्यालोकस्य । च नेत्रकौमुदी नेत्रयोः कौमुदी आह्वादकतया चन्द्रिकारूपेति यावत् । त्वं पुरस्तादपहवनीयसुषमावभवतया स्फुरन्ती । च । इति द्वयम् । सम्प्रति । कपालिनः । अत एवास्पृश्यस्य रुदस्येति यावत् । समागमप्रार्थनया। शोचनीयतां शो-यत्वम् । गतम् । अत्र भूतकालनिर्देशनावश्यम्भाव्यत्वं, 'कपालिनः' 'नेत्रकौमुदी इत्येताभ्यां शोचनीयत्वस्य युक्तता च ध्वन्यते ॥' कुमारसम्भवे पञ्चमसगै तपस्यन्ती पार्वती बटुवेश्रेण वञ्चयतो महेश्वरस्य खनिन्दनोक्तिरियम् । अत्र वंशस्थं वृत्तं तल्लक्षणं तूतं प्राक् ॥ अव त्वमित्यनन्तरम् । एव चकारः 'च' इति पाठः युक्तः ।