________________
साहित्यदर्पणः ।
[ सप्तमःसम्बन्धः कवेरभिमतो नोपपद्यत एव । 'यां विनाऽमी वृथा प्राणा एणाक्षी सा कुतोऽद्य मे ॥' इति तच्छन्दनिर्दिष्टवाक्यान्तःपातित्वे तु सर्वैरपि यच्छन्दनिर्दिष्टवाक्यैः सम्बन्धो घटते।
यथा वा'इक्षसे यत कटाक्षेण तदा धन्वी मनोभवः।' अब यदित्यस्य तदेत्यनेन सम्बन्धो न घटते । 'ईक्षसे चेदिति तु युक्तः पाठः । यथावा'ज्योत्स्नाचयः पयःपूरस्वारकाः करवाणि च । राजति व्योमकासारराजहंसः सुधाकरः॥१०॥'
अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सवैः संयोगः। विधेयाविमर्श यदविमृष्टं तदेव दुष्टम्, इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वोऽपि पयःपरादिपदार्थस्तदङ्गतया न प्रतीयते इति सर्ववाक्यार्थविरोधावभासः इत्युभयो दश्च ।
'अनेन च्छिन्दता मातुः कण्ठं परशुना तव । बद्धपद्धः कृपाणोयं लजते मम भार्गव ॥११॥'
प्रकृतिभूतेन शब्देनेति भावः । 'सम'मिति शेषः । अन्येषां 'या' इत्यादीनां विभिन्न विभक्तिकानाम् । सम्बन्धोऽ. न्वयः । कवेः । अभिमतो वाञ्छितः । उपपद्यते सम्पद्यते । एव । न 'तस्मात् स्फुटं प्रकृतेऽभवन्मतसम्बन्धत्वम्' इति शेषः ।
यथा वामम-'योविश्वं विदधाति, यं सुमनसोनिष्काममामन्यते,येन व्याप्तमिदं, विशुद्धयशसे यस्मै तपः कल्प्याते। यस्मानान्यदुदेति, यस्य नयनोन्मेषोऽनवद्यं सुख, यस्मिन् कृत्स्नमिदं प्रतिष्ठितमिव श्रेयोविदध्यात्स नः ॥' इत्यत्र 'विशुयशसे'इत्यनेनाभिमतस्यापि यत्पदार्थानां सम्बन्धस्यानुपपत्तेः । अथात्र युक्तं पठति-'याम् । विना। अमी मदीया इति शेषः।प्राणाः । वृथा 'सन्ती'ति शेषः । सा मे मम 'दयिते'ति शेषः। एणाक्षीमृगनयना । अद्य । कुतः कुत्र 'अस्ती' ति शेषः ॥' इति । तच्छन्दनिर्दिष्टवाक्यान्तःपातित्वे । तु । सवै 'जयश्री:'इत्यादिभिरित्यर्थः । अपि । यच्छ
दनिर्दिष्टवाक्यैः । 'सहेति शेषः । सम्बन्धः । घटते 'तम्मान निरुक्तो दोषः स्यादिति शेषः । इति । यथावा'यत् यदा कटाक्षेणापाङ्गदर्शनेन ईक्षसे पश्यसि । तदा । मनोभवः कामदेवः । धन्वी धनुर्धरः । 'क्षमते भुवनं जेतुं नान्यदा वामनोचने ॥' इति शेषः। अत्र । 'यदेत्यर्थकत्वाभावा' दिति शेषः । 'तदे'त्यनेन । सम्बन्धोऽन्वयः । न नैव। घटते । तस्मात-'ईक्षसे। चेद् यदा।' इति । पाठः। तु। युक्तः । यथा धा-'ज्योत्स्नाचयो ज्योत्स्नायाश्चन्द्रशोभायाः 'चयः पुज इति तथोक्तः। पयःपूरः पयसो जलस्य क्षीरस्य वा पूर: प्रवाहः । 'पयः क्षीरे च नीरे चे' ति हैमः । पूरो जलप्रवाहे स्याद्रणसंशुद्धिखाद्ययो:' रिति मेदिनी । तारकास्ताराः।च। करवाणि कुमुदानि । व्योमकासारराजहंसो व्योमाकाशमेव कासारः सरस्तत्र राजहंसो हंसविशेष इति तथोक्तः, सुधाकरश्चन्द्रस्तद्रूप इति यावत् । राजति विभाति॥१०॥'इत्यत्र । व्योमकासारशब्दस्य । समासे 'राजहंस' इत्यनेन समं समस्तत्वे । गुणीभावात् । तदर्थस्य 'व्योमकासारे' इति पदार्थस्य । संवैोल्नाचयादिरूपपदान्तरार्थैः साकम् । संयोगोऽन्वय इति यावत् । न 'सङ्घटते इति शेषः ।
ननु अविमृष्टविधेयांशत्वादस्य को भेद उभयत्र सम्बन्धवैकल्यादित्याह--विधेयाविमर्श इत्यादि।
विधेयाविमर्श अविमृष्टविधेयांशे दोषे । यत् विधेय'मिति शेषः । अविमृष्ट गुणीभूतम् । तत्। एव । दुष्टम् । इहास्मिन् अभवन्मतसम्बन्धत्वे दोषे इति यावत् । तु । प्रधानस्य । कासारपदार्थस्य । प्राधान्येन प्रधानतया । अपतीतेः। सर्वः। अपि । पयःपूरादिपदार्थः। तदतया स कासारपदार्थ एवाझं यस्य तत्तया । न । प्रतीयते। इति । सर्ववाक्यार्थविरोधावभासः। इति उभयोरविमृष्टविधेयांशत्वस्याभवन्मतसम्बन्धत्वस्य चेत्यर्थः । भेदःयथा ।
वा 'हे भार्गव राम!मातू रेणुकायाः । कण्ठम् । छिन्दता छिन्नं कुर्वता । तव । अनेन । परशुना। बद्धस्पर्दो वद्धा स्पद्धा येन सः । अयम् । मम रावणस्याकृपाणः खगः। लजते॥१२॥' अत्र 'भार्गवनिन्दायाम् ।