________________
'इन्दुर्विभाति कर्पूरगौरैर्धवलयन् करैः । जगन् मा कुरु तन्वङ्गि ! मानं पादानते प्रिये ॥८॥ इत्यत्र 'जग' दिति प्रथमाछें पठितुमुचितम् । अभवन्मत सम्बन्धो यथा
'या जयश्री मनोजस्य यया जगदलङ्कृतम् । यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा ॥ ९ ॥' इत्यच यच्छन्द निर्दिष्टानां वाक्यानां परस्परनिरपेक्षत्वात्तदेकान्तःपातिनैणाक्षीशब्देनान्येषां
गुणं प्रति 'पूर्वत्रासिद्धम् ।' ८।२।१ इत्यनेनासिद्धिविधानात् । अयमपि सकृत् प्रयुक्तो न दोषाय । अत एव ' रजनिचर चमूरमूरपास्यन्नयमहमागत एव रामचन्द्रः । कुशिकसुतकुशाग्रतोय बिन्दोरिदमनुकल्पमेवत कार्मुकम्मे ॥' इत्यादौं । अथ
भज्येतेति विद्दितो विश्लेषो नानुशासनमनुगतः । यथा- 'वासवाशामुखे भाति इंदु: -' इत्यादौ । अत एवास्योल्लङ्गितानुशासन स्वात् सकृदपि प्रयोगो दोषायेति सङ्गच्छते मूलकृतोक्तं ' सकृदपी'ति । यद्यपि 'वाक्ये तु सा विवक्षामपेक्षते ॥ ' इति प्राचामनुशासनेनैव 'भाति इन्दु:' इत्यादौ विश्लेषः सिद्धः । तथाऽपि तस्य लोकादन्यत्र विषयः, इति सुष्ट्रक्तं 'अनुशासनमुङ्घय' इति । काव्यालङ्कारसूत्रकारा अप्याहु:- 'नित्यं संहितैकपदवत पादेवद्धन्तर्वर्जम् ।' ५।१।२ इति । 'कः कः कुत्र - ' इत्यादौ पुनः 'कस्कादिषु च ।' इत्यानुशानिकस्य विश्लेषाभावस्य सिद्धत्वेऽपि विश्लेषस्यैव विधानम्, न चात्र 'वाक्ये तु सा विवक्षामपेक्षते' इत्यानुशासनिको विश्लेषः, एतदपेक्षया तस्यैव नित्यसिद्धत्वात् । तस्मादेवंविधे स्थळे वाक्यगतं च्युतसंस्कृतित्वम् । अत एव प्रगृह्यहेतुको ऽसिद्धिहेतुकश्च विश्लेषोऽसकृत् प्रयुक्तः सन्धौ विश्लेष इत्यभिख्यां प्राप्तोऽपि दोषोऽनित्य:, अनुशासनमुल्लङ्घय सकृदपि प्रयुक्तस्तु विश्लेषो न सन्धौ विश्लेष इत्यभिख्यायते, किन्तु च्युतसंस्कृतित्वक इति; तस्मादयं नित्य: । 'सन्धौ विश्लेषो त्यसकृदेव प्रयुक्तो दुष्टः, च्युतसंस्कृतित्वं पुनः सकृदपीत्येवानयोर्भेदः । 'अत्रैच्छिक विश्लेषस्य खेदादिना विच्छिद्य पाठे न दुष्टत्वम्, यथा- 'एका एका शिरोरुहा-' इति केचित् । 'खेदादिना विच्छिद्य पठतां विवेकविरह इति शोभत एव तदानीं तस्योपादेयत्वं, तस्मान्न नित्यत्वहानिरिति सर्व निरवयम् ।' इत्यन्ये । सन्धावलीलत्वं नाम द्वितीयो दोषः स पुनस्त्रिविधः व्रीडाजुगुप्साऽमङ्गलव्यजनभेदात् । तत्रायः - 'चलण्डामरचेष्टितः ।' इत्यत्र 'लण्डा' इति पुंचिह्नं व्यजयतीति व्रीडाव्यमकमिति दर्शितप्रायम् । तत्र पुनर्द्वितीयो यथा--'अशेषाणां पदार्थानां ब्रह्माण्डपरिचारिणाम् । विधाता वा कविन्तं नान्यः कचित् प्रपद्यते ॥' इत्यत्र 'वाऽन्त' मिति जुगुप्सां व्यनक्तीत्य लीलत्वम् । अथ तत्र तृतीयो यथा- 'अनादिमध्यान्तमृतं विशुद्धं परात्परं नित्य विकाशशीलम् । सदाशिवं ब्रह्म हृदा प्रपद्य न कः प्रपद्येत पुनः प्रमादम् ॥' इत्यत्र 'मृत'मित्यमङ्गलं व्यनक्तीत्यश्लीलत्वम् । 'तृतीयं पुनः 'उर्व्यसावत्र' इत्यादिना मूलकृतोदाहृतम् । अत्र च भौ दुःश्रवत्वमेव त्वम् तरुश्रेण्याः पुनर्विशेषणविशेष्यभावेनान्वय इति तस्य वाक्यगतत्वम् । इति ।
अर्द्धान्तरेकपदत्वमुदाहरति- ' इन्दु ....' इत्यादिना ।
'हे तन्वङ्गि ! इन्दुः । कर्पूरगौरैः । करैः किरणैः । जगत् । धवलयन् शुभ्रं कुर्वन् । विभाति विकाशते । अतः - पादानते पादयोः प्रणते । प्रिये ( विषये ) । मानम् । मा । कुरु ॥ ८ ॥' इत्यत्र । 'जगत' इति 'पदमि'ति शेषः । प्रथमार्धे । पठितुम् । उचितम् ' तस्य तत्रैवान्वयोपपत्तेरिति शेषः । अत्रायम्भावःअन्तरैकपदत्वन्नाम दोषो द्विविधः, प्रथमा पठितुमुचितस्य पदस्य परार्द्धे पाठात, परार्द्धे पठितुमुचितस्य प्रथमा पाठाच । तत्राय उदाहृतः । अन्त्यः पुनर्यथा - ' जगत् प्रकाशयन्निन्दुः करैः शुभ्रैर्विभाति मा । मानमायतनेत्रान्ते कुरु पादानते प्रिये ॥' इत्यत्र परार्धे पठितुमुचितस्य 'मे'ति पदस्य प्रथमार्धे पाठात् । निराकाङ्क्षत्वप्रतिसन्धानेन शाब्दबो बलम्वनमेव दूषकताबीजम् । इति ।
अभवन्मतमुदाहरति- अभवन्मत सम्बन्धः । यथा - 'या नायिकेति शेषः मनोजस्य कामदेवस्य । जयश्रीः । यया । जगद्विश्वम् । अलङ्कृतम् । याम् । एणाक्षी मृगाक्षीम् । मम तदेकजीविताधारस्येति यावत् । प्राणाः । विफला निष्फलाः । सा तथाभूतैणाक्षीति भावः । अद्य । कुतः क्केत्यर्थः, निपाताना मनेकार्थत्वात् । 'अस्ति' इति शेषः । 'कुहे 'ति पाठस्तु युक्तः ॥ ९ ॥' इत्यत्र । यच्छन्द निर्दिष्टानां यच्छब्देन निर्दिष्टानि तेषाम् । atri 'या मनोजस्य जयश्री रित्यादीनामिति भावः । परस्परनिरपेक्षत्वात्परस्परं निरपेक्षाणि निराकाङ्क्षाणि सम्व न्धापेक्षाशुन्यानीति यावत्। तेषाम्भावस्तत्वं तस्मात् । तदेकान्तःपातिना । एणाक्षीशब्देन 'एणाक्षी' मिति पदम्य