________________
साहित्यदर्पणः।
[ सप्तमः'प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत् पातु धो नरकेसरी॥७॥' इत्यत्र क्रमेणानुप्रासप्रकर्षः पतितः।
'दलिते उत्पले एते अक्षिणी अमलाङ्गि!ते । एवंविधसन्धिविश्लेषस्यासकृत् प्रयोगे एव दोषः । अनुशासनमुल्लंघ्य वृत्तभङ्गभयमात्रेण सन्धिविश्लेषस्य तु सकृदपि । यथा'वासवाशामुखे भाति इन्दुश्चन्दनविन्दुवत ।' इति । 'चलण्डामरचेष्टितः।' इत्यत्र सन्धौ ब्रीडाव्यञ्जकमश्लीलत्वम् । 'उर्व्यसावत्र ताली मर्वन्ते चार्ववस्थितिः।' इत्यत्र सम्धौ कष्टत्वम् । पतत्प्रकर्षत्वमुदाहरति-'प्रोज्ज्वल' इत्यादिना ।
'प्रज्ज्वलज्ज्वलनज्वालाविकटोरुसटाछटः प्रोज्ज्वलन् यो ज्वलनोऽग्निस्तस्य ज्वाला तद्वद्विकटोरुसटाछटा यस्य सः । 'सटाजटाकेसरयोः ।' इति मेदिनी । श्वासक्षिप्तकुरुक्ष्माभृत् श्वासेन क्षिप्ता दूरमुद्रय पातिताः कुलक्ष्मातो मर्यादागिरयो वेन सः । नरकेसरी नृसिंहदेवः । वो युष्मान् । 'बहुवचनस्य वस्नसौ।८।१।१८ इति वः । पातु।' अत्रास्मिनुदाहृते पद्ये । क्रमेणोत्तरोत्तरमानुपूयेणेति भावः । अनुप्रासप्रकर्षः । पतितः । तस्मात् स्फुटमिह पतत प्रकर्षत्वमिति भावः । अत्र नृसिंहक्रुद्धावस्थाया वर्णने क्रमशो विकटत्वप्रकर्षम्यौचित्यमपि पतितम् । इति शेपः ।
सन्धिगतं दोषत्रयमुदाहरति-'दलिते' इत्यादिना।
'हे अमलाङ्गि ! अमलान्यनघद्यानि विकलत्वादिदोषरहितानीति यावदझानि यस्याः, तत्सम्युधौ तथोक्ने । ते तव । एते दृश्यमाने 'मनोहारिणी' इति शेषः । अक्षिणी नेत्रे । दलिते विकास प्राप्ते । उत्पले कमले । 'आननाख्ये सुधासिन्धौ उदिते उदिते रुचा।'इति शेपः ।' इति-एवंविधसन्धिविश्लेषस्यैवंविधः प्रगृह्यादिहेतुको यः संधिविश्लेषस्तस्य । असकृत् पुनः पुनः । प्रयोगे । एव । दोषो विश्लेषितसन्धित्वापरपर्यायः संधिविश्लेषो नाम दोष इत्यर्थः । वृत्तभड़भयमात्रेण वृत्तस्य भास्तस्य भयं तदेवेति तेन । अनुशासनं नियमम् । उल्लङ्यासन्धिविश्लेषस्य । तु । सकृत् । अपि किं पुनरसकृत् । 'प्रयोगे दोपः' इति शेषः । यथा-'चन्दनबिंदुव चन्दनस्य बिन्दुस्तेन तुल्यमिति तथोक्तम् । इंदुश्चन्द्रः । वासवाशामुखे पूर्वदिगद्वार इत्यर्थः भाति । 'तारावलिचमत्काररुचिरोऽयं समुन्नतः ॥ इति शेषः ।' इति 'अत्र वृत्तभङ्गभयेनैवानुशासनमुल्लसितमिति सन्धेः सकृदपि विश्लेषो दोषायेति शेषः । 'चलन् । डामरचेष्टितो डामरं डमरस्याशस्त्रकलहस्य धावकलुण्ठनस्य वेदं चेठितं यस्य सः । 'डिम्बे डमरविप्लवौ।' इत्यमरः । इत्यत्र 'वेगादुड्डीय गगने चलण्डामरचेष्टितः । स्यन्दनं राक्षसेशस्य गृध्रराजो व्यदारयत् ॥' इत्यस्मिन् पद्ये इत्यर्थः । सन्धौ ‘कृते सती'ति शेषः । ब्रीडाध्यक्षकम् । अश्लीलत्वम् । 'मर्वन्ते मरो. निर्जलदेशस्यान्तः पर्यन्तभागः 'समानौ मरुधन्वानौ' इत्यमरः । अन्तःस्वरूपे निकटे प्रान्ते निश्चयनाशयोः । इति हेमचन्द्रः । असौ । ऊर्वी महती। तली तरूणां वृक्षाणामाली पङ्क्तिरिति तथोक्ता । 'कृदिकारादक्तिनः ।' इति ङीष् । चार्ववस्थितिश्चारुमनोरमाऽव: तिरवस्था यस्याः सेति तथोक्ता । 'नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥'इति शेषः।' इत्यत्र । सन्धौ । 'कृते सती'ति शेषः । कष्टत्वम् ।
अनायं पर्यालोकः-तत्र तावत् सन्धौ त्रयो दोषाः समुत्पद्यन्ते विश्लेषाश्लीलत्वकष्टत्वरूपाः । तेषु-सन्धौ विदलेधः प्रगृह्यहेतुकोऽसिद्धिहेतुकश्चेति द्विविधोऽनुशिष्टोऽपि बन्धशथिल्यापादकत्वेन दोपः । तत्राप्याद्यो 'दलिते उत्पले' इत्यत्र सलकृतैव दर्शितः । अत्र हि 'ईदेद्विवचनं प्रगृह्यम् ।' १११११ इति द्विवचनस्य प्रगासज्ञा, प्रगृह्यसजज्ञकस्य च तस्य 'प्लुतप्रगृह्या अचि नित्यम् ।६।१।१२ इति प्रकृतिवद्भावंविधानात् प्रगृह्यहेतुकानुशासनिको विश्लेषः । स चाराकृत प्रयुज्यमान एव दोषाय । अत एव-'देवदेव ! त्वमेवासि विश्वेषां जगतां प्रभुः । कृपां तवऋते तस्मान्न कश्चित् किञ्चिदीश्वरः ॥' इत्यत्र 'ऋत्यकः । ६।१।१२८ इत्यक: प्रगृह्यसञज्ञायां प्रकृतिवद्भावाद्विश्लेषः सकृदेवेति न तथा दोषाय । असिद्धिहेतुकः पुनर्यथा-'तत उदित उदारहारहारिद्युतिरुचरुदयाचलादिवेन्दुः । निजवंश उदात्तकांतकांतिर्बत मुक्तामणिवच्चकास्त्यनघः ॥' इत्यत्र 'लोपः शाकल्यस्य।८३।१९ इति विहितस्यापि लोपस्य 'आदगुणः । ६८७ इत्यनेन प्राप्त