________________
३५
परिच्छेदः ]
रुचिराख्यया व्याख्यथा समेतः ।
इदं वृत्तं हास्यरस स्यैवानुकूलम् ।' विकसित सहकारभारहारिपरिमल एष समागतो वसन्तः।' यत्पदान्ते लघोरपि गुरुभाव उक्तस्तत्सर्वत्र द्वितीयचतुर्थपादविषयम् । तृतीयपादविषयं तु वसन्ततिलकादेरेव । तस्मात् -- अम्र प्रमुदितसौरभ आगतो वखन्त' इति पाठो युक्तः ।
यथा वा---
'अन्यास्ता गुणरत्नरोहणभुषो, धन्या मृदन्यैव सा, सम्भाराः खलु तेऽन्यएव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणानितम्वस्थलाद् दृष्टे यत्र पतन्ति गूढमनसामस्त्राणि वस्त्राणि च ॥ ६ ॥ '
अत्र 'वस्त्राणि चे 'ति बन्धस्य लत्वश्रुतिः, 'वस्त्राण्यपी'ति पाठे तु दाढर्यमिति न दोषः । 'इदमप्राप्तगुरुभावान्तलघु' इति काव्यप्रकाशकारः । 'वस्तुतस्तु लक्षणानुसरणेऽप्यश्रव्यम्' इत्यन्ये । प्रसादो विधेय इति भावः । 'वितर मृगाक्षि ! निजाधरपानम् । जीवतु दयितजनो हरिरेष प्रतिगतविरहज दुःख विशेषः ॥' इति शेषः । इदं 'प्रतिपदयमकित षोडशमात्रा नवमगुरुत्वविभूषितगात्राः । पज्झटिकाया एष विवेकः क्वापि न मध्यगुरुर्गण एकः ॥' इत्युक्तलक्षणमिति शेषः । वृत्तम् । हास्यरसस्य । एव न तु प्रकृतस्य रसस्य | अनुकूलम् | 'विक सितसहकारभारहारिपरिमलो विकसिताः कुसुमिता ये सहकारा अतिसौरभा आम्रविशेषास्तेषां भारोऽत्युत्कटस्तस्य हारि परिमलो मनोहारी गन्धविशेषो यत्र सः । 'सहकारोऽतिसौरभः ।' 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे । ' इति च अमरः । एष वसन्तः । समागतः । ' उपगतवति यत्र नीरसानामपि सरसत्वमुदेत्यचिराचिराय ॥' इति शेषः । अत्र च - यत्पादान्ते यस्य पद्यस्य पादस्तस्यान्ते । लघोः । अपि 'वर्णस्ये 'ति शेषः । गुरुभावो गुरुत्वम् । उक्तः 'वा पादान्ते' इत्यादिनेति शेषः । सः । सर्वत्र द्वितीयचतुर्थपादविषयः । प्रथम तृतीयपादविषयः । तु 'गुरुभाव' इति शेषः । वसन्ततिलक | देवसन्ततिलकादिच्छन्दो लक्षणघटितपयादेः । एव 'न तु पुष्पिताऽप्रादेः । इति शेषः । तस्मात् । ' प्रमुदितसौरभः प्रमुदितः प्रस्फुट: सौरभो यत्र येन वा सः । वसन्तः । आगतः । इतिपाठः । युक्तः 'प्रतिभासते' इति शेषः । यथावा - 'शारदपार्वणचन्द्रवदतिशयशोभाशालि । मुस्मित निर्जितचन्द्रिकं जयति तवाननमालि !' इत्यत्र प्रथमपादान्तस्थस्य लघोर्गुरुत्वमपेक्षितमपि न समुत्पद्यते इति' चन्द्रवन्निर्भरे' ति पाठो युक्तः । यथा वा - 'श्रीमत्कान्तिजुषां श्रीमन्तश्च ते कान्तिजुष इति तेषां श्रीमत्यश्च ताः कान्तिजुष इति तासाम्, इि वा । मूढमनसां मूढं भयात् कामाद्वा लुप्तप्रतिपत्तिकं मनो येषां यासां वेति तेषां तासामिति वा । द्विषाम् । करतलात । अस्त्राणि मन्त्रप्रयोज्यानि शस्त्राणि । च पुनः । स्त्रीणाम् । नितम्बस्थलात् । वस्त्राणि यत्र यस्मिन् । दृष्टे 'सती'ति शेषः । पतन्ति । एषः । 'स' इति शेषः । युवा | यैः याश्च या च ये चेति तैस्तथोक्तेः । 'पदार्थ' रिति शेष: । ' पुमान् स्त्रिया ' १।२।६७ इत्येकशेषः । विधिना विधात्रा | समुत्पादितः । तास्तदन्तर्गताः । धन्याः । गुणरत्नरोहणभुवो गुणा एव रत्नानि तेषां रोहणं तत्सम्बन्धिन्योभुव इति । अन्याः । सा । धन्य । । मृत् मृत्स्ना । अन्या । एव काकाक्षी गोलकन्यायेन 'धन्या' इति उभयत्रान्वेति । ते । खलु । सम्भारा उपकरणानि । अन्ये । एव । सन्तीति शेषः । अत्र कस्यापि युववरस्य वर्णनं, शार्दूलविक्रीडितं च वृत्तम् । तल्लक्षणं चोक्तं प्राक् ॥ ६ ॥' अत्र । 'वस्त्राणि च' इति बन्धस्य । श्लथत्वश्रुतिः श्लथत्वं शैथिल्यं तस्य श्रुतिः श्रवणमित्ति | 'वस्त्राण्यपि ' इति पाठे | तु । दाढर्ये दृढत्वम् । इति न दोष: । 'इदम् । 'वृत्त’ मिति शेषः । अप्राप्त गुरुभावान्तलघु' इति काव्यप्रकाशकारः । ' आहे 'ति शेषः । ' वस्तुतः परमार्थतः । तु । लक्षणानुसरणे । अपि । अश्रव्यम् । इतीत्येवम् । अन्ये 'प्राहु' रिति शेषः ।