________________
३०
साहित्यदर्पणः।
[सप्तमः'यदि मय्यपिता दृष्टिः किम्ममेन्द्रतया तदा।' इत्यत्र प्रथमे त्वये ति पदं न्यूनम् । ‘रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन् ॥' इत्यत्र 'लीला' शब्दः पुनरुक्तः । एवम्
'जक्षुर्बिसं धृतविकासिविसप्रसूनाः ।' इत्यत्र विसशब्दस्य 'धृतपरिस्फुटतत्प्रसूना' इति सर्वनाम्नैव परामर्शों युक्तः। .
हतं वृत्तं लक्षणानुसरणेऽपि अश्रव्यं रसाननुगुणमप्राप्तगुरुभावान्तलघु च क्रमेण यथा'हन्त सततमेतस्या हृदयम्भिन्ते मनोभवः कुपितः।' - 'अयि मयि मानिनि ! माकुरु मानम् ।'
हरति-'यदि। मयि । दृष्टिः कृपया पूर्णेति शेषः । अर्पिता समर्पिता 'त्वयेति शेषः । तदा । मम त्वत्कृपादृष्टिविषयीभूतस्यास्येति भावः । इन्द्रतयेन्द्रत्वेनेन्द्रोभूत्वाऽवस्थानेनेति यावत् । किम् । 'महतां हि कृपापात्रं सम्पदा कन्न लवते।' इति । शेषः ।' इत्यत्र । प्रथमे ‘पादे' इति शेषः। 'त्वये' इति पदम् । पूनं विवक्षितमण्यनुपात्तम् । अत्र च पदज्ञानविरहकृताविवक्षितार्थाप्रतिपत्तिर्दषकताबीजम्,तस्मात् झटित्याक्षेपतस्तल्लामे न दोषः।कथितपदत्वमुदाहरति'अनिलो वायुः । 'अनिलो वसुवातयोः' । सलीलम् । वहन् 'सन्निति शेषः । रतिलीलाश्रमं रतेः सुरतेलीला तस्याः श्रमस्तद्विधानजन्यः श्रमस्तम् । भिन्ते भिनत्ति दूरीकरोतीति यावत् । भिदिर् विदारणे । 'परिष्वक्तसमुद्भासिपद्मगन्धाक्तशीकरः।' इति शेषः।' इत्यत्र । लीलाशब्दः । पुनरुक्तः । एवम्-'ध्रतविकासिबिक्षप्रसना धृतानि उहत्य गृहीतानि विकसितानि विकासवन्ति बिसप्रसूनानि जलपुष्पाणि कमलानि वा यैस्ते तथोक्ता हंसा इत्यर्थः ।' 'बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ।' इत्यमरः । बिसं मणालम् । जक्षर्भक्षन्ति स्म । 'सस्नुः पयः पपुरनेनिजुरम्बराणि जाबिसं धृतविकासिबिसग्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थक्त्वदोषप्रवादममजन्नगनिम्नगानाम् ॥' इति समस्तं पद्यम् ।' इत्यत्र । बिखशब्दस्य । 'तपरिस्फुटतत्प्रसूना धृतानि परिस्फुटानि तत्प्रसूनानि तस्य बिसस्य प्रसनानि यैस्ते।' इतीत्येवम् । सर्वनाम्ना सर्वनामसजज्ञकेन तच्छब्देन । एव नतु साक्षात्स्वरूपेण । परामर्शः। यक्तः 'कथितपदत्वस्यापाततः सम्भवादिति शेषः । अत्रायम्भाव:-'जक्षुर्बिस'मित्यत्र बिसशब्दस्य साक्षानिर्देशोऽस्त्येव 'तबिसप्रसूना' अत्र पुनः 'बिसप्रसूने ति शब्दो न केवलं रूढः 'बिसस्य प्रसून'मिति योगशक्त्या निष्पन्नोऽपि, तस्मात् तत्र बिस'शब्दमप्रयुज्य सर्वनाम्नव तस्य निर्देशोयुज्यते । यथा वा त्वचं समेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत् । न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ॥' इत्यत्रै'क' शब्दोद्विवारं कथितः । तस्मात् 'न केवलं तद्गुरुरत्र पार्थिवः स्वसम्मितः किन्तु धनुर्धरोप्यभूत् ॥' इति वाच्यम् ।
हतवृत्तत्वमवगमयति-हतमित्यादिना ।
हतम् । वृत्तम् लक्षणानुसरणे पिङ्गलायुक्तलक्षणानुगतत्वे । अपि अश्रव्यं न ईषत् श्रव्यं श्रोतुं योग्यमिति तथोक्तम् । तथा--रसाननुगुण रसस्य प्रकृतस्य झाराद्यन्यतमस्याननुगुण नानुगुणमिति तथोक्तम् । अप्राप्तगु भव.न्तलघु अप्राप्तगुरुभावमन्तलघु (पदं) यत्र (वाक्ये) तत् । न प्राप्तो गुरुभावो यत्र येन वेत्यप्राप्तगुरुभावम् । अन्ते लघु इत्यन्तलघु । इति । च । अत्र---नष्टतास्वरूपभताऽश्रव्यता यथा---'तं प्रीतिविशदैत्ररन्वयुः पौरयोषितः । शरतप्रसन्नज्योतिभिर्विभावर्य इव ध्रुवम् ॥' इत्यस्य तृतीयेपादे 'सर्वत्र लघु पञ्चमम् ।' इति नियमभङ्गात् । यतिभङ्गादय. व्यत्वं यथा । 'अभ्युद्यजलदरुचिः शुचिः सदाऽन्तः पा मौघान्तक उदितास्त्रशस्त्रजाल: । कस्तूरीचय इव सौरभ दधानः, श्रीशोराजति भगवानुदारकेलिः ॥' इत्यत्र 'राजतीति ।
निरुक्तप्रभेदं हतवृत्तत्वमुदाहत्तुमुपक्रमते-क्रमणेत्यादिना ।
क्रमेण । यथा--'हन्त कष्टम् । मनोभवो मदनः । एतस्या नायिकायाः । हृदयम् । सततं निरन्तर मनारततयेति यावत् । भिन्ते भिनत्ति । 'तस्य ज्यायान् सहजस्तत्र नियुक्त समुद्यन् यत् ॥ इति शेषः 'इदमश्रव्य.' मितिशेषः । 'अयि मानिनि ! मयि 'तष प्रिये इति शेषः मानमादताम् । मा। करु । अहं तव दयित इति स्वया