________________
परिच्छेदः ।
रुचिराख्यया व्याख्येया समेतः ।। 'पल्लवाकृतिरक्तोष्ठी।' इत्यत्राकृतिपदमधिकम् । एवं 'सदाशिवं नौमि पिनाकपाणिम् ।' इत्यत्र विशेषणमधिकम् ।
'कुर्या हरस्यापि पिनाकपाणेः ।' इत्यत्र तु 'पिनाकपाणे'रिति पदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव ।
यथा वा-'वाचमुवाच कौत्सः।' इत्यत्र 'वाच मित्यधिकम् । 'उवाचे'त्यनेनैव गतार्थत्वात । क्वचित्तु विशेषणदानार्थ तत्प्रयोगो युज्यते । यथा-उवाच मधुरां वाचम्'-इत्यत्र । .
केचित्त्वाहुः-यत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति, तत्रापि तत्प्रयोगो न घटते । यथा-उवाच मधुरं धीमान्' इति ।
अधिकपदत्वमुदाहरति-पल्लवाकृतिरक्तोष्ठी इत्यादिना ।
'एल्लवाक्रतिरक्तोष्ठी' पालवी नवपत्रं तस्याकृतिराकारस्तद्वद्रक्तमोष्ठं यस्याः सा । 'ओत्वोष्ठयोः समासे वा * ।' इति पररूपादेशः । 'शरदिन्दुनिभानना । सुस्मिता चकिताक्षीयं च हरेत् कस्य मानसम् ॥' इति शेषः इत्यत्र । आकृतिपदम । अधिकम् । 'अत एवात्राधिकपदत्वं दोषः।' इति शेषः । इदम्बोध्यम्-यत्राविवक्षितोऽप्यर्थः कथमप्यविततयाऽभिधीयते, तत्राधिकपदत्वम्; यत्र पुनर्विवक्षित एवार्थः, किन्तु अप्रयोजकत्वान्यलभ्यत्वाभ्यां न शब्देनोपात्तमहः, तत्रास्त्यपुष्टत्वम् इति । एवम्-'पिनाकपाणि पिनाकस्तदाख्यं धनुः पाणौ यस्य तम् । 'पिनाकोऽजगवं धनुः ।' इत्यमरः । सदाशिवं सदाऽऽनन्दमूर्ति भगवन्तम् । नौमि स्तोमि । णु स्तुतौ । 'नासाग्रमाधाय विलोचनानि स्वमेव नित्य पारचिन्तयन्तम् । शान्तं महान्तं खसमाधिनिष्ठ'मिति पूर्वमिति शेषः ।' इत्यत्र । विशेषणं पिनाकपाणिमिति विशेषणपदम् । अधिकमविवक्षिततयानोपयुक्तम् । 'प्रत्युत समाप्तपुनरात्ततामावहती ति शेषः । ननु तर्हि तव प्रसाशात कुसुमायधोऽपि'कुर्या हरस्यापि पिनाकपाणधैर्यच्युति...'इत्यादावप्ययमेव दोपः स्यात् इति चन् नेत्याह-'पिनाकपाणेः। हरस्य । अपि । कुर्या धैर्यच्युति'मित्यभिसणान्वयः।' इत्यत्र । तु! 'पिनाकपाणे रिति विशेषणम्।विशेषप्रतिपत्त्यर्थम । उपात्तमइति युक्तम् । एव'नत्वधिकं यत्स्यान्निरुतो दोषः। 'इति शेषः । यथा । वा। कौत्सस्तन्नामा वरतन्तुशिध्यः। वाचम् । उवाच । इत्यत्र 'अथोष्ट्रवामीशतवाहितार्थ प्रजेश्वरं प्रीतमना महर्षिः । स्पृशन करेणानत. पूर्वकायं सम्प्रस्थितो वाचमुवाच कौत्सः ॥ इत्यस्मिन् पद्ये । 'वाचम्।' इति पद मिति शेषः । अधिकम् । उवाचे त्यनेन 'पदेने ति शेषः । एव । गतार्थत्वात् । अत्रायम्भावः-'वच परिभाषणे इति वच् धातोः परिभाषणमर्थः, परिभाषणं च वाच एवेति पुनस्तदुपादानमविवक्षितत्वादधिकम् । इति । ननु 'वाचमुवाचे'त्यत्रानुप्रासविशेषसद्भाववशाद. दोषत्वं स्यादिति चेत् ? न, अधिकपदत्वस्य तात्पर्यविशेषप्रत्यायकलमन्तरेणादोषत्वस्यावीकारात्। न हि अविवक्षितानां पदानां निवेशेनानुप्रासादीनां सङ्घटनं युज्यतेऽपेक्ष्यते वा; किन्तु अविवक्षितैरपि पदैर्य दि स्यात्तात्पर्यविशेषप्रतिपत्तिस्तदा स्थाने । अतएवाह-वचित् । तु विशेषणदानार्थ विशेषणं प्रयोक्तुमिति भावः । तत्प्रयोगस्तस्याधिकपदत्वेना भिमतस्य प्रयोगः । युज्यते । यथा 'मधुरामपरुषाम् । वाचम् । उवाच।' इत्यत्र । 'वाचमित्यधिक'मिति शेषः । अत्र मतान्तरं निर्दिशति-केचित तु । 'यत्र । विशेषशस्य 'मधुरा'मित्यादिरूपस्य विशेषणपदस्य । अपि किया. विशेषणत्वम् । सम्भवति । तत्र । अपि । तत्प्रयोगस्तस्य 'वाच'मित्यादिरू पस्य विशेष्यपदस्य प्रयोगः । न। घटते युज्यते । यथा-'धीमान् । मधुरम् । उवाच ।' इति । आहुः । अयमभिप्रायः-क्रिट विशेषणत्वमुत्पाद्य विशेषणदानार्थमप्युपात्तमविवक्षितं विशेष्यपदमधिकमेव, न तु सार्थकं यत्स्यादराम । तस्मात्--'वाचमुवाच' इत्यादौ 'मधुर' मित्यादिक्रियाविशेषणनिवेशेऽपि 'वाच'मित्यादीनामुपादानं दुष्टमेव । इति । तर्कवागीशास्त्वाहः 'वाच'मिति । यथा-'देवं यजति' गन्धं जिघ्रति' इत्यादौ 'सम्भेदेनान्यतरवैयर्थ्य' मिति न्यायेन यजादेः पूजाग्रहणमात्रार्थता, तथाऽत्रापि वचधातोरुचारणमात्रार्थत्वम्, नतु वचनोचारणार्थत्वम् । अन्यथा पौनरुक्त्यं स्यात् । एवं च-तादृशकल्पनाऽत्र शब्दबोधविलम्बनकदिति दोषत्वमेतस्य' इति । न्यूनपरत्वमुदा.