________________
साहित्यदर्पणः ।
वर्णानां रसानुगुण्यविपरीतत्वं प्रातिकूल्यम् । यथा मम -
'ओवet उल्लोइ, सअणे हट्ट कहं पि उत्थाइ । दिअए पुट्टइ फिट्ठइ लज्जा खड्इ दिहीए सी' ॥५॥ भत्र टकाराः शृङ्गाररखपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः । एषां चैकद्वित्रिचतुःप्रयोगे न तादृशरभङ्ग इति न दोषः ।
'गता निशा इमा वाले' इत्यत्र लुप्ता विसर्गाः ।
आता उत्वं प्राप्ता बितर्गा यत्र यथा- 'धीरो वरो, नरो याति' इति ।
[ सप्तम:
अथैषां लक्ष्यलक्षणानि निर्देष्टुं प्रवृत्त आह-वर्णानामित्यादि ।
वर्णानाम् । रसानुगुण्यविपरीतत्वम् । तच्च - 'मूर्ध्निवर्गान्त्यवर्णेनेत्यादिना दर्शयित्र्यते । प्रातिकूल्यम् । उदाहरति यथा । मम 'विरहिणीवर्णने ' इति शेषः । सा । विरहिणी । सअणे शयने शय्यायामिति यावत् । ओबडइ उद्वर्त्तयति शरीरमुत्तानीकरोतीति यावत् । उत् तु वर्त्तने । उल्लोइ उल्लोटयति पार्श्व परिवर्तयतीति यावत् । 'उत् लुट' लोटने । कहंपि कदापि । उत्थाइ उत्थाय । हट्टड् घयति चलतीति यावत् । घट्ट चलने । हिअए हृदये । पुट्ट पुण्यति अल्पीभवतीति यावत् । पुत्र अल्पीभावे । लज्जइ लजया । फिट्टs स्फियति हिमस्तीति यावत् । 'शरीर' मिति शेषः । स्फिट्ट हिंसायाम् । दिहीए धृतेधैर्यादिति यावत् । खट्टड् खध्यति कुंठिता भवतीति यावत् । खट्ट संवरणे । अत्र विप्रलम्भवर्णनम् । आर्याछन्दः, लक्षणं चोक्तं प्राक् ॥ ५ ॥
दाsस्मिन् पद्ये इत्यर्थः । टकाराः । शृङ्गाररसपरिपंथिनः । थारो विप्रलम्भशृङ्गारस्तस्य परिपं थिनः प्रतिकूलाः । 'वर्णां' इति शेषः । ननु किमर्थमेते निरूपिता इत्याशङ्कयाह - केवलम् । शक्तिप्रदर्शनाय । 'अकुटोत्कंठया पूर्णमाकंठं कलकंठि ! माम् । कम्बुकंठयाः क्षणं कण्ठे कुरु कंठार्तिमुद्धर ॥' अत्र सम्भोगशृङ्गारस्य प्रतिकूला वर्णाः । अत्राहुस्तर्कवागीशाः - ' ननूक्तोदाहरणे दुःश्रयत्वमेव दोष इति चेत् ? उदाहरणानन्तरं बोध्यम् । यथा - 'वृन्दारकप्रकरमय करोम्यशङ्कमानन्दयामि मुनिवृन्दममन्दमङ्ग । भङ्ग भुजङ्गमगणस्य भयं नयामि त्वामन्तका तिथिमसन्तमहं विधाय ॥' रावणं प्रति श्रीरामस्योक्तिरियम् । अत्र माधुर्यव्यंजकत्राचुर्य वीररसस्य परिपंथि।' इति ।
अत्र विशेषं निर्दिशति - एषामित्यादिना ।
एषां प्रकृतरसप्रतिकूलवर्णानाम् । एकद्वित्रिचतुःप्रयोगे । तादृशर सभङ्गस्तादृशी यादृशः 'ओई' इत्यादी रसभङ्ग इति तथोक्तः । न 'सम्भवती 'ति शेषः दोषः । न 'अस्ती 'ति शेषः ।
लुप्त विसर्गत्वमुदाहरति- 'गता' इत्यादिना ।
'हे वाले ! इमाः निशा रात्रयः । गता व्यतीताः । ' शीतला विमला भव्या दधाना ऐन्दवी रुचीः । गता निशा इमा बाले ! आगमिष्यति नो पुनः ॥' इति समस्तं पयम् ॥ इत्यत्र । विसर्गाः । लुप्ताः । 'तस्मात् लुप्तविसर्गवं 'दोष' इति शेषः ।
आहत विसर्गत्वमुदाहरति- आहता इत्यादिना ।
आहृताः । उत्वमुकारत्वम् । प्राप्ताः । विसर्गीः । यत्र तद्वतो 'दोष' इति शेषः । यथा - 'धीरः । अत एव वरः श्रेष्ठः । नरः । याति । "यशो ज्यायो विरोचयन् । यत्र यांति महात्मानो रनोमुक्तास्तमोजितः ॥' इति शेषः । इति । 'अत्र विसर्गाणामुत्वप्राचुर्येणाहत विसर्गत्वमिति शेषः । नन्वेवं विसर्गप्राचुर्यमप्यन्यो दोषः स्यात् । यथा'स्मरः खरः, खलः कान्तः कायः कृशतरः सखि । अयं च सुरभिः कालः कालः क्रूरः पुरः स्थितः ॥' इत्यत्रेति चेत् ! न, दुःश्रवत्वेनैवैतस्य गतार्थत्वात् । एतेन प्रदीपकारादीनां दोषान्तरखीकारः प्रत्युक्तः ।
१ 'उद्वर्त्तयति उल्लोटयति शयने घटयति कदापि उत्थाय । हृदये पुयति स्फियति, लज्जया सध्यति धृतेः सा ॥' इति संस्कृतम् । 'ओवहइ उल्लोटइ सअणे कहिंपि मोअर णो परिह । हिअएण फिइ लज्जाइ खुइ दिहीए सा ॥' इति पाठे तु 'उद्वर्तयति उल्लोटयति कर्ह्यपि मोहयति णो परिघट्टयति । हृदयेन स्फिटयति लज्जया खुट्टयति धृतेः सा ।' इति संस्कृतम् । इति विवृतिकाराः । सति पदानां व्युत्पत्तिः छन्दसश्च निष्पत्तिश्विन्त्ये ।