________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
अस्थाने न यथाश्रुतानुपूर्व्याविवक्षित स्वार्थानुभावकत्वे सति स्वसाकाङ्क्षस्थानाद्व्यवहितत्वेनाप्रशस्तं स्थानमिति तत्र । 'तत्सादृश्यं तदन्यत्वं तदल्पत्वं विरोधिता । अप्राशस्त्यमभावश्च ननर्थाः षट् प्रकीर्तिताः ॥' इति वृद्धाः । पदसमासयोः पदं च समासचेति, तयोः । न्यासः । 'दोषी' इति शेषः 1 'भवान् पितरा' विद्यादिवदुद्देश्य विधेयभावविवक्षया सम्बन्धः 1 तथा च-अस्थानस्थपदत्वापरपर्यायोऽस्थानपदन्यासः, अस्थानस्थसमासत्वापरपर्यायोऽस्थानसमासन्यासश्चेति दोषद्वयम् । स च यथाश्रुतानुपूर्व्यं विवक्षितखार्थानुभावकले सति स्वसाकाङ्क्षस्थानाद्व्यवहितस्थानप्रयुक्तत्वम् । सत्यन्तेनाक्रमसङ्कीर्णगर्भितत्वानां व्युदासः तेषु तदाऽऽनुपूर्व्याविवक्षितार्थबोधविरहात् । अनयोश्चास्थाने पदन्यासो विवक्षितार्थप्रतीतिं स्थगयतीति तन्मूलत्वादयं नित्यो दोषः । अथास्थाने समासन्यासो विवक्षि तस्थले समासानौचित्येन सहृदयवैमुख्यमापादयतीत्ययमपि नित्यो दोषः । अत्राहुः केचित् - 'प्रमत्तोन्मत्तायुक्तौ समासानौचित्यस्यापि सहृदयवैमुख्यापादकत्वाभावादयं दोषो न नित्यः । अत एव - ' रक्ताशोक ! कृशोदरी क्व नु गता त्यक्त्वाऽनुरक्तं जनं ? नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः । उत्कण्ठाघटमानषट्पदघटासा दष्टच्छदस्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ? ॥' इत्यत्र 'नो दृष्टा - ' इति क्रोधोत्पत्त्यव्यवहितोच्चारितपदेध्वेव समासौचित्येऽपि तत्राकृत्वाऽन्यत्र ( कतिचित्पदानि परित्यज्य ) समासकरणादस्थानस्थसमासस्यापि उन्मत्तपुरुवस उक्तिवशाद्गुणत्वम् ।' इति । अन्ये पुनः प्राहु: - 'रक्ताशोक ! - इत्यत्र शृङ्गारेऽनुचितस्यापि दीर्घसमासस्य सद्भा वेनास्थानस्थत्वं रक्ताशोकं प्रति क्रोधमुत्कर्षयतीति तस्य गुणत्वम् ।' इति । वृद्धास्त्वेवं प्राहु: - 'नात्रोन्मत्तस्योक्तिः, किन्तु रक्ताशोकं प्रति क्रुद्रस्य तस्मात्तत्रापि ( द्वितीयाऽपि ) ( समा सन्यासस्यौचित्यमेवेति समासस्यास्थाने न्यास एव न सम्भवति, तस्मादयं नित्य एव दोषः ।' इति । अथ नव्याः प्राहु: - 'अस्थाने समासस्य न्यासः संन्यास - त्याग इति यावत्, न्यासो विन्यासो विधानमिति यावत् इति वा । तथाच - अस्थाने समासस्य त्यागो विधानं चेति ‘अस्थानसमासत्यागास्थानसमासविधानापरपर्यांयोऽस्थानसमासन्यासो नाम दोषो द्विविध इति स्थितम् । तत्राद्यो यथा'उद्यद्भीषणवासनाभिरनिशं दुश्चेतसां वः क्षणादद्याहं स्वयमन्तको रणगतो गजमि वीरव्रतः । ये येऽत्रोपगताः स्थ, यात न चिरात् स्वेषां पितॄणां पुरं, ते युष्मान् समुपायन्ति किमु तद्वयर्थे पदं तिष्ठत ॥' इत्यत्र समासमारभ्यापि तत्त्यागः कृतः । इति । न चास्य वर्णानां प्रतिकूलत्वेऽन्तर्भावो युज्यते, समासवर्णरूपत्वाभावात् । रसाननुगुणवर्णबहुलवाक्यं हि वर्णानां प्रतिकूलत्वम् । एवं च - माधुर्यवच्छृङ्गारादिरसप्रधानस्थलेऽपि दीर्घसमासविधाने ओजोवद्रौ द्रादिरसप्रधानस्थलेऽपि वा दीर्घसमासत्यागेऽयमेव दोषः । नाप्यत्र पतत्प्रकर्षता, प्रथमं प्रवृत्तस्य प्रकर्षस्याग्रे परित्यागे तत्सम्भवात्, अस्य पुनस्तद्वैपरीत्येन सम्भवात् । अथच - उभयत्रोचितस्यैव प्रकर्षस्याभावे पतत्प्रकर्ष तोत्पद्यते, एष तु एकतर त्रैवोचितस्य समासस्य त्यागे दोषः । सङ्कीर्णता सङ्कीर्णमनेकवाक्यघटकपदानां परस्परमन्तः प्रविष्टत्वेन सङ्करतां प्राप्तं तस्यभावस्तता । तथाच - भिन्नभिन्नवाक्यार्थान्वितपदानां तत्तदर्थं निराकाङ्क्षवाक्यघटकत्वं नाम सङ्कीर्णता दोष इति फलितम् । अत एवास्य क्लिष्टत्वाद्भेदो, वाक्यमात्रगतत्वं च । वाक्यान्तर घटकपदानां वाक्यान्तरप्रविष्टत्वे एतत्सम्भवाद् यथाऽभिमतार्थवाक्याव स्थितिप्रतीतिविलम्बोऽत्र दूषकताबीजम्, इष्टबोधबाधाद्रसस्वारस्यभङ्गो दूषकताबीज मित्यपरे । अत एवायं नित्यः । गर्भितता जातवाक्यान्तराधानगर्भ वाक्यं गर्भितं तत्त्वं पुनस्तदाख्यो दोषः । तथाच - अन्तः स्थितवाक्यान्तरवाक्यत्वं गर्भितत्वन्नाम दोषः । तादृशवाक्यं तु क्वचित् स्वभावत एवैकं, क्वचित् पुनर्हेतुहेतुमत्त्वेन वाक्यैकवाक्यतयैकीभूतम् । एवं च - द्विविधोऽयम् । अत्र मध्यस्थितस्य स्वार्थानुभावकत्वं न पुनः सङ्कीर्णत्वमित्यनयोर्भेदः । अन्ये त्वाहु: - 'वाक्या. न्तरे वाक्यान्तरीयपदानां प्रवेशे सङ्कीर्णत्वं वाक्यान्तरस्यैव पुनः प्रवेशे गर्भितत्वम्; इत्येतयोर्भेदः । ' इति । अत्र झटिति प्रतीतिविरहो नासत्तिर्वा दूषकता बीजम् । यत्र तु प्रतीतिविशेषाधानाय वाक्यान्तरस्य क्रोडीकरणं, तत्रास्य गुणत्वमपीत्ययमनित्यो दोषः । दोषाः निरुक्तावर्णप्रतिकूलत्वादय इतिभावः । वाक्यमात्रगाः । स्युः । अत्रेदं बोद्धव्यम्-वर्णानां प्रतिकूलत्वमारभ्य गर्भितताऽन्तं त्रयोविंशतिसख्याका वाक्यमात्रगता दोषा निरुक्ताः, तत्र वर्णानां प्रतिकूलत्वं, हतवत्तत्वं सन्धौ विश्लेषः, अभवन्मतसम्बन्धत्वम्; अमतपरार्थत्वं वाच्यस्यानभिधानं, भमप्रक्रमता, अस्थाने पदन्यासः, सङ्कीर्णत्वं चेति दश दोषा नित्याः, लुप्तविसर्गत्वादयः पुनस्त्रयोदशदोषा अनित्याः । इति ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥
३१