________________
[सप्तमः
साहित्यदर्पणः। त्यागः प्रसिद्ध,-रस्थाने न्यासः, पदसमासयोः । संकीर्णतो, गर्मितता, दोषाः स्युर्वाक्यमात्रगाः ॥ ८ ॥
अत्र तु सम्बन्ध एव तयोर्न प्रतीयते इति महान् भेदः । तथाच-तत्रान्वयविशेषाभावः, इह पुनरन्वयसामान्याभावः, इति भावः । एवं च-प्रकृते पदार्थयोर्वाक्यार्थविधया भासमानसंयोगस्यैव अभानम् , तत्र तुद्देश्यत्वादिशालिबोधस्यानुदय इति विशेष इति भावः । अत एवात्र सम्बन्धपदं चरितार्थम् । नन्वेवमन्वयसामान्याभावविवक्षायामभवन्मतसम्बन्धत्व'मित्यत्र विवक्षितार्थकमतत्वविशेषणमन्वये व्यर्थम् , प्रत्युताविमष्टविधेयांशत्वेन सङ्कीर्णत्वापादकमेव स्यादिति चेत् ? नात्र विवक्षितार्थकतया मतशब्दप्रयोगः, किन्तु शाब्दबोधविषयत्वार्थकतया इति । अत्र चेष्टप्रतीतिविरहोदूषकताबीजम्, तस्मादयं नित्यो दोषः । अक्रमत्वं पदसनिवेशरूपरचनायाः प्रस्तुतार्थाप्रत्यायकत्वनिबन्धनम्, अत एवास्थानस्थपदत्वादस्य भेदः । न हि तत्र प्रस्तुतार्थाप्रत्यायकत्वं, किन्तु प्रस्तुतार्थप्रत्यायकत्वेऽप्यनौचित्यम् । अथ दुष्कमत्वमर्थक्रमस्यानौचित्ये, भग्नप्रक्रमत्वं पुनरुपक्रमोक्तक्रमस्योपसंहारे भङ्गे इत्यूह्यम् । अमतपदार्थ 'ज्ञेयौ शृङ्गारवीभत्सौ तथा वीरभयानको । रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥' इत्युक्तदिशा प्राकरणिकव्यङ्ग्यशृङ्गाराद्यन्यतमरसप्रतिकूलबीभत्साद्यन्यतमरसव्यञ्जकश्लेषादिमूलकव्यङ्ग्यद्वितीयार्थोपस्थितिनिवन्धनम् । अत एवास्य प्रकृतरसापकर्षकत्यं दूषकताबीजम् , विरुद्धमतिकारित्वादिभ्यश्च भेदः । विरुद्धमतिकारित्वं हि प्रकृतवाच्यार्थीपस्थितिनिवन्धनमूलम् । अयं च दोषो नित्यः, प्रकृतस्य व्यज्यमानस्य रसस्य रसान्तराभिव्यक्त्या तिरस्कारकत्वात् । च पुन: । वाच्यस्यावश्य वक्तव्यस्य-पदस्थेति शेषः नत्वर्थस्येति । अन्यथा शब्ददोषत्वानुपपत्तेः । वाच्योऽपि शब्दो वाचकातिरिक्त एवं प्राह्यः, तेन वाच्यस्यावश्यं वक्तव्यस्य वाचकातिरिक्तस्य शब्दविशेषस्य द्योतकरूपस्येति यावत् इत्यर्थः । 'कृत्याश्च ।' ३।३।१७१ इत्यनेनावश्यकार्थे ण्यत् । अनभिधानं नाभिधानं कथनमभिहितार्थत्वमिति यावदिति तथोक्तम् । तथाच-अनभिहितावश्यवक्तव्यद्योतकपदत्वं वाच्यस्यानभिधानं दोषः । यत्र हि अवश्यं वक्तव्योऽपि द्योतकः शब्दो नाभिहितः, तत्त्वस्य वाच्यानभिधानपदार्थत्वात् । अत एव-न्यूनपदत्वादस्य भेदः । तत्र वाचकपदस्यैव न्यूनतायास्तादवस्थ्यात् । इति फलितम् । तस्मादुद्देश्यविधेयभावादिद्योतकविभक्तीनां निपातानां च न्यूनतायामप्येतस्येव सम्भव इति बोध्यम् । अप्यादीनामपि वाचकत्वाङ्गीकारपक्षे तु 'वाचकातिरिक्तस्ये'त्यतन्त्रम् ।' अत एव 'वाच्यस्ये'त्येतावन्मात्रमभिहितं सङ्गच्छते कविराजानाम् । एवं सतिन्यूनपदत्वं विवक्षितार्थपदन्यूनत्वनिबन्धनम्, तस्य च क्वचिद्गुणत्वमपि, अनभिहितवाच्यत्वापरपर्सायं वाच्यस्यानभिधानं पुनरवश्य वक्तव्यन्यूनत्वनिबन्धनम्, तस्य च विवक्षितार्थसजातीयपदान्तरसन्निवेशनाप्युत्थानाभावः, अस्य तु न; किन्तु-तत्सन्निवेशेनैवेत्यनयोर्भेद इति स्थितम् । तस्मात्-विवक्षितार्थनिपातेतरपदन्यूनत्वे न्यूनपदत्वं, विवक्षितार्थाप्यादिनिपातसज्ञकपदन्यूनत्वे पुनर्वाच्यस्यानभिधानम् । न हि 'अपी'त्यस्य तत्समानार्थेन पदान्तरेणाकाङ्क्षा पूर्यते, पूर्यते पुनः 'कान्ताया' इत्यादेः 'प्रियाया' इत्यादिना । अत एवायं नित्यो दोष इति। तथा। भग्नप्रक्रमता भग्नो विच्छिनः प्रक्रमः प्रस्तावो यत्र यस्य वा, इति तत्त्वम् । प्रस्तावश्चात्राकाङ्कितप्रकारकोऽर्थः । यद् येन प्रकारेण प्रानिर्दिष्टं तस्य तत्प्र. कारेणानुक्तिरेव भङ्गः । तथाच-प्रत्युत्थिताकाक्षाविषयीकृतेन प्रकारेण पश्चादनभिहितत्वं भग्नप्रक्रमता दोष इति फलितम्। प्रसिद्ध प्रयोगप्रवाहोत्थापि(त्तम्भि) ताया अंभिन्नार्थानामपि शब्दानां तत्तद्विशेषणव सन्निवेशौचित्यविषयिण्याः प्रख्यातेः। त्याग उल्लङ्घनम् । 'दोष' इति शेषः । यत्र प्रयोगप्रसिद्धेस्तिरस्कारः, स त्यक्तप्रसिद्धित्वापरपर्यायः प्रसि. द्धित्यागो नाम दोषः । अत्र च कवेः प्रसिद्धिपरित्यागेन तादृशाभिज्ञानशुन्यत्वनिदर्शनं दूषकताबीजम् । 'प्रसिद्धित्यागकृतसहृदयोद्वेगोदूषकताबीजम् ।' इति तूद्योतकाराः। अत एव श्लेषादौ तदभावान्नायं नित्यो दोषः । यथा-'प्रतिद्वन्द्रि तयाऽन्योऽन्यं जिगीषूणां सुरोषिणाम् । वीराणां रणितं कस्य चित्ते त्रास न चादधौ ॥' इत्यत्र 'रणितं गर्जितं क्रीडितं चेति रणितशब्दस्य नानाऽर्थकतया प्रसिद्धस्य प्रयोगो न दोषाय । ननु रणितादिशब्दानां वीरगर्जनादिवाचकताप्रसिद्धयभावेनैतस्यावाचकत्वेनाप्रयुक्तत्वेन वा गतार्थत्वं स्यादिति चेत् ? न, सर्वथा विवक्षितार्थावाचकताविरहात् प्रयोगानिषेधाच । उभयत्र हि समानेनैव रूपेण शक्तिसत्त्वेऽप्येकत्रैव प्रसिद्रुया शक्तिस्वीकारेऽपि तद्भङ्गे एतस्योत्थानम्, न तु तयोः ।