________________
परिच्छेदः ।
रुचिराख्यया न्याख्यया समेतः । अभवन्मतसम्बन्धोकमतपरार्थताः । वाच्यस्यानभिधानं च भमप्रक्रमती तथा ॥ ७ ॥
सन्धौ विश्लेषः, सन्धावश्लीलता, सन्धौ कष्टता चेति त्रयो दोषा इति भावः । अयम्भावः सन्धर्वैरूप्यं विश्लेषादिना सम्भवतीति तदेवात्र दुषकताऽऽधायकम् । एवं च सन्धेरूप्यं त्रिधा, विश्लेषोऽश्लीलत्वं कष्टत्वं चेति भेदात् । विश्लेषश्च द्विविधः, 'संहितैकपदे नित्या, नित्या धातपसगयोः । नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते ॥' इति प्राचामभिधानादेच्छिक आनुशासनिकश्च; अत्राप्यानुशासनिको द्विविधः, प्रगृह्यहेतुकोऽसिद्धिहेतुकश्चति भेदात् । तेष्वाद्यः, सकृदपि प्रयुक्तो दोषाय, इच्छानिबन्धनत्वेनाशक्तिमूलकतया प्रथमत एव सहृदयोद्वेजकत्वात् , अन्त्यौ त्वसकृद्वर्तमानावेव, आनुशासनिकत्वेनाशक्त्यनुन्नायकतया बन्धपारुष्येण बन्धशैथिल्येनैव वा सहृदयोद्वेजकत्वात् । इति केचित् । वस्तुतस्तु-यत्र सन्धेर्नित्यं प्राप्तावपि अविधानं तत्र तु वाक्यगतच्युतसंस्कारत्वं दोषः । यथा-'प्रवर्तयित्वा परितः स्वचक्रम् ।' इत्यत्र । यत्र च सन्धेः प्रगृह्यत्वेन विधानाभावस्तत्र कथं सन्धेर्वैरूप्यमिति न विद्मः; यत्र च सन्धावश्लीलत्वं कष्टत्वं वा समुत्पद्यते तत्र यद्यपि वैरूप्यमिति वक्तुं शक्यते, अथापि सन्धावश्लीलत्वं कष्टत्वं चेति बोध्यम् । अन्यथोपहतविसर्गत्वलुप्तविसर्गत्वयोरपि भवेदत्रैवान्तर्भावः । किं बहना, 'जगदीश्वर,भवानीश्वरादिशब्दानामपि एतद्दोपाधिष्ठितत्वं युज्येत । अत्र च-- बन्धशैथिल्यं, सहृदयोद्वेजकत्वं, मधुरिमोपघातेन श्रवणारजकत्वं च क्रमादृषकताबीजम् , अत एवाद्यो नित्यो नान्त्यो,एतयो: शान्तवीरादिषूपादेयत्वात् । अान्तरैकपदताऽन्यद् द्वितीयं स्वानन्वयीभूतत्वेन भिन्नमिति यावत् यद, तद‘न्तरं; तंत्रकमसहायमन्वयोपयोगिपदान्तरसाहाय्यशन्य पदं विवक्षितं वाचकपदं द्योतकपदं वा यत्र (वाक्ये) तत्तेति तथोक्ता । 'दोष' इति शेषः । अर्द्ध च श्लोकस्य, स चाप्येकवाक्यात्मक एव ग्राह्यः, तथाच--अन्वयोपयोगिताशून्येकवाक्यात्मकश्लो. कार्द्धगतत्वेनासहायावश्योपादेयवाचकद्योतकान्यतरपदत्वमान्तरैकपदत्वम् । वाक्यान्तरान्तःपातविरहान सङ्कीर्णत्वेन सङ्करः, सर्वेषामेव प्रायः पदानामेकैकपदान्तरान्तःप्रविष्टत्वे वाक्यार्द्धविभागस्यैव वक्तुमक्षमत्वात् , न च क्लिष्टत्वेतस्याभेदः, श्लोकार्द्धान्तरितत्वेनैवास्य सम्भवात् ; नाप्यस्य अस्थानस्थपदत्वेन गतार्थत्वम् , अवश्यमुपादेयस्याप्यन्तरितत्वेनैव निराकाक्षत्वमूलकत्वात् । न वाऽपुष्टार्थत्वेनैतस्यैकात्मकत्वम्, अर्द्धान्तरपातित्वेऽपि अवश्योपादेयत्वानिवृत्तावपुष्टार्थत्वायोगात् । अन्तिरैकपदत्वे निराकाइक्षत्वं द्वितीया पतितस्यैकस्य पदस्य विलम्बेनोपस्थित्याऽन्वयबोधविलम्बस्त्राधिष्ठितश्लोकान्वियभ्रमजनकत्वे सति अपरार्द्धान्वयाकाडक्षापूरकताशन्यत्वं वा दषकताबीजम् । श्लेषादावुपादेयत्वान्नास्य नित्यत्वम् । यथाहि--"विनय विमताधारपदद्वन्द्वे निबध्यते । वादीन्द्रदर्पदलनं शास्त्रतत्त्वोपपादनम् ॥” इत्यत्र 'ते पदद्वन्द्वे विनयं निबध्य विरचय्य शास्त्रतत्त्वोपपादनं निबध्यते ॥' इत्येवं देहलीदीपकन्यायेन 'निबध्यते' इति चमत्कारकारि । वाचकस्यार्द्धान्तरितत्वमुदाहरिष्यते, द्योतकस्य पुनर्यथा; 'सन्तापशमनी सत्यत्रता शीतरुचे रुचिः । इवाभाति महाराज ! त्वदीययशसां ततिः ॥' इत्यत्र, इत्यस्य पूर्वार्द्रपाठौचित्येऽपि परार्द्ध निवेशात् । समाप्तपुनरात्तता समाप्त पुनरात्तं पश्चाद्गृहीतं पदं वाक्यं वा यत्र, तस्य भावस्तत्ता । समाप्तपुनरात्तत्वं च क्रियाकारकभावेनान्वयबोधकवाक्या. भिधानानन्तरमभिहितस्यापि वाक्यस्य तदन्वयिपदवाक्यान्यतरोपादानेन पुनरुपादानं, क्रियाकारकान्वयेन समाप्तस्यापि वाक्यस्य विशेषाभिधित्सामन्तरेण पुनस्तदन्वयिपदवाक्यान्यतरोपादानेनाभिधानं वा । अत एव विशेषाभिधित्सायां नास्य दोषत्वमित्ययमनित्यो दोष इति स्थितम् । तत्र-समाप्तपुनरात्तपदत्वापरंपर्यायोऽयमुदाहरिष्यते । अन्यो यथा-'अपारकरुणासिन्धुः शरणागतवत्सलः । कश्चिदेवेशो लोके न महात्मा जनोजनः ।' इत्यत्र चतुर्थपादात्मकस्य वाक्यस्य पुनरुपात्तत्वात् । अभवन्मतसम्बन्धाक्रमामतपरार्थताः । न भवति सम्भवतीति अभवन् मतोऽभिमतः सम्बन्धोयत्र तदभवन्मतसम्बन्धम् । न क्रम उपक्रमो यत्र तदक्रमम् । न मतोऽभिमतः परार्थो द्वितीयार्थो यत्र तदमतपरार्थम् । अभवन्मतसम्बन्धत्वमभिमतान्वयानुपपत्तिनिबन्धनम्, अत एवाविमष्टविधेयांशत्वादेतस्य व्यवच्छेदः, अत्र हि पदार्थयो. रन्वयस्यैवासम्भवः, तत्र पुनरन्वयसम्भवेऽपि उद्देश्यविधेयभावस्यैवावगमाभावः । उक्तं च-'नचाविमृष्टविधेयांशत्वस्यान्तर्भावः, उपजीव्यत्वेन भेदादिति केचित् । उपजीव्यत्वेनाविमृष्टविधेयांशत्वस्य मतसम्बन्धाभावप्रयोजकत्वेन । बस्तुतस्तु-तत्र परस्परान्वितत्वेन विवक्षितयोः पदार्थयोरन्वयो भवत्येव, परन्तु अनभिमतत्वेनाप्राधान्यादिना वा रूपेण,