________________
साहित्यदर्पणः।
। सप्तमःएवं पददोषसजातीया वाक्यदोषा उक्ताः सम्प्रति तद्विजातीया उच्यन्ते ।
४ वर्णानां प्रतिकूलत्वं, लुप्ताहतविसर्गते । "
अधिन्यूनकथित-पदता, हतवृत्तता ॥५॥ ... पतत्प्रकर्षा सन्धौ विश्लेषांश्लीलंकष्टतोः ।
___ अर्धान्तरैकपदतो, समाप्तपुनरात्तता ॥ ६ ॥ एवं पदवाक्यपदांशदोषानिरूप्य वाक्यमात्रदोषानिरूपयितुमुपक्रमते-एवमित्यादिना ।
एवं निरुक्तप्रकारेण । पददोषसजातीयाः पददोषाणां सजातीयाः । वाक्यदोषाः । उक्ता निरूपिताः । सम्प्रतीदानीम् । तद्विजातीयाः उच्यन्ते-४ वर्णानामित्यादिना ।
४ वर्णानाम् । प्रतिकूलत्वं विरुद्धत्वं तिरोधायकत्वेनापकर्षकत्वेन वाऽननुकूलवृत्तित्वम् । 'दोषः' इति शेषः । अयं च दोषो यत्र शृङ्गाराद्यननुगुणा वर्णाः सम्भवंति तत्रैवेति प्रतिकूलवर्णत्वमित्यप्यभिधीयते । तथाचशृङ्गारादिरसाद्यननुगुणत्वे सति यत् वर्णानां प्रतिकूलत्वं, तत् प्रतिकूलवर्णत्वापरपर्यायो वर्णप्रतिकूलत्वनाम दोष इति फलितम् । न चास्य दुःश्रवत्वेन सङ्करः, तत्र परुषवर्णानामेव दुष्टत्वम्, अत्र तु सुकुमाराणामपि रौद्रादाविति भेदात् । रसविरोधित्वमेवास्य बीजं च । अत एवायं नित्यो दोषः । लुप्ताहतविसर्गते लुप्तविसर्गताऽऽहतविसर्गता चेत्यर्थः । एतौ च दोषावनित्यौ यमकादौ तत्प्रतिप्रसवात् । अत एव-'विनीता विमला भव्याचरिता यस्य सत्कृते । दारा इव सदायत्ता जनता स कृती खलु ॥' 'पिकोऽपिकोऽपि कोपिको वियोगिनीरभर्सयत् । वांसि भङ्गमालपन्नितानि तानि तानि ताः॥' इत्यादौ विसर्गाणां लुप्ताहतत्वे अपि सङ्गच्छेते । यत्तक्तं 'भयो महीयोऽतियशोविभूषितः ।' इत्यादौ कथन्न पददोषत्वम्।' इति, तचिन्त्यम्; विसर्गत्वस्य पदान्तरापेक्षितत्वेन वाक्यदोषत्वात् । अन्यथा 'न्यकारोह्ययमेव'-इत्यादावपि पददोषत्वमापधेत । अधिकन्यूनकथितपदताः । अधिकपदता न्यूनपदता कथितपदता चेत्यर्थः । तत्र-आद्यः-अविवक्षितार्थपदत्वम् , अनुपयुक्तार्थपदत्वं वा; अधिकं हि पदमविवक्षितार्थमनुपयुक्तार्थ वा भवति द्वितीयः पुनर्विवक्षितार्थपदविहीनत्वम् अनुपात्तविवक्षितार्थपदत्वम्, उपादेयार्थस्यापि पदस्यानुपात्तताविषयत्वं वा, न्यून हि पदं विवक्षितार्थकमपि उपादेयमपि वाऽवहेलितोपादानकम्भवति, तृतीयस्तु प्रयोजनशून्यत्वे सति उपात्तसमानार्थकसमानानुपूर्वीकपदवत्त्वम् । अधिकपदत्वे च अविवक्षितार्थकतया निष्प्रयोजनशब्दश्रवणेन श्रोतू रसोद्बोधवैगुण्याज्जायमानं वैमुख्यं दूषकताबीजम्, अत एव 'वद वद जितः सशत्रुर्न हतो जल्पंश्च तव तवास्मीति । चित्रं चित्रमरोदीद्धाहेति परम्मतेपुत्रे॥' इत्यादौ हर्षांदावभिव्यज्यमाने दुष्टत्वाभावादेतस्यानित्यत्वम् । न्यूनपदत्वे च पदज्ञानविरहकृता विवक्षिताप्रतिपत्तिर्दूषकता. बीजम्, अत एव 'त्वं जीवितं त्वमसि मे हृदयं द्वितीय, त्वं कौमुदी नयनयोरमतं त्वमङ्गे । इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण॥' इत्यादौ 'तामेवे'त्यतः परं 'कथं त्यक्तवानसी'ति 'नाशितवानसी'ति वा वाक्यशेषस्य दुःखातिशयेन वक्तुमशक्यतया न्यूनत्वेऽपि दुःखातिशयव्यजकत्वात् । कथितपदत्वेच कवेः शक्त्युन्नयनोपभुक्तभोगवच्छ्रोतुर्वेमुख्य दूषकताबीजम्, अत एव लाटानुप्रासादो कवेर्नाशक्त्युनयनमित्यस्य प्रतिप्रसवः । न चैकस्यैव पदस्य द्वितीय. वारोपादाने पिटपेषणवदचमत्कारित्वं दूषकताबीजमिति वाच्यम्, अनवीकृतत्वेन साङ्कर्यापत्तेः । ननूदहरिष्यमाणे 'पलवाकृति रक्तोष्ठी।' इत्यादौ 'रतिलीलाश्रमम्भिन्ते सलीलजनिलो वहन्' इत्यादौ चाधिकपदत्वकथितपदत्वयोः कथं वाक्यगतत्वं सअच्छते । समासेनैकपद्येऽसमस्तदशायां नानापदत्वेनाप्यभिमतस्य पदांशत्वापत्तेः । हतवृत्तता हतं लक्षणाननुसारित्वेन नष्टं, लक्षणानुसारित्वेऽपि वाऽश्रव्यत्वादिना कुत्सितं वृत्तं छन्दो यस्य तस्य भावस्तत्ता । 'दोष' इति शेषः । तत्र दुःश्रव्यत्वादिना श्रोतुबैमुख्यं दुषकताबीजम् । दुःश्रव्यत्वं च लक्षणाऽननुसारित्वेन च्छन्दोभङ्गजन्यं, लक्षणाऽनुसारित्वेऽपि वर्णनिवेशविशेषजन्यं चेति द्विविधम् । आदिपदेन रसाननुगुणत्वमप्राप्तगुरुभावान्तलघुत्वं च । एवमेतचतुष्टयमूलतयाऽस्यापि दोषस्य चतुर्विधत्वमह्यम् । अत्राप्याद्यतृतीयभेदस्य नित्यत्वं, नान्यस्यापि । पतत्यकर्षता पतन् उत्तरोत्तरं भ्रश्यमानः प्रकर्षोऽनुप्रासादिकृतबन्धदाढीज्ज्वल्याद्यात्मा रचनाविशेषो यत्र तस्य भावस्तत्ता । अत्र पूर्वीपेक्षयोत्तरत्र बन्धशैथिल्य. मिति कवेरशक्तयुन्नयनेन धोतुर्वैरस दृषकताबीजम् । यत्र तु रसानुगुणतयोत्तरोत्तरं प्रकर्षपतनमपेक्षितमेव भवेत् , तत्र न दोष इत्ययमनित्यो दोषः । सन्धौ संहितायाम् । विश्लेषाश्लीलकष्टताविश्लेषश्चाश्लीलकष्टते चेति, तथोक्ताः ।