________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः। - । एवं प्राकृतादिवशकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यम् ।
तथा 'पद्म' इत्यत्राप्रयुक्तत्वस्य पदगतत्वं बोध्यम् । इह शब्दानां सर्वथा प्रयोगाभावेऽसमर्थत्वं, विरलप्रयोगे तु निहतार्थत्वम् निहतार्थत्वमनेकार्थस्य शब्दस्याप्रसिद्धार्थविषयम्, अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः, अप्रयुक्तत्वमप्रसिद्धलिङ्गादिविषयम्, असमर्थत्वमनेकार्थशब्द विषयम्, असमर्थत्वे हि हन्त्यादयो गमनार्थे पठिताः, अवाचकत्ये पुनर्दिनादयः प्रकाशमयाद्यर्थे न तथेति परस्परभेदः।
स्थानात् इति चेत् ? तथा सत्त्वेऽपि रूपान्तरे दोषावस्थानाभावात् । न हि 'सिद्धी' इत्यस्य 'द्धथै' इत्यशे यादृशं श्रुतिकटुंत्वं तादृशं 'रिद्धये' इत्यस्य 'द्ध' इत्यंशे सम्भवति । तस्मात् तत्र पदांशदोषत्वमेव, अत्र पुनः पददोषत्वं न्याय्यम् । ननु 'आदावजन...॥'...अत्रैव 'कुरुते' इत्यात्मनेपदमप्यनथकम्...इत्येवं प्रकाशकारोक्त, तत्र कथ पदांशमात्रस्य दोषित्वं सङ्घटते इति चेत् ? तत्रात्मनेपदमात्रस्य दुष्टत्वात् । 'कृ'प्रकृति परिवर्त्य 'तना'धन्यतमप्रकृतेर्निवेशेऽपि यावदात्मनेपदं न हि तन्निवृत्तिः । इति यथोक्तं ज्यायः । इति।।
व्याकरणलक्षणविरुद्धत्वं च्युतसंस्कारत्वं, तत्र व्याकरणं च प्रतिभाष भिन्नम् ; अतः-संस्कृतभाषाव्याकरणविरुद्धत्वे सति यथा संस्कृतभाषायां च्युतसंस्कारत्वम्, तथाऽन्यत्रापीत्याह-एवमित्यादि ।
___ एवं यथा संस्कृतभाषायां तद् व्याकरणलक्षणविरुद्धत्वे सति च्युतसंस्कारत्वं तथा । प्राकृतादिव्याकरणलक्ष. णहानौ प्राकृतादिभाषासंस्कारकव्याकरणानुशिष्टलक्षणपरित्यागे । अपि । च्युतसंस्कारत्वं 'दोष इति' इति शेषः । ऊह्यं बोध्यम् ।
उक्तंन्यायमन्यत्रातिदिशति-तथेत्यादिना ।
तथा 'पद्म' इत्यत्र 'भाति पद्मः सरोवरे।' इति वाक्यगते 'पद्म' इत्यस्मिन पदे । अप्रयुक्तत्वस्य 'दोषस्ये' ति शेषः । 'अप्रयुक्तस्य'ति पाठे तु 'स्त्रियाम् । १३ इत्यत्र स्त्रीत्वे इत्यर्थ स्त्रियामितिवत् 'लभ्वादि धर्मः साधये, च वैधये, गुणानाम् । ।१।२९ इत्यत्र लघुत्वादिधरित्यर्थ लधादिधरितिवञ्च भावप्रधानो निर्देशो बोध्यः । पदगत्वम् । बोध्यम्।
एवं पदपदांशवाक्यदोषांलक्ष्यलक्षणाभ्यान्निरूप्य तत्र तेषां परस्परं भेदं दर्शयति-इत्यादिना ।
इहैतेषु दोषेषु मध्ये । शब्दानां प्रयुज्यमानानां हन्त्यादिशब्दानाम् । सर्वथा । प्रयोगाभावे । 'सती'ति शेषः। असमर्थत्वम् । यत्र यस्य यदर्थकतया प्रयोगस्तस्यान्यत्र तदर्थकतया सर्वथा प्रयोगाभावेऽसमर्थत्वं दोषः, यथा 'कुञ्ज हन्ति कृशोदरी ।' इत्यत्र 'हन्ती' त्यस्य 'गच्छतीत्यर्थे प्रयोगः, सचान्यत्र तस्मिन्नेवार्थ न दृश्यते इति तस्यासमर्थत्वमिति भावः । विरलप्रयोगे विरल: क्वाचित्कः प्रयोग इति तत्र । तु निहतार्थत्तम् । प्रयुज्यमानस्य शब्दस्य क्वाचिके प्रयोगे निहतार्थत्वं दोषः । यथा-'यमुनाशम्बरमम्बरं व्यतानी'दित्यत्र 'शम्बर' शब्दस्य जलार्थ क्वचिदेव (इलेषादौ ) प्रयोगो दृश्यत इति तस्य निहतार्थत्वमिति भावः । अनेकार्थस्य । शब्दस्य 'शम्बरा'दिपदस्य ।अप्रसिद्धार्थविषयमप्रसिद्धोजलादिरूपोऽर्थस्तद्विषयम्। निहतार्थत्वम्। एकार्थस्य । अपिशब्दस्य सार्वत्रिकप्रयोगविरहः।तु अप्रतीतत्वं'दोष'इति शेषः । यथा 'योगेन दलिताशयः' इत्यत्राशयशब्दस्येति भावः । अप्रसिद्धलिडादिविषयमप्रसिद्वमसार्वत्रिकप्रयोग यल्लिङ्गादि लिंगप्रत्ययादि तद्विषयो यस्य तत । 'एकार्कशब्दविषय' मिति पाठे तु एकः प्रसिद्धलिङ्गाद्यवस्थाक एवार्थो यस्य तादृशशब्दविषयमित्यर्थः । लिङ्गादिभिन्नत्वेऽपि अर्थपरिवृत्त्यभावेन प्रयोगक्वाचिकत्वमलमितिभावश्चेति बोध्यम् । अप्रयुक्तत्वम । यथा-"भाति पद्मः सरोवरे ॥” इत्यत्र 'पद्म' शब्दस्यति भावः । अनेकार्थशब्दविषयमनेके प्रकृताप्रकृताः प्रसिद्धाप्रसिद्धा वाऽर्थायेषां ते चामी शब्दा इति ते विषया यस्य तत् तथोक्तम् । असमर्थत्वम् । यथा---'कुजं हन्ति कृशोदरी॥'इत्यत्र 'हन्ती'त्यस्यानेकार्थकस्यापि पदस्य न विवक्षितेऽ. थे शक्तिरित्यसमर्थत्वम् । हि यतः । असमर्थत्वे 'दोषे' इति शेषः । हन्त्यादयः 'शब्दा' इति शेषः । गमनाद्यर्थ गच्छतीत्याद्यर्थे । पठिताः। अवाचकत्वे 'दिनम्मे त्वयि सम्प्राप्ते' इत्यादौ पुनः । दिनादयः । 'शब्दा' इति शेषः । प्रकाशमयाद्यर्थे । 'पठिता' इति पूर्वणान्वयः । न । इति । 'असमर्थत्वादीना'मिति शेषः । परस्परभेदः ।