________________
- साहित्यदर्पणः ।
[सप्तमः'आङोयमहनः ।' १।३।२८ इत्यनुशासनबलादापूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम्, इह तु तल्लङितमिति व्याकरणहीनत्वाच्युतसंस्कारत्वम्।।
नन्वत्र 'आजन्ने' इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयवेत्यस्य वाक्यदोपता, मैवम् । तथाहि-गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः । इह च दोषस्य 'आजत्ने' इतिपदमावस्यान्वयव्यतिरेकानुविधायित्वम् । पदान्तराणां परिवर्तनेऽपि तस्य तादवस्थ्यमिति पददोषत्वमेव । तथा यथेहात्मनेपदस्य परिवृत्ती न दोषः, तथा 'हन्' प्रकृतेरपीति न पदांशदोषः । 'आङोयमहनः।' १।३।२८ इत्यनुशासनबलात् । आपूर्वस्य-हनो हन्तेर्धातोः । स्वाङ्गकर्मकस्य । एव 'सकर्मकत्वविवक्षाया मिति शेषः। अन्यथा 'स्वाङ्गकर्मकाचेति वक्तव्यम् ।' इत्यत्र 'चेति सार्थकं न स्यात् । तेन सकर्मकत्वविवक्षायां सत्यामेव स्वाङ्गकर्मकन्येत्यर्थः । आत्मनेपदम् । नियमितम, इह निरुक्तस्थल-तु। तद'अनुशासन मिति शेषः । लक्षितं 'सकर्मकत्वविवक्षासद्भावेऽपि पराङ्गकर्मकत्वे आत्मनेपदविधानादिति शेषः । इतीत्येवम् । व्याकरणहीनत्वाद् व्याकरणलक्षणानाक्रान्तत्वात् । च्युतसंस्कारत्वं दोष' इति शेषः । अत्राहुमल्लिनाथा:-'अत्रात्मनेपदं विचार्यम् 'आङोयमहनः ।' इत्यत्राकर्मकाधिकारात् 'स्वाङ्गकर्मकाच' इति वक्तव्यत्वात्, न च शिवस्य प्रतिमुखमित्यन्वयात् कनकशिलानिभं कनकनिषकतुल्यं श्याम ववक्ष आजघ्ने इत्यर्थः, इति वाच्यम्; अनौचित्याचरणात्। न हि युद्धाय सनद्धा निपुणा अपि मलाः स्ववक्षस्ताड़नमाचरन्ति, किन्तु, स्वभुजास्फालनम् । किञ्च अनन्तरवक्ष्यमाणभवकर्तृकाविनयस इनविरोधाद्वक्षएवेत्यन्वयस्याव्यवधानाच पूर्वेरेव दूषितत्वात्, अतो व्याकरणान्तराद् द्रष्टव्यम् । केचित्तु त्र्यम्बकस्य वक्षः प्राप्यत्यध्याहारं स्वीकृत्याकर्मकत्वादात्मनेपदमाहुः ।' इति ।
स्थूगानिखणनन्यायेनात्र पददोषत्वं प्रतिपादयति-नन्वित्यादिना ।
ननु अत्र । 'आजन्ने इतिपदस्य । स्वतः पदान्तरानपेक्षया। दुष्टता दुष्टत्वम् । न 'सम्भवतीति शेषः । अपि तु । पदान्तरापेक्षया। इति । अस्य निरुक्तोदाहरणस्य च्युतसंस्कारत्वस्य । वाक्यदोषता 'न तु पददोषता स्यादिति शेषः । एवम् । उत्तरयति-एवम् । 'मा वादी रिति शेषः । तथा हि । गुणदोषालङ्काराणाम् । शब्दार्थगतत्वेन । व्यवस्थिते व्यवस्थायाः । तदन्वयव्यतिरेकानुविधायित्वं तस्य शब्दार्थगत. त्वस्यान्वयव्यतिरेका विति, तौ अनुविधातुं शीलमस्यास्तीति तस्य भावस्तत्त्वम् । हेतुः । यत्सत्त्वे यत्सत्त्वं, सोऽन्वयः, यसत्त्वे यसत्त्वं स व्यतिरेकः; तथा च शब्दगतत्वे सति गुणादिसत्त्वं शब्दगतत्वाभावे गुणादि. सत्वाभावश्च गुणादीनां शब्दगतत्वे हेतुः, अर्थगतत्वे सति गुणादिसत्त्वमर्थगतत्वाभावे गुणादिसत्त्वाभावो गुणादीनामर्थगतत्वे हेतुरिति नियमः इति निष्कृष्टम् । इहास्मिन् 'उन्मजन्' इति पद्ये । च । दोषस्य च्युतसंस्कारत्वस्य । 'आजन्ने' इति पदमात्रस्य । अन्धयव्यतिरेकानुविधायित्वम् । 'आजघ्ने' इति पदस्य सत्त्वासत्त्वाभ्यां तस्य दोषस्य सत्त्वासत्त्वे इति भावः । हि यतः । पदान्तरराणां 'गाण्डीवी' त्यादीनाम् । परिवर्तने 'कृते' इति शेषः । अपि । तस्य च्यु तसंस्कारत्वस्व । तादवास्थ्यम् एव । इतीत्यतः पददोषत्वम् । एव । 'गाण्डीवी' त्यादीनां पायान्तरन्यासेऽपि यावदाजघ्ने इति पदस्य पायान्तराभावस्तावनिरूक्तदोषस्य निवृत्त्यभाव इति पददोषत्वमेवेति भावः । तथा। यथा । इह 'आजन्ने' इत्यत्र । आत्मनेपदस्य । परिवृनौ 'कृताया'मिति शेषः । 'आजन्ने' इत्य. पठित्वाऽऽ'जघाने' पठने इति भावः । दोषः। न भवतीति शेषः । तथा । 'हन्' प्रकृते'हन्' इत्यस्याः प्रकृतेः प्रत्ययोत्पत्तिनिमित्तभूतस्य शब्दविशेषस्येति यावत् । अपि 'परिवृत्तौ न दोष' इति शेषः । इतीत्येवकृत्वा । पदांशदोषः पदांशस्य दोषः । न 'सम्भवती'तिशेषः । अत्रेदमभिहितम्-'आजन्ने' इत्यत्र पदांशदोषो न भवितुमर्हति, अन्वयभ्यतिरेकानुविधायित्वासम्भवात् । तथाहि-यत्र यत्रात्मनेपदं तत्र तत्र पदांशदोष इति न सम्भवति, अत्र हि पराङ्गक कता. मात्रनिवृत्तौ आत्मनेपदसत्त्वेऽपि दोषानवस्थानम् । ननु पराङ्गकर्मकसद्भाव एवेति चेत् ? 'हन्' इति प्रकृतेः परिवृत्तौ कथन ? अथ-यत्र पराङ्गकर्मकतासद्भावे हन् प्रकृतरुत्तरमात्मनेपदं तत्र दोष इति वक्तुं शक्यते, तथा सति आयात पददो. षत्वम् ‘ननु यद्येवं' तर्हि 'तद्च्छ सिद्धये' इत्यत्र कथं पदांशदोषः 'सिधू' प्रकृतेरुत्तरं 'क्ति' प्रत्ययसद्भाव एव दोषावर