________________
पंरिच्छेदः
रुचिराख्यया व्याख्यया समेतः । 'वयंते कि महासेनो विजेयो यस्य तारकः।' इत्यत्र 'विजेय'इति 'कृत्य प्रत्ययः 'क्त प्रत्ययार्थेऽवाचकः । एवमन्येऽपि यथासम्भवं पदांशदोषा ज्ञेयाः।
निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनेव लक्ष्ये सम्भवः। क्रमतो यथा'मुश्च मानं हि मानिनि ॥' इत्यत्र 'हि' शब्दो वृत्तपूरणमात्रप्रयोजनः। 'कुञ्ज हन्ति कृशोदरी ॥' इत्यत्र 'हन्तीति गमनार्थे पठितमपि न तब समर्थम् । 'गाण्डीवी कनकशिलानिभम्भुजाभ्यामाजन्ने विषमविलोचनस्य वक्षः।'
निहतार्थत्वं दोषः । पदांशे दशमोऽवाचकत्वदोषो यथा-'यस्य । तारकस्तन्नामा दैत्यः । विजेयो विजेतुं योग्यो विजितोऽस्ति इति यावत् । 'स' इति शेषः । महासेनः कार्तिकेयः । किम् । वय॑ते स्तूयते 'वर्णनमन्तरैव. तस्य सर्वतो विदितचरत्वात् । 'स्वय'ति शेषः ।' इत्यत्र 'उद्दण्डोदृप्त विध्वंसप्रख्यातोद्दामशक्तिकः ।' इत्युत्तरभागकेऽस्मिन् पद्ये। 'विजेय' इति । 'अस्येति शेषः । 'कृत्य' प्रत्ययः 'अर्हे कृत्यतृचः ।३।३।१६९. इत्यर्हार्थे 'अचो यत् ।' ३।१।९७ इति विहितः कृत्यसञो यत् प्रत्यय इति यावत् । क्तप्रत्ययार्थे 'क्तक्तवतू निष्ठा।' १।१।२६ इत्यनेन विधीयमानस्य क्तप्रत्ययस्यार्थे इति यावत् । अवाचको न वाचकस्तथोक्तः । एवमुदाहरणान्तरमपि गवेषणीयमित्याह-एवंयथोदाहृतास्तथा । अन्ये उदाहृतेभ्यो व्यतिरिक्ताः । अपि । पदांशदोषाः । यथासम्भवम् । ज्ञेया बोध्याः । अत एव'आदावजनपुञ्जलिप्तवपुषां श्यामानिलोल्लासितप्रोत्सर्पद्विरहानिलेन च ततः सन्तापितानां दृशाम् । सम्प्रत्येव निषेकमधुप. यसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरजेक्षणा ॥' इत्यत्रकस्या नायिकाया दृशां बहुत्वासम्भवा. दनर्थकत्वं दोषः ।
एकादशद्वादशत्रयोदशानां पदांशगतत्वासम्भवात् निरर्थकत्वादीनुदाहत्तुमुपक्रमते-निरर्थकत्वादीनामित्यादिना
निरर्थकत्वादीनाम् । निरर्थकत्वासमर्थत्वच्युतसंस्कृतित्वानामितिभावः । त्रयाणाम् 'दोषाणा'मिति शेषः। च पदमात्रगतत्वेन । एव प्रायः । एवे चानियोगे।' इत्यनेन पररूपम्। तेन-निरर्थकत्वस्य पदांशेऽपि प्रकाशकारोक्तदिशा सम्भवः, च्युतसंस्कारत्वस्य पुनर्वाक्येऽपि वाग्भटायुक्तदिशा सम्भव इति बोध्यम् । ‘एव निश्चयेने' त्यर्थस्तु न सङ्घटते 'पदमात्रगतत्वेने'त्यत्र 'मात्र' शब्दोपादानस्य वैयर्थ्यांपत्तेः । लक्ष्ये। सम्भवः । क्रमतस्ते चेति शेषः । यथा-- 'मानिनि मानमभिमानम् । 'मानश्चित्तसमुन्नतिः ।' इत्यमरः । हि मुश्च परित्यज ॥ 'अयं ते सुभग: कान्ते ! विनतश्वरणाम्बुजाकिं पुनः कुपितेवासी'ति शेषः। 'इत्यत्र । हि'शब्दः।वृत्तपूरणमात्रप्रयोजनो वृत्तस्य पूरणमिति तदेवेति, तत्प्रयोजनं यस्य सः । 'तस्मानिरर्थकत्वदोषग्रस्त' इति शेषः । 'कृशोदरी कृशमुदरं यस्याः सा तथोक्ता 'नायिके'ति शेषः। कुछ लतादिना गहनं देशं प्रियसङ्गमसङ्केतस्थानमिति यावत् । निकुञ्जकुजौ वा क्लीवे लताऽऽदिपिहितोदरे ।' इत्यमरः । हन्ति गच्छति ।' हन् हिंसागत्योः 'आकर्षद्भिलतावृक्षरङ्कमारोढुमिच्छतीः । आपूर्ण शान्तगम्भीर'मिति शेषः। इत्यत्र हन्तीति 'क्रियापद'मिति शेषः । गमनार्थ। पठितम। अपि तत्र तस्मिन् गमनार्थ इति यावत् । न । समर्थम् । यथा वा-'कान्ते ! जलनिधो मनश्चन्द्रस्त्वन्मुखनिर्जितः । चकोराः शरणं तेऽद्य धेहि वा जहि वा प्रिये ॥' इत्यत्र 'डुधाज धारणपोषणयोरित्युक्तदिशा पोषणार्थकतया पठितमप्यसमर्थम् । तस्मात् प्रकृतेऽसमर्थत्वं दोषः । अयं च न वाक्यगत्तः, हतशक्तिकस्य वाक्यघटकत्वासम्भवात, नित्यश्च विवक्षितार्थबोधे हतशक्तिमूलकत्वात् । 'गाण्डीवी 'गाण्डीवं तदाख्यं धनुरस्यास्तीति तथोक्तः, अर्जुन इति यावत् । भुजाभ्यां वाहुभ्याम् । करणे तृतीया । कनकशिलानिभं कनक- सुवर्ण तस्य शिला तन्निभम् । विषमविलोचनस्य विषमाण्यसमानि त्रीणीति यावद् विलोचनानि यस्य तस्य । वक्ष उर स्थलम आजच्ने आजघान । 'उन्मजन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणवद्याः ।' इति शेषः । इदं पद्य किरातार्जुनीयस्य । अत्र प्रहर्षिणी वृत्तं, तलक्षणं च-'नौ जोगनिदशयतिः प्रहर्षिणीयम् । इति ।