________________
२.४
साहित्यदर्पण:
[ सप्तम:
'सङ्ग्रामे निहताः शूरा वचोवाणत्वमागताः ।'
इत्यत्र 'वच' २ शब्दस्य 'गी' शब्दस्य वाचकत्वे नेयार्थत्वम् । तथा तत्रैव 'वाण' स्थाने 'शरेति पाठे अत्र हि पदद्वयमपि न परिवृत्ति सहम् 'जलध्या' दौ तूत्तरपदं, वाडवानलादौ च पूर्वपदमेव । 'धातुमत्तां गिरिर्धत्ते' इत्यत्र मत्ताशब्दः क्षीबार्थे निहतः ।
भाषायां वृषणरूपगुह्याङ्गवाचकत्वेन व्रीडाव्यञ्जकत्वा' दिति शेषः । अम्लीले । तस्मादत्राश्लीलत्वं दोष इति बोध्यम् । 'आलि जितस्तत्र भवान् सम्पराये जयश्रिया' इत्यत्र 'लिङ्गी' त्यंशस्य व्रीडाव्यञ्जकत्वात् 'निर्भीकशायिना तेन' इत्यत्र 'कशायी' त्यंशस्य जुगुप्सः व्यञ्जकत्वात् 'अनुपममनघमनन्तं करुणावरुणालयं सदा मुदितम् । त्रिभुवनपालनशीलं केशवमेवाश्रये सततम् ॥' इत्यत्र 'शवे' त्यंशस्यामङ्गलाव्यञ्जकत्वाच्चाश्लीलत्वम् । पदांशे तृतीयोऽनुचितार्थत्वदोषो यथा--' अयि नरदेव ! तवैव स्नेहाअगतीजना अभी मुदिता: । चिन्तामणित्वमेषां सर्वाभिमतार्थ जात मुन्नयसि ॥' इत्यत्र 'कृदिकारादक्तिनः ।' इति ङीषः स्त्रीत्वव्यञ्जनादनुचितार्थत्वम् । पदांशे चतुर्थपञ्चमषष्टदोषासम्भवात्सप्तमः सन्दिग्धत्वदोषो यथा - 'कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् । अयं साधुचरस्तस्मादञ्जलिर्वध्यतामिह ॥' इत्यत्र 'भूतपूर्वे चर ।' ५।३।४३ इति चरट: 'चरेष्टः ३।२।१६ इति टान्तस्य चरतेश्च सन्देहात् । इत्यपि बोध्यम् ।
अष्टमं नेयार्थत्वं पदांशदोषमुदाहरति 'संग्रामे' इत्यादिना ।
'सङ्ग्रामे निहताः शूराः वचोवाणत्वं गीर्वाणत्वं देवस्वरूपतामिति यावत् । आगताः प्राप्ताः 'प्राणानुपेक्ष्य युध्यन्तो महोरस्कास्तनुत्यजः ।' इति शेषः ।' इत्यत्र । 'वचः' शब्दस्य । 'गी' शब्दवाचकत्वे 'गीर्वाण' शब्दांशभूत 'गी:’ शब्दवाचकत्वे तद्विषय इति यावत् । नेयार्थत्वं 'गी वण' शब्दांशभूतस्यैव शब्दस्य देवेषु रूढत्वादृढिप्रयोजनान्यतराप्रसिद्धलक्षणोन्नेयार्थत्वेन नेयार्थत्वदोषदुष्टत्वम् । तथा । तत्र गीर्वाणशब्दे । एव । 'बाण' स्थाने वाणशब्दस्य स्थाने । 'गीः शब्दम्य स्थाने 'वचः ' शब्दव' दिति शेषः । ' शरे 'तिपाठे 'नेयार्थत्व' मिति शेषः । हि यतः । अत्र पदद्वयम् । अपि । परिवृत्तिसहम् । न भवती'ति शेषः । अत्रायम्भावः - ' वचोबाण' शब्दो 'गीर्वाणा'र्थत्वेन विवक्षितः, न चासौ तत्र समर्थ:, समस्तयोरेव गीर्वाणशब्दयोस्तदर्थरूढत्वात् तस्माद् 'वच 'दशब्देन 'गी' शब्दो लक्ष्यते; न च तत्र रूढिः प्रयोजनं वेति स्फुटं नेयार्थता दोषः । एवं 'गी: शरे' त्यादावप्ययमेव दोषः, तत्र पूर्वोत्तरयोरुभयोरपि शब्दयोः परिवृत्तिसहत्वाभावात् ।
अथ जलध्यादौ । आदिना जलधरपयोधिपयोधरादिग्रहणम् । तु । उत्तरपदमुत्तरं ध्यादिरूपं पदम्। च पुनः । वाडवानादौ । आदिपदेनाऽनलमधुसूदनबलसूदनादिशब्दानां ग्रहणम् । पूर्वपदं पूर्वं 'वाडवा' दिरूपं पदम् । 'न परिवृत्ति. सह' मित्ति शेषः । अत्रायम्भावः जलध्यादिशब्दार्थस्य पयोध्यादिशब्देनैव प्रतीतिर्नतु जलधरादिना; जलधरादिशब्दार्थस्य च पयोधरादिशब्देनैव प्रतीतिर्भवति नतु जलध्यादिशब्देन इत्येषामुत्तरः शब्द एव परिवृत्त्यसहः, न तु पूर्वः । अथैवं वाडवानलादिशब्दस्य वाढवाम्यादिशब्देनैव प्रतीतिर्नतु तुरगानलादिशब्देन इति नैषां पूर्वः शब्दः परिवृत्तिसहः । तस्मादेतादृशस्य परिवृत्त्यसहस्यापि यदि भवेत् परिवृत्तिस्तर्हि दोष एव । नन्वेवं ? तर्हि जलध्याद्यर्थत्वेन जलधरादिप्रयोगेऽपि नेयार्थत्वस्यैव वक्तव्यत्वे 'जलधरभवलोक्य किं मृषैवं जलधर ! गर्जसि' इत्यादौ कथं पुनरवाचकत्वदोषोऽभिहित इति चेत् ! पूर्वोत्तरोभयपरिवृत्त्यस हत्वपूर्वोत्तरान्यतरमात्रपरिवृत्त्यसहत्वकृतस्य भेदस्य जागरूकत्वात् । ननु तर्हि 'प्राभ्रभ्रा विष्णुधामाप्यविषमाश्वः करोत्ययम् । निद्रां सहस्रपर्णानां पलायनपरायणाम् ॥' इत्यादावपर्यायेतर परिवृत्तौ वाचकत्वस्य पुनरुपपत्त्यभावात् कथन्नात्र नेयार्थत्वम् ।' इति चेत् ? उच्यते । पर्यायपरिवृत्ताववाचकत्वम्, 'पुनर्नेयार्थत्वम् । अत एव पूर्वत्र पर्यायपरिवृत्तौ योगाभासेन तदर्थे शक्त्यभाव एव तादृशदूषकताबीजम् परत्र पुनः पर्यायेतरपरिवृत्ती योगाभासस्याप्यभावादाश्रयणीयाया लक्षणाया रूढिप्रयोजनमूलत्वाभाव एव तादृशदूषकताबीजं, तदेवं सङ्गच्छते तयोर्भेदः । नवमो निहतार्थत्वदोषे यथा - 'गिरिः पर्वतः । धातुमत्तां धातवो रजतादयः पदार्थां अस्मिन् सन्तीति तस्य भावस्तत्ता ताम् । धत्ते दधाति ।' 'विविधाकरमण्डितः । धनदस्य महान् कोष इव रत्नमयः सदा ॥' इति शेषः । ' इत्यत्र 'मत्ता' शब्दो धातुमत्तांशब्दांशभूत इति भावः । क्षीबार्थे मदिरोन्मत्तार्थे । निहतः । तस्मात् प्रकृते