________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
२३ इत्यत्र 'योऽस्ति, स ते भारस्य शमयिते' ति बुध्यते । 'यद्यद् विरहदुःखम्मे तत् को वाऽपहरिष्यति।'
इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम् । तथाहि यद्यदित्यनेन केनचिद्रपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तथाभूतस्य तस्य तच्छन्देन परामर्शः । एवमन्येषामपि वाक्यगतत्वेनोदाहणं बोध्यम् । पदांशे, श्रुतिकटुत्वं यथा-'तद्गच्छ सिद्धयै कुरु देवकार्यम् ।' ___ 'पाणिः पल्लवपेलवः ।' इत्यत्र 'पेलव' शब्दस्याद्याक्षरे अश्लीले ।
उदाहरणीयं निर्दिशति-इत्यत्र । 'यः । अस्ति । सः । ते तव पृथिव्या इतियावत् । भारस्य । शयिता॥' इतीत्येवम् । बुध्यते । 'तात्पर्य्यस्यान्यथाऽनुपपत्त्येति शेषः ।
ननु यत्तदोरन्यतरस्योपादानाभावेऽविमष्टविधेयांशत्वं यदि भवत्येव ? तहि यत्र यच्छब्दी वारद्वयं पठितः, न तु तथा तच्छब्दः; तत्रैकस्य यच्छब्दस्य साकांक्षत्वेनैवावस्थितत्वमिति एवंविधस्थलेऽपि निरुक्त एव दोषः स्यादिति . न वाच्यमित्याह-'यद्य'दित्यादिना।
'यद् यत् । मे मम विरहिण्या इति यावत् । विरहदुःखम् 'अस्ती' तिशेषः । तत् विरहदुःखम् । कः । वा । 'प्रियाद्व्यतिरिक्त' इति शेषः । अपहरिष्यति । 'निःसरन्ति बत प्राणाः शरीरं परिदह्यते' इति शेषः ॥' ' उदाहरणीयं निर्दिशति-इत्यत्र । एको द्वयो 'यद्य' दित्येतयोरन्यतर इति यावत् । यच्छब्दः । साकाङ्कः एकस्य तच्छब्दस्य यच्छन्दद्वितयोत्थाप्याकाक्षापूरकत्वासम्भवा' दिति शेषः । इति । न नैव । वाच्यम् । तथाहियद्।यदित्यनेन निर्दिष्टे' नेतिशेषः।केनचित् । रूपेण । स्थितमवस्थितम्।सर्वात्मकम्।वस्तु विरहदुःखाख्यं वस्तु । विवक्षितम् । तथाभूतस्य सर्वात्मत्कवेनाभिमतस्य । तस्य विरहदुःखस्य वस्तुनः । तच्छब्देन । परामर्शः। अत्रायम्भावः-'यदय'दिति पदद्वयम्। तेन ज्ञातत्वाज्ञातत्वाभ्यां रूपाभ्यां परामष्टस्य सकलस्य विरहदुःखस्यकेनैव 'त'दिति पदेन विरहदुःखत्वेन रूपेण परामर्शोपपत्तेने द्वितीयतत्पदापेक्षा, यत्तभ्यामेकरूपेणैव परामर्श इति नियमे प्रमाणाभावात् । न हि 'यावन्तो यच्छब्दास्तावन्तस्तच्छन्दा' इति, न वा 'यावन्तस्तच्छब्दास्तावन्तो यच्छब्दा' इति नियमः, किन्तु 'यत्पदार्थस्तत्पदेन परामृश्यते' इत्येव नियमः । एवं च नात्र विमृष्टविधेयांशत्वस्याप्याशङ्का । इति ।
अनुदाहृतानां वाक्यस्थानां दोषाणामुदाहरणान्यप्येवमूह्यानीत्याह-एवम् । अन्येषां दुःश्रवत्वजुगुप्साव्यञ्जकाश्लीलत्वनेयार्थत्वक्लिष्टत्वाविमृष्टविधेयांशत्वेभ्यो व्यतिरिक्तानाम् वाक्यगतत्वेन । उदाहरणम।बोध्यम
एवं पदवाक्यदोषान्निरूप्य पदांशदोषानुदाहर्तुमुपक्रमते-पदांश इत्यादिना ।
पदांशे पदस्यांश एकदेशस्तत्र 'सम्भवतां दोषाणाम्मध्ये' इति शेषः । श्रुतिकटुत्वं श्रुतेः श्रुतौ वा कटु तत्त्वम्, दुःश्रवत्वमिति यावत् । 'दोष' इति शेषः । अत्र 'दुःश्रवत्त्व'मित्यनुक्त्वा 'श्रुतिकटुत्व'मित्यभिधानमेतेषां यौगिकार्थल. क्षणपरत्वं 'सूचयतीति बोध्यम् ।।
___ उदाहरति-यथा तत् तस्मात् कारणात् । 'हे काम !'इति शेषः । सिद्धयै सिद्धये । गच्छादेवकार्यम्।कुरु । 'देवकार्यमिति पदद्वयस्वीकारे तु हे देव ! इति सम्मानार्थ सम्बुद्धिवचनम् । 'अर्थोऽयमर्थान्तरलभ्य एव । अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजांकुरः प्रागुदयादिवाम्भः ॥' इति शेषः । उपजातिश्छन्दः । इदं पदयं च कुमारसम्भवस्य । इन्द्रस्य कामं प्रति महादेवस्य कान्तानुरागोत्पादनार्थेयमुक्तिश्च । 'द्धय' इत्यस्य श्रुतिकटुत्वाच लक्षणसमन्वय इति बोध्यम् ।
पदांशे द्वितीयोऽश्लीलत्वदोषो यथा-'पल्लवपेलवः पल्लववदभिनवोद्गतपत्रवत् पेलवः कोमलः । 'पल्लवोऽस्त्री किसलयम्'इत्यमरः । 'पेलवं विरले कृशे।' इति रत्नाकरः । पाणिर्हस्तः इत्यत्र 'पदं कोकनदोद्भासि पाणिः पल्लवपेलवः । वदनं सौरभोद्गार सुभगायाः स्वभावतः ॥' इति पद्यांशे । 'पेलव'शब्दस्य । आद्याक्षरे आधे पेले'तिरूपे अक्षरे 'लाट