________________
साहित्यदर्पणः।
[सप्तमःयत्र च यच्छन्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तिकत्वं, तत्रापि निराकाक्षश्वमेव । कमेण यथा'विभाति मृगशावाक्षी येदम्भुवनभूषणम् ।' 'इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः॥' क'चदनुपात्तयोद्धयोरपि सामथ्यादवगमः । यथा'न मे शमयिता कोऽपि भारस्येत्यवि ! मा शुचः । नन्दस्य भवने कोऽपि बालोऽम्त्यद्भुतपौरुषः ॥ ४॥' ननु यच्छब्दसन्निहितानामिदमादिशब्दानां किं सर्वत्रैव यच्छब्दानुवाद्यप्रत्यायकत्वमिति चन्नेत्याह-यत्र चेत्त्यादिना।
यत्र यस्मिन् वाक्थे । च यच्छन्दनिकटस्थितानां 'योसौ' इत्यादिव'दिति शेषः । अपि किं पुनस्तद्विपरीतानाम् । इदमादिशब्दानामिदंतदेतददःशब्दानाम् । भिन्नलिविभक्तिकत्वम् । 'अस्तीति शेषः । तत्र । अपि किं पुनरन्यत्र । 'इदमादिशब्दाना मिति शेषः । निराकाङ्क्षत्वं 'यच्छब्दोत्थाप्याया आकाक्षायाः पूरकत्वात्' इति शेषः । एव न तु साकाङ्क्षत्वम् ।
उदाहर्तुकाम आह-क्रमेणेदमादिनिर्देशक्रमेण । यथा निराकाङ्क्षत्वं सम्भवति तथोदाह्रियते विभातीत्यादिना ।
'या। मृगशावाक्षी मृगस्य शावश्शिशुस्तद्वदक्षिणी यस्याः सा । विभाति । इदम् । भुवनभूषणम्।' 'यः । इन्दश्चन्द्रः । विभाति प्रकाशते । तेनेन्दुना । पथिकयोषितः पथिकानां पथि स्थितानां न तु गृहे वर्तमानानाम्, अत एव प्रियाभिर्विरहितानामिति यावत् , योषितो युवत्य इति; तास्तथोक्ताः । दग्धा दाहं प्रापिताः तासां चेतसि मदनानलं प्रज्वाल्य भस्मावशेषतां नीता इव तापिता इत्यर्थः ।
अत्रेदं तत्त्वम्-'अनङ्गमपि साङ्गत्वं नयन्ती रुचिरस्मिता । विभाति मगशावाक्षी येदम्भुवनभूषणम् ॥' इत्यत्र 'षेद' मिति पदयद्वयम् । तत्र-'ये' ति स्त्रीलिङ्गम्, 'इद'मिति पुनः क्लीबलिङ्गम्, अत्रापि यत्पदार्थस्य मृगशावाक्षीत्वेनीद्देश्यत्वम् , इदन्त्वेन विधेयत्वम् । 'भुवनभूषण'मिति पदार्थस्थे 'द'मिति पदार्थेनाभिन्नत्वात् । 'य आधारस्तदधिकरणम् ।' २१७ इति कलापे सूत्रे 'य' इति पुंल्लिङ्गमपित'दिति क्लीबलिङ्गेनेति, यथा समन्वयते तथा प्रकृतेऽपि 'थे'ति
'मिद'मिति क्लीबलिङ्गेनेति । अन्ये चाहः-'इदं सत्रं ज्ञापकमिति तदादिशब्दानां न केवलं प्रक्रान्तसमानलिङ्गत्वं, किन्तु प्रक्रमिष्यमाणसमानलिङ्गत्वमपीति 'थेद'मित्यत्र विभिन्नलिङ्गयोरपि सामान्याधिकरण्यनिर्बाधम् ।' इति । नागेशभट्टा अप्याहुः-'उद्देश्यप्रतिनिर्देश्ययोरैक्यमापादयत् सर्वनाम पायेण तत्तलिङ्गभाक् ।' इति । न च 'वेदाः प्रमाण'मितिवद् 'या मृगशावाक्षी विभाति, विभूषणमिद'मिति वक्तुं शक्यम् । 'यत्तदोर्नित्यसम्बन्ध' इत्युक्तदिशा तत्तत्समानार्थकेदमादिशब्दानामेव यच्छन्दोत्थाप्याया आकाक्षायाः पूरकत्वाद् भुवनभूषणादीनां च तदभावात् । इति । अथ 'विपन्नस्येव सर्वोऽपि हा हन्त शमनायते । इन्दुविभाति यस्तेन दग्धाः पथिकयोषितः ॥' इत्यनेन्दुकर्त्तकपथिकयोषितकर्मकदाहाभिधानम् , तच्च कविसमयसिद्धम् । तथाहि-कान्तेषु पथिकेषु तत्कान्ताः कामादिता भवन्ति, चन्द्रोदयस्य कामोद्भावकत्वाद्दाहकत्वं कविसमयसिद्धमेव, तस्मात् पूर्वत्रेदंशब्दस्य भिन्नलिङ्गत्वेन परत्र पुनभिन्नविभक्तिकत्वेनेति यच्छन्दसन्निहितयोरपि इदंतच्छब्दयोनीनुवाद्यत्वम् ; किन्तु विधेयत्वमेव । इति ।
उपात्तयोरेव यत्तदोन नित्यः सम्बन्धः, किन्तु अनुपात्तयोरपीत्याह-क्वचिदित्यादिना ।
क्वचित् । अनुपात्तयोः । द्वयोर्यत्तच्छन्दयोः। अपि सामर्थ्यात्तात्पर्यान्यथाऽनुपपत्तेः । अवगमोबोधः सम्पद्यते।
उदाहरति-यथा-'हे उर्वि पृथिवि ! 'वसुधोवीं वसुन्धरा ।' इत्यमरः । मे मम मदीयस्येति यावत् । भारस्य दृप्तदैत्येन्द्रधारणरूपस्य भारस्य । शमयिता निवर्तयिता विनाशयिता वा । कोऽपि कश्चिदपि । इति । मा नैव । शुचः शोचख । 'माडि लुङ् ।' ३ । ३ । १७५ इति लुट् । 'न माङ् योगे' ६ । ४ । ७४ इत्यदः प्रतिषेधः । यतः-नन्दस्य तन्नामकस्य गोपवरस्य । भवने स्थाने । अद्भुतपौरुषोऽद्भुतमलो. किकत्वेन विस्मयावहं पौरुषं विक्रमो यस्य सः । कोऽपि निरुपमतया निर्देष्टमशक्यः । बालस्तत्तया प्रतीयमानः, परमार्थतस्तु वृद्धानामपि वृद्धः । अस्ति ॥ ४ ॥'