________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । पवम्-'यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च' इत्य'दावपि। . तच्छब्दस्य प्रक्रान्तपसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् । क्रमेण यथा'स हत्वा वालिनं वीगस्तत्पदे चिरकाक्षिते । धातोः स्थान इवादेशं सुग्रीवं सन्यवेशयत ॥३॥' . 'सवः शशिकलामौलिस्तादात्म्यायोपकल्प्यताम् ।' 'तामिन्दुसुन्दरमुखी हृदि चिन्तयामि ।'
अन्यत्राप्येवमूह्यमित्युपदिशति-एवमित्यादिना ।
एवं यथा निरुक्तस्थले तथा । 'सर्वशैलाः सर्वे शैला: पर्वताः । दोहदक्षे दोहे दोहने दक्षश्चतुरस्तत्र । 'सप्तमी शौण्डैः ।' २।१।४ इत्यत्र 'सप्तमी' इति योगविभागात् समासः । यद्वा-दोहस्य दक्षस्तत्र । 'दक्षः प्रजापतौ रुद्रवृषभे कुस्कुटे पटौ । दुमे' इति विश्व: । मेरौ सुमेरौ पर्वते । दोग्धरि दोहनकतरि तत्त्वेन सम्मत इति यावत् । स्थिते 'सती'ति शेषः । ये हिमालयम् । वत्सं तत्त्वेन स्थितमिति भावः । परिकल्प्य । भास्वन्ति प्रकाशवन्ति । भाखन्ति च भास्वन्तश्चेति तानि तथोक्तानि । भास्वंति भास्वतश्चेति भावः 'नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।' १।२।६९ इति समासः । रत्नानि मणीन्, उत्कृष्टान् अन्यान् पदार्थान् वा । 'रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम् ।' इति मेदिनी। च पुनः । महौषधीन महान्तो विशल्यकारकत्वादिना प्राणान्तकष्टनिवर्तकत्वादिना वोपकारका औषधय इति तान् सजीवनप्रभतीन्यौषधानीत्यर्थः । 'पृथूपदिष्टां दुदुहधीरत्रीम् ॥' इति शेषः । 'हिमालयो नाम नगाधिराज' इति पूर्वेणाभिसम्बन्धः । पयमिदं कुमारसम्भवस्य, उपजातिश्छन्दः । लक्षणं चोक्तं प्राक ॥'
इत्यादिषु । अपि 'यच्छब्देन तच्छब्दस्यार्थप्राप्तत्वम्' इति शेषः ।
एवं यच्छब्दोपादानेन तच्छब्दस्यार्थप्राप्तत्वं प्रदर्य तच्छब्दोपादानेन यच्छब्दम्याप्यर्थलभ्यत्वमुदाहर्तुमाह-तच्छब्दस्येत्यादिना ॥
तच्छन्नस्य । प्रक्रान्तप्रसिडानुभूतार्थत्वे प्रक्रान्तः प्रकरणप्राप्तः प्रसिद्धः सुगृहीतनामत्वादिना प्रथितोऽनुभूतोऽनुभवपथमारूढस्तादृशोऽर्थो यप्य तत्त्वं, तस्मिन् 'सती'ति शेषः । यच्छन्दम्य आर्थत्वमर्थेन लभ्य इत्यार्थस्तस्य भावस्तत्त्वम् । क्रमेण प्रक्रान्तार्थत्वादनन्तरं प्रसिद्धार्थत्वमित्येवं रूपेणेत्यर्थः । उदाहरति-यथा- .
'सः प्रक्रान्तचरितः । वीरः पराक्रमी राम इति यावत् । वालिनं तन्नामानं कपिराजम् । हत्वा मारयित्वा । चिरकाक्षिते चिरात् काङ्कितमभिलषितं तत्र । तत्पदे तस्य कपि ( कपीनां ) राज्यस्य पदं स्थानं तत्र । धातोः क्रियावाचकस्य शब्दविशेषस्य स्थाने । आदेशं स्थान्यर्थाभिधानसमर्थम् 'मस्तेर्भूः ।' २ । ४ । ५२ ब्रुवोवचिः।' २।४।५३ इत्यादिना विधीयमानं कार्यविशेषम् । इव । सुग्रीवम् । सन्न्यवेशयत् ॥ रघुवंशस्य पद्यमिदम् ॥३॥
प्रयोजनं निर्दिशति -इत्यत्र 'यः सुग्रीवहितकारी' इत्याल्लभ्यते इति शेषः । 'स प्रसिद्धः । वो युष्माकम् 'आराध्य' इति शेषः । शशिकलामौलिः शशिनश्चन्द्रस्य कलेति, सा मौलो शेखरे यस्य स तथोक्तश्चन्द्रशेखर इत्यर्थ 'मौलि: किरीटे धम्मिले चूडायामनपुंसकम् ।' इति मेदिनी। तादात्म्याय तस्यात्मेति, तस्य भावस्तादात्म्यं तस्मै तथो. क्ताय । उपकल्प्यतां सादृश्येन मन्यताम् । 'समस्तजगदानन्दवर्धनायैव सक्षणः ॥' इति शेषः । कमपि कमनीयचरितं नपतिमुद्दिश्योक्किारयम् । एवं च 'तादात्म्यायेति पदांशभूतस्तच्छब्दः कमनीयचरितत्वेन प्रसिद्धस्यैव वाचकः ।' 'तामनुभूतंसुरतानन्दाम् । इन्दसुन्दरमुखीम् । हदि। चिन्तयामि स्मरामि । 'निःसंशयं खरकरेण विकतनेन सन्ताप्य दाहमपि सम्प्रति नीयमानम् । यूनाम्मनोजमुदयं पुनरुनयन्तीम्' इति शेषः । इत्यत्र 'ते' इत्यादिपदानामिति शेषः ।