________________
साहित्यदर्पणः ।।
[सप्तम:तच्छन्दस्यापि यच्छन्दनिकटस्थस्य प्रसिद्ध परामर्शित्वमात्रम् । 'यः स ते नयनानन्दकरः सुन ! स आगतः।' इति। . यच्छन्दव्यवधानेन स्थिताम्त निराकाङक्षत्वमवगमयन्ति । यथा'आनन्दयति ते नेत्रे योऽधुनाऽसौ समागतः।'
एवमिदमादिशब्दोपादानेऽपि । यत्र च-यत्तदोरेकस्यार्थः सम्भवति, तत्रैकस्योपादानेऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः । तथाहि-यच्छब्दस्योत्तरवाक्यगतत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छन्दस्यार्थः।
यथा-'आत्मा जानाति यत् पापम् ।'
यच्छब्दनिकटस्थतया निवेश्यमानोऽद इदमादिशब्दो विधेयतामप्राप्योद्देश्यतामेव । प्राप्तः प्रतीयते । तयोरसन्निधावेव तथा त्वेन प्रतिपत्तिखीकारात् । उक्तं च-ख्यातार्थमनुभूतार्थप्रक्रान्तार्थ च तत्पदम् । यत्पदापेक्षया हीनं न विधेयत्वरोध इति । एवं सति विधेवतया विवक्षितस्य तच्छब्दसमानार्थकस्यादइदमादिशब्दस्योद्देश्यतया विवक्षितेन यच्छब्देन स्वविशेषणतां प्रति नीतत्वात् प्रसिद्धार्थकतयैवावस्थितत्वमिति विधेयांशस्य विमर्शाभावे स्फुटोऽविमृष्टविधेयांशत्वन्नाम दोषः । न खलु यच्छब्दसन्निहिततयाऽद आदिशब्दानामेव प्रसिद्धार्थ कत्वं किन्तु तच्छब्दस्यापीत्याह-यच्छब्दसन्निहितस्य । तच्छदस्य अपि किं पुनस्तत्समानार्थकस्यादइदमादिशब्दस्य । प्रसिद्धपरामर्शित्वमात्र प्रसिद्धस्य प्रसिद्धपदार्थस्य परामर्शी ग्राहकोबोधकः स एवेति तथोक्तम् ।' 'अस्ती'ति शेषः । यथा--'हे सुभ्र! ते तव । यः । सः। नयनानन्दकरः आसी'दिति शेषः । सः । आगतः प्राप्तः । तेन सङ्गम्य मोदख रोहिणीव सहेन्दुना ॥' इति शेषः । इति । अत्रायम्भावः-'यत्तदुर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम् ॥' इत्यादिवढ़ यच्छब्दसन्निहितस्तच्छब्दोऽत्रापि स्वसनिहितयच्छब्दविशेषणतामेवावगमयति न तु यच्छब्दोत्थाप्यामाकाइक्षां सम्पूरयति । इति ।
ननु यत्तदोः कुत्र स्वातन्त्र्येण खार्थाभिधायकत्वमित्याशङ्कयाह-यच्छन्दव्यवधानेन यच्छब्दाद्वयवधानं तेन स्थिताः। तददइदमेतच्छब्दा'इति शेषः। निराकानक्षत्वं निर्गताऽऽकाङ्क्षा यच्छब्दोपस्थाप्या सम्बिबन्धिषा येभ्य. स्तत्त्वम् । अवगमयन्ति बोधयन्ति । यथा-'यः। ते तव । नेत्रे। आनन्दयति । असौ सः । 'नायक' इति शेषः । अधुना। समागतः। 'कुमुदाक्षः स्मितज्योत्स्ना विकिरन् सुकलानिधिः ॥' इति शेषः । इत्यादावद आदीनां शब्दानां समानलिङ्गकत्वेऽपि व्यवहितत्वेनावस्थितत्वानिराकांक्षत्वमेव, न तु सन्निहितयोरेवोद्देश्यविधेयभावस्य पार्थक्येनावगमकत्वाभावः, येन यच्छब्दोत्थाप्याया आकाङ्क्षायाः पूर्तिन प्रतीयते इति।, एवं यथा निरुक्तस्थलेऽदःशब्दस्य विधेयत्वेनैवावगमकत्वम् । तथा। इदमादिशब्दोपादाने । अपि । 'निराकांक्षत्व'मिति शेषः।
-- ननु केवलयोरपि यत्तदोः प्रयोगो दृश्यते इत्यनयोः सापेक्षत्वमेव तावदसिद्धम् , अथ तयोरेकतरोपादानेऽपि निराकाङ्क्षत्वप्रतीतौ कथं तत्र दोष इत्याशङ्कयाह--यत्र चेत्यादि। - यत्र । च । यत्तदोर्यच्छन्दतच्छब्दयोमध्ये । एकम्य यच्छब्दस्य तच्छब्दस्यैव वा । अर्थः । सम्भवति तत्र । एकस्य यत्तदोरन्यतरस्य । उपादाने । अपि 'निराकांक्षत्वप्रतीति' रिति शेषः । इतीत्यस्मात् कारणात् । न । क्षतिः साकाङ्क्षत्वप्रतीतिजन्या हानिः । तथाहि-यच्छन्दस्य । उत्तरवाक्यगत्वेन । पूर्ववाक्ये । यच्छन्दस्य। अर्थः । यथा-'यत् । पापम् । 'अस्ती'तिशेषः । तदिति शेषः । आत्मा। जानाति । अत्रायम्भावः-यच्छब्दस्यो. त्तरवाक्यगतत्वेनानुपात्तस्यापि तच्छब्दस्य स्वत एव तदाकाङ्क्षापूरकत्वम् । 'आत्मा जानाति यत् पापमत्र वाऽन्यत्र जन्मनि । प्रत्यक्ष वा परोक्षं वा स्वल्पं वा भरि वा कृतम् ॥' इत्ययं पूर्णः श्लोकश्च ।' इति। .