________________
परिच्छेदः 1
रुचिराण्यया व्याख्यया समेतः। इत्यत्र 'धम्मिल्लस्य शोभा प्रेक्ष्य कस्य मानसन्न रज्यतीतिसम्बन्धात् क्लिष्टत्वम् ।
'न्यक्क रो ह्ययमेव मे. यदरयः-' इत्यत्र वा 'अयमेव न्यक्कार' इति न्यक्कारस्य विधेयत्वं विषक्षितम्, तच्च शब्दरचनावैपरीत्येन गुणीभूतम् । रचना च पदयस्य विपीतेति वाक्यदोषः । यथा वा-'आनन्नयति ते नेत्रे योऽसौ सुभ्र ! समागतः।' इत्यादिषु ' यत्तदोनित्यसम्बन्ध' इति न्यायादुपक्रान्तस्य यच्छन्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छन्दसमानार्थकतया प्रतिपाद्यमाना इदमेतददःशब्दा विधेया एव भवितुं युक्ताः । अत्र तु यच्छन्दनिकटस्थतयाऽनुवाद्यत्वप्रतीतिकृत् ।
स्येत्यर्थः । 'अपूर्वा बन्धस्य व्युत्पत्तिनैपुण्यं यस्याः ।' इति तु विवृतिकाराः । एतन्मते-कुरङ्गशावाझ्या विशेषणमिदम् । बन्धो रचना । धम्मिल्लस्प संयतानां कचानाम। 'धम्मिल्लः संयताः कचाः ।' इत्यमरः । शोभाम् । प्रेक्ष्य 'स्थितवत' इति शेषः । कस्य । मानसं चित्तम् । न नैव । निकाममतिशयेन । रज्यति । हृष्यति । अत्रार्या छन्दः ॥ २॥ ___ इत्यत्र । 'धम्मिल्लस्य । शोभाम् । प्रेक्ष्य दृष्ट्वा । कस्य । मानसम् । न । रज्यति प्रसी' दतिः ।' इति सम्बाधादित्यन्वयादित्यन्वयस्य झटिति बोद्धमभिमतत्वेऽप्यनुपपत्तेरिति भावः । कृिष्टत्वम् । 'आसत्तिज्ञानविलम्बादन्वयबोधविलम्बस्य दूषकताबीजस्य सद्भावा'दिति शेषः । न चास्य सङ्कीर्णत्वेन सङ्करः तस्याने. कवाक्यविषयत्वात्, एतस्य तदभावाच्च । विरुद्धमतिकारिता यथा-'अनुत्तमानुभावस्य परैरपिहितौजसः । अकार्यसुहृदोऽस्माकमपूर्वाश्चित्तवृत्तयः ॥' इत्यत्र मित्रस्य प्रशंसनं विवक्षित, तस्य पुनर्गर्हणं प्रतीयते इति विरुद्धमतिकारित्वम् । अविमृष्टविधेयांशत्वमुदाहरति-'नक्कार' इत्यादिना ।
। मे मम । अरयः शत्रवः । 'सन्ती' ति शेषः । तस्मात्-अयम् । एव न त्वन्यः । न्यारो धिकारः। इत्यत्रेत्यस्मिन् (प्राग्व्याख्याते) पद्ये इति यावत् । पुनः 'अयम् । 'यदरयः सन्ती'त्यात्मेतिशेषः । एव । न्यकारः ।' इतीत्येवम् । न्यक्कारस्य । विधेयत्वम् । विवक्षितम् । तत् विधेयत्वम् । च । गुणीभूतम् । अत एवोक्तम्-'अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत् । न ह्यलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥' इति । रचना । च पदद्धयस्य । इति । वाक्यदोषो वाक्यस्य दोषोऽविमृष्टविधेयांशत्वाख्यो दोषः । 'अस्ती' ति शेषः अत्रायम्भाव:-'पर्वतो वह्निमा'नितिवद्देश्यमभिधाय विधेयो वाच्यः, न च प्रकृते-तथा । 'वहिमान् पर्वतइतिवदुद्देश्यविधेययोर्वैपरीत्यात् । यथा हि पर्वतमुद्दिश्य वह्निमत्त्वस्यैव विधेयत्वम्, तथेदम्पदवाच्यमरिसद्भावमुदिश्य न्यक्कारस्यैव विधेयत्वम् । वैपरीत्ये पुनर्विधेयस्योद्देश्यत्वमुद्देश्यस्य च विधेयत्वं प्रतीयते, इत्येतस्मात् न विधेयांशस्य विमृष्टत्वम् । शब्दरचना च विपरीतेति शब्ददोषः, तत्राप्यनेकपदवपरीत्यमितिवाक्यगतोऽयं दोषः । ___ न केवलं विधेयस्योपसर्जनत्वव्युत्क्रमाभ्यामेवायं दोषः, किन्तु विधेयस्योपस्थित्यभावेऽपीत्युदाहरणान्तरं प्रस्तौतियथा-हे सुभ्र ! यः। ते तव । नेत्रे नयनयुगलम् । आनन्दयत्याहादयति । असौ स नायक इत्यर्थः । समागतः। 'कलानिधिरुदारश्रीश्चकोरस्येव चन्द्रमाः ॥' इति शेषः । इत्यादिषु । 'यत्तदोर्यच्छब्दतच्छब्दयोः । नित्यसम्बन्धो नित्य सम्बन्धः ।' इति न्यायात् । उपक्रान्तस्य प्रकृतस्य । यच्छन्दस्य । निराकाङ्क्षत्वप्रतिपत्तये निराकाङ्कत्वस्य प्रतिपत्तिनिश्चयस्तस्यैतदर्थमितियावत् । तच्छब्दसमानार्थकतया । प्रतिवाद्यमानाः । इदमेतदद:शब्दाः । विधेयाः। एव नतूद्देश्याः । भवितुम । युक्ताः । अत्र 'योऽसौ' इत्यत्र 'योऽय'मित्यत्र वा । तु। यच्छन्दनिकटस्थतया । अनुवाद्यत्वप्रतीतिकृत। अत्रायम्भाव:-'योऽसौ'इत्यादौ आद्यमुद्देश्यतया,अन्त्यं विधेय. तया विवक्षितम्, अथापि सन्निहिततया प्रयुज्यमानमसावित्यादिपदं स्वसन्निहितयच्छब्दार्थगतप्रसिद्धिबोधकतयोद्देश्यताप्राप्तं प्रतिभासते । 'यत्तदोर्नित्यसम्बन्धः।' इति हि प्राचां सिद्धान्तः, तत्र तत्प्रतिपाद्यतया वक्तबुद्धिविषय उद्देश्यो यत्पदार्थः, यत्पदप्रतिपाद्यतया वक्तबुद्धिविषयो विधेयस्तत्पदार्थ इत्यत एव तयोनित्यं सम्बन्धः, तस्मानिरुक्तस्थले यच्छब्दार्थस्य निराकाईक्षताप्रतिपत्तये तच्छब्दाभावे तच्छब्दसमानार्थकः शब्दोऽवश्यं निवेश्यः, स च अदःशब्दः, वा भवितुमर्हति, किन्तु