________________
१८
साहित्यदर्पणः ।
[ सप्तम:
'कमललौहित्यैर्वक्राभिर्भूषिता तनुः ॥'
इत्यत्र कमललौहित्यं पद्मरागः, वक्रा वामा; इति नेयार्थता । 'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशा वाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥ २ ॥ '
तन्तुवाय इति 'पटयसी'ति 'पटं करोसी 'ति, 'गुणग्राम' मिति 'तन्तुसन्तति' मिति, 'नग्ना' इति 'दिगम्बरा' इत्यथ तरं च स्मारयन् स्तुत्यस्य तिरस्कारं व्यनक्तीत्यस्यानुचितार्थत्वम् । अप्रयुक्तत्वं यथा - 'महतां शरणार्थिनां क्षणादपवर्गत्वविधानकान्तिकः । विषजातविशाललोचनः स नृपो भूतिभृतामधीश्वरः ॥' इत्यत्र 'शरणार्थिनाम्' इति 'हननार्थिना' मित्यर्थे 'अपवर्गत्व' इति 'हतसङ्घत्व' इत्यर्थे 'कान्ति' इति 'इच्छा' इत्यर्थे 'विषजात' इति 'कमल' इत्यर्थे 'भूति' इति शब्दश्व 'जन्म' इत्यर्थे प्रयुक्तस्तस्मादप्रयुक्तत्वम् ।
ग्राम्यत्वं यथा- 'ताम्बूलभृतगल्लोऽयम्भल जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा ॥' इत्यत्र हि 'गल्लभलमानुषखादनपान' शब्दानां ग्राम्यत्वम् । अप्रतीतत्वं यथा - ' तस्याधिमात्रोपायस्य तीव्र संवेगिताजुषः । दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ||" इत्यत्र हि 'अधिमात्र' शब्देन क्रियाविशेषस्य 'संवेगिता' शब्देन समाधिविशेषस्य “दृढभूमि'शब्देन दृढाभ्यासस्य 'प्रिय' शब्देन च ज्ञानस्याभिप्रेतत्वादप्रतीतत्वम् । सन्दिग्धत्वं यथा - 'मुरालयोल्लासकरः प्राप्तपर्यांप्तकम्पनः । मार्गणप्रवणो भाखद्भूतिरेष विलोक्यताम् ॥ इत्यत्र 'सुराकम्पनमार्गणभूति शब्दाः किं देवसेनाशरविभूत्यर्थः ? आहोखिन्मदिराकम्पन पर्यटनभस्मार्था इति सन्देहात् ।
अथ मण्डूकप्लुतिन्यायेन वाक्ये दुःश्रवत्वमुदाहृत्य 'नेयार्थतामुदाहरति- 'वक्राभिः कुटिलाभिर्वामाभिरिति यावत् । 'वामं धने पुंसि हरे कामदेवे पयोधरे । वल्गुप्रतीपसव्येषु त्रिषु नार्य्या स्त्रियाम्' इति मेदिनीकारोक्तदिशा 'वामशब्दस्य प्रतीपार्थकतया वक्राशब्देन वामाग्रहणं बोध्यम् । उद्यत्कमल लौहित्यैस्यन्ति प्रकाशमानानि यानि कमललौहित्यान कमलानां पद्मानां लौहित्यानि रागाः इति तैस्तद्द्वारेति यावत् । पद्मरागद्वारेति भावः । तनुः शरीरं तत्स्वरूपभूतोऽलङ्कार इति यावत् । भूषिताऽलङ्कृता । 'प्रबुद्धे वस्त्रवैदूर्ये परिभ्रमणकेलिभिः ॥' इति शेषः । अत्र कस्याश्चिदभिसारोद्यमावस्थावर्णनमिदम् ।' इत्यत्र । कमललौहित्यं पद्मरागः । वक्रा वामाः । इत्येवम् । नेयार्थता । अत्रायम्भावः - कमल - लौहित्य - वक्रा - प्रबुद्ध - वस्त्र - वैदूर्य - परिभ्रमण - केलिपदैः स्ववाच्यकमलादिवाचकत्वसम्बन्धेन क्रमात्पद्म-रण- प्रतिकूला - समुन्मीलिता - Sम्बर - रत्नाऽभिचलन - क्रीडेतिपदानि लक्ष्यन्ते, तैश्च यथाक्रमं पद्म-राग- वामासमुदित-मण्यभिसरण - कौतुकेत्यर्थं उपस्थाप्यते इति लक्षिलक्ष 'कमललोहित्यादिपदलक्षितैः पद्मरागाद्यर्थानां बोधनादियमिति केचित् 'कमललौहित्यादिपदैरिव स्ववाच्यकमललौहित्यादिवाचकपद्मरङ्गादिपदवाच्यत्वसम्बन्धेन पद्मरागादय एव लक्ष्यन्त इति लक्षितलक्षणेयमिति परे प्राहुः । उभयमतेऽपि लक्षणाऽङ्गीकारे रूढिप्रयोजनान्यतराभावान्नेयार्थत्वं दोषः । निहतार्थत्वं यथा - 'सायकसहायबाहोर्मकरध्वज नियमितक्षमाऽधिपतेः । अब्जरुचिरभास्वरस्ते भातितरामवनिप ! श्लोकः ॥' इत्यत्र सायकमकरध्वजक्षमाऽब्ज श्लोकानां वाणकामक्षान्तिपद्मपद्येत्यर्थतया प्रसिद्धौ खङ्ग सिन्धुपृथिवीचन्द्रकीर्त्तिवाचकत्वस्य तिरस्कृतत्वान्निहतार्थत्वं दोष: । अवाचकत्वं यथा - 'कमलादयतस्यन्दनपर्णैः कविशासिता गताः समयम् । न तथा यथा विपण्डितपतिशासनताडिताः पदं शयिता ॥' इत्यत्र 'कमलादयितस्यन्दनपर्णे' रित्यस्य पुण्डरीकाक्षस्यन्दनपत्रैरित्यर्थतया विष्णुरथपत्रैरितिवत् 'गरुडपक्षै 'रितिवाचकतायाः, ‘कविशासिता' इत्यस्य ‘शुक्र. शिष्या' इतिवद् 'दैत्या' इति वाचकताया 'विपण्डितपतिशासनशासिता' इत्यस्य 'विबुधपतिशस्त्रपीडिता' इतिवद् 'वज्रप्रहारव्याकुलीकृता' इति वाचकतायाः 'शयिता' इत्यस्य च 'मोहिता' इतिवन् 'मूच्छिता' इति वाचकताया असम्भवादवाचकत्वं दोषः ।
वाक्यगतं क्लिष्टत्वमुदाहरति- 'धम्मिल्लस्येत्यादिना ।
'कुरङ्गशावाक्ष्याः कुरङ्गो हरिणस्तस्य शावः डिम्भस्तस्याक्षिणी इवाक्षिणी यस्यास्तस्याः, मृगशिशुनयनाया इत्यर्थः । पूर्वबन्धन व्युत्पत्तेरपूर्वी विलक्षणो बन्धस्तस्य व्युत्पत्तिर्नैपुण्यं यत्र तस्य मौक्तिकादिदाम कृतबन्धविलक्षण सौन्दर्यस्ये