________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। 'स्मराय॑न्धः कदा लप्स्ये कार्ताखू विरहे तव ॥' इति । 'कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते।' इत्यत्र जुगुप्सा व्यञ्जिकाऽश्लीलता ।
निरर्थकत्वादीनां त्रयाणां दोषाणां खभावादेवान्वयबोधखरूपायोग्यानामन्वयबोधजनने पदान्तरविरहप्रयुक्तत्वविरहेण साका
झवाभावान वाक्यदोषत्वम् । साकाङ्क्षत्वं च परस्परं भिन्नार्थानामप्यनेकेषां पदानां तात्पर्यवृत्त्याऽङ्गाङ्गिभावेनान्वयबोधजननेऽभिन्नत्वेनावस्थानम् । अत्राहुः प्रदीपकारा:-'यत्र पदान्तरसाहित्येन पदानां दुष्टत्वंस वाक्यदोषः । न चासाध्वसमर्थनिरर्थकत्वानां दुष्टत्वे पदान्तरसाहित्यापेक्षेति तत्रितयापासनमिति सम्प्रदायः, तदसत, 'सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट, पितॄणतार्सत् सममंस्त बन्धून् । व्यजेष्ट षद्वर्गमरस्त नीतौ समूलघातं न्यवधीदरींश्च ॥' इत्यादौ श्रुतिकटोर्दुष्टत्वे पदान्तरसाहित्यस्यानपेक्षणीयतया तदुदाहरणविरोधात् । न च 'सोऽध्यैष्ट' इत्यादावपि वाक्यस्य श्रुतिकटुत्वं पदान्तरापेक्षमिति वाच्यम् । परुषवर्णारब्धत्वस्य खत एव सत्त्वात् , तथात्वेऽपि वा 'स रातु वो दुश्च्यवनो भावुकानां परम्पराम् । अनेडमूकताद्यैश्च धतु दोषानसम्मतान् ॥' इत्याद्यप्रयुक्तायुदाहरणाव्याप्तिः । न हि तत्रापि दुष्टत्वे पदान्तरापेक्षेति वक्तुं शक्यते अप्रयुक्तत्वस्य पदमात्रधर्मत्वात् । किञ्च-अवाचकमप्यसमर्थसमानशीलं किमिति नापास्तमिति सर्वव्याख्यानेषु विनिगमकं वाक्यं वक्तव्यमित्यत्र ब्रमः-विवक्षितधर्मिप्रत्यायकशब्दवृत्तित्वे सति नानापदवृत्तित्वमेवात्र वाक्यवृत्तित्वमभिप्रेतम्। 'न्यक्कारो ह्ययमेव' इत्यत्रापि नाव्याप्तिः, उद्देश्यविधेयाभिधायकयोयोरपि दुष्टत्वात् । अत एवाविमृष्टविधेयांशमित्यत्रांशपदोपादानम् । 'योऽसौ सुभगे ! तवागत' इत्यायुदाहरणे प्रकाशे एव स्फुटमेतत् । एवं च युक्तं च्युतसंस्कृत्यादिव्युदसनम् । न चासमर्थसहोदरस्यावाचकस्यापि युक्तो व्युदासः, तेनापि केनचिद्विवाक्षितधर्मिज्ञापनात् । यथोदाहृतेन ('अवन्ध्यकोपस्ये' त्यत्र) जन्तुपदेन । व्युदस्तेषु पुनर्न कोऽपि प्रभेदो विवक्षितधर्मिप्रतिपादकः । इति । 'विशिष्टैकार्थतात्पर्यकपदसमूहो वाक्यम्, तदपेक्षदोषत्वमेव वाक्यदोषत्वम्, तदपेक्षत्वं च केषाञ्चिदात्मलाभाय, केषाश्चित् स्वोत्कर्षाय; तथाहि-ये केवला वाक्यदोषा येऽपि च विधेयाविमर्शादयो वाक्यगतास्ते वाक्ये एव सम्भवन्तीत्यात्मलाभाय वाक्यमपेक्षन्ते, ये पुनः श्रुतिकटुत्वादयः पददोषा अपि वाक्यघटकपदद्वयत्रयादिगतत्वेनातिशयदोषतामापद्यन्ते; ते खोत्सर्षलाभायैव वाक्यसापेक्षाः । इति । च्युतसंस्कारासमर्थत्वयोः खत एवातिशयदोषयोर्न वाक्यघटकपदद्वयादिगतत्वे न कोऽपि विशेषः, निरर्थकपदस्य वाक्यघटकत्वमेव नास्तीति नैषां वाक्यदोषत्वम् । एकस्य विवक्षितार्थावाचकपदस्य प्रसिद्धार्थमादायापि कथञ्चिद् वाक्यार्थबोधोत्पत्तिः सम्भवतीति नावाचकत्वस्य दोषस्व खत एवातिशय इति पदद्वयादिगत्वेनाति शायितो वाक्यदोषोऽयमिति यथा कथञ्चिद्विभजनीयम् ।' इति विकृतिकाराः 'कः कः कल्याण चरितः काकः कपटकृत्त्वरः । पर्यायेण सुखी दुःखी कःकः किञ्चिद्भवेन वा ॥' इत्यादौ 'कस्कादिषु च ।' ८३३१४८ इति शासनविरुद्धतया. च्युतसंस्कारत्वम्, न तु विसंधित्वम्; एतादृशस्थले वृत्तभङ्गभयाभावे विभाषाया असम्भवात् । अन्यथा 'कस्कादिषु च'८।३।४८ इति शासनं सार्वत्रिक मा भूत् 'कानामेडिते' ८।३।१२ इत्यादौ 'आमेडिते' इत्यादि वा. न सार्थकं स्यात् । अतोऽयं दोषो वाक्यगतोऽपि । आहुश्च 'च्युतसंस्कृत्यप्रयुक्ताविमृष्टविधेयांशविरुद्धकारित्वानि पदवाक्ययोः ।' इत्यन्ये पदमात्रदोषोऽयमित्यपि केचित् । इति ।
__ वाक्ये । दुःश्रवत्वं 'दोषः' इति शेषः । यथा-'तव प्रियायाः । विरहे । स्मराय॑न्धः स्मरस्यात्र्तिस्तयाsन्धस्तथाभूत इव कर्तव्याकर्त्तव्यमूढतया स्थित इति यावत् । 'अहमिति शेषः । कदा कस्मिन् विरहाभावप्रयुक्ते सुसमये इति यावत् । कार्त्तार्थ्यं कृतार्थतां स्मरार्तिजन्यान्धताशून्यतारूपामिति यावत् । लप्स्ये प्राप्स्यामि । 'प्राणेभ्योऽपि पर प्रेष्ठे ! पद्माक्षि ! दृष्टिहारिणि !' इति पूर्वार्द्धम् ।' इति 'अत्र दुःश्रवत्वं दोष' इति शेषः।।
अश्लीलत्वमुदाहरति-इति 'अन्यार्थेऽन्यस्यान्यकवेरर्थस्तात्पर्य तत्र । कृतप्रवृत्तिः कृता प्रवृत्तिजघक्षारूपा प्रवृत्तियेन सः । कविः । वान्तं छर्दितम् । समश्नुते गृह्णाति भक्षयतीतियावत् । 'भुक्तोत्सृष्टाशनेनासौ जीवितं बह मन्यते।' इति शेषः ॥' इत्यत्र । जुगुप्साव्यंजिका 'प्रवृत्तिवान्तोत्सृष्ट' शब्दैरिति शेषः । अश्लीलता।
- अथानुचितार्थत्वं यथा-'कुविन्दस्त्वं तावत् पटयसि गुणग्रामभितो यशो गायन्त्येते दिशिदिशि च नग्नास्तव विभो।। 'शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथाऽपि त्वत्कीर्तिर्धमति विगताच्छादनमिह ॥' इत्यत्र 'कुविन्द' इति पदं