________________
[ सप्तमः-.
. साहित्यदर्पणः । 'अमुक्ते' त्यत्र क्रिययैव सह सम्बन्ध इति दोष एव । एते च क्लिष्टत्वादयः समासगता एंव पददोषाः । वाक्ये, दुःश्रवत्वं यथा- .
अथ प्रकृतमनुसरति 'अमुक्ते' त्या । 'नत्र' इति शेषः । क्रियया 'आसी' दित्यनेन धात्वर्थेन । एव । सह। सम्बन्धोऽन्वयः 'समस्यमानत्वेनान्वेतुमसमर्थत्वात् विवक्षितोऽपि न सङ्घटते' इति शेषः । इतीत्येवं कृत्वा । दोषोऽविमृष्टविधेयांशत्वम् । एव तदवस्थ एवेति यावत् । अत्रायं पर्यालोकः 'अमुक्ते' त्यत्र नयो 'मुक्त' त्यनेन समासः, स च न विवक्षितः, एवं सति-परपदार्थप्रधानतया नञः प्राधान्यापगमे विवक्षितस्य तस्य तिरस्कारापत्तिः । यथा हि'अब्राह्मणमानये' त्यत्र न नयः प्राधान्यं, तस्य परपदेन समस्तत्वात् इति नञः पर्युदासापत्तौ पर्युदासस्य च 'पर्युदासः सदृगू ग्राही'त्युक्तदिशा सदृशार्थबोधकत्वेनारोपितब्राह्मणत्वविशिष्टतानिरूपितकर्मसम्बोध्यनिष्ठकतानिरूपि- तानयनक्रियानिरूपितकर्त्तव्यताक उपदेश इत्यर्थः । तदुक्तम्महाभाष्यकारैः-"अब्राह्मणमानये' त्युक्ते ब्राह्मणसदृश
एवानीयते नासौ लोष्टमानीय कृती भवतीति । 'अश्राद्धभोजी' त्यस्य तु न श्राद्धसदृशानभोजनशील इत्यर्थः, 'व्रते।'३।२ । २० इति विधीयमानस्य णिनेरन्यथाऽनुपपत्तेः । भोजनं हि रागप्राप्तमिति तदभाव एव व्रतं, तस्मात् 'श्राद्धाभोजनशील' इत्यर्थः । तथा च-णिनेः सामर्थ्यादसमर्थसमासः । 'असूर्यम्पश्या' इत्यत्र पुनः ‘असूर्यललाटयोद्देशितपोः।' ३ । २ । ३६ इत्यसमर्थसमासो निर्बाध एव । वस्तुतस्तु निरुक्तस्य वा 'सुडनपुंसकस्य ।' १।१ । ४३ इत्यस्य वा सूत्रस्य ज्ञापकतामाश्रित्य 'असूर्यम्पश्या' इत्यादिव'दश्राद्धभोजी' त्यत्राप्यसमर्थसमासः, ज्ञापकता च न सार्वत्रिकीति 'अश्राद्धमोजी'त्यादौ णिन्यादीनामुपपत्त्यर्थ सङ्गच्छतेऽसमर्थसमासः, न चा 'मुक्ते'त्यादौ । 'अश्राद्धभोजी' त्यादौ च कर्बशो भोज्यादिगतो णिन्यादिरूपः, तद्वारा पुनर्नयः क्रियया सम्बन्धः, पिनेरन्यथोपपत्त्यसम्भवात् । कशस्य कृदुपस्थापितत्वे धात्वर्थेनैव सम्बन्धस्य व्युत्पन्नत्वात् । इत्येत्र नञः प्रसज्यप्रतिषेधत्वन्निबाँधम् । 'अमुक्ते' त्यादौ पुनर्नो 'मुक्ते' त्यनेन समस्तत्वे न सम्बन्ध उपपद्यते । एतस्य (नमः ) तदभावे ( समासाभावे ) एव सद्भावात् । नञश्च 'मुक्के' त्यनेन तत्पुरुष समासः, तत्र च परपदार्थस्य प्राधान्या अबो गुणीभूतत्वेन न निषेधार्थकतयाऽन्वयोपयोगित्वम् । एवं सति कर्मणि विहितक्तान्तेन मुञ्चतिधातुना नत्रः समासे उत्तरपदार्थस्यैव प्राधान्यं, न पुनर्नव इति तस्य पर्युदासत्वं तदवस्थम् । नापि 'अ मा नो ना' इत्युक्तदिशाऽत्राऽप्यशब्द एव भवेत्, यन्न स्यान्निरुक्तदोषावकाश इति वक्तुं शक्यम् । समासाशङ्कया जायमानस्य सहृदयवैमुख्यस्य दुरापत्तेः । अन्ये त्वेवमप्याहुः-'ननु पर्युदासार्थोऽमुक्तत्वमेव विधीयतां, फलाविशेषात् इति चेत् ? स्यादेवमपि, यदि तथा सति क्षणमपि तेन सम्बन्धः स्यात् स हि मुक्तत्वेनैव प्रतियोगिना विवक्षितः, न च पर्युदासे तथा सम्भवः, समासे एकदेशेना. न्वयानुपपत्तौ विशिष्टेनैवारोपितमुक्तत्वेनान्वयात् । नन्वेवन्नाविमृष्टविधेयांशत्वं, विधेयस्योपस्थानाभावात् । किन्तु दानार्थे 'आदत्ते' इतिवदवाचकत्वं स्यात् । समासे नमोऽर्थान्तरं प्रतिपन्नत्वात् । इति चेत् ? न। तथाऽपि प्राधान्येन निर्देशाभावस्याक्षतत्वात् । न चावाचकत्वस्यात्रान्तभोवोऽपि कत्तु शक्यः, विवक्षिताथीनुपस्थितिमूलकत्वेन तयोः साम्येऽपि एतस्य विधेयांशसम्बन्धिन्याः प्रधानताया विमर्शाभावमात्रमूलकत्वेन तद्भिन्नत्वात्, सति समास एवैतस्य पदनिष्ठत्वात् तस्य चान्यथोपपत्तेश्च । अत एतस्य दूषकताबीजं विवक्षितस्योद्देश्यविधेयभावार्थस्य प्रत्ययाभावः ।' इति ।
सिंहनिरीक्षणन्यायेन पुनः पूर्वत्रैव वक्तव्यविशेषमुपस्थापयति-एते चेत्यादिना ।
एते दर्शितलक्ष्यलक्षणाः। क्लिष्टत्वादयः । आदिना विरुद्धमतिकारित्वाविमृष्टविधेयांशत्वयोग्रहणम् । समास. गताः । एव । पददोषाः । उक्तं च प्रकाशकारैः-'अथ भवेत् क्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत् समास. गतमेव ॥' इति ।
अथैषां वाक्यगतत्वं निर्दिशति-वाक्ये इत्यादिना ।
इदं तावद्वोद्धव्यम्-पदान्तरांनपेक्ष्येण दुषकत्वं पददोषः, स च पदपरिवृत्त्यसहत्वे एव भवति । वाक्यदोषः पुनः मंदान्तरसापेक्ष्येण दूषक्त्वम्, तत्सद्भावश्चानेकपदपारवृत्त्यसहत्वे एव । साकाक्षानेकपदवृत्तित्वेन रसापकर्षकत्वं वाक्यदोषः ।