________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । इत्यत्र अत्रस्तता'द्यनूद्यात्मगोपना'येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः ।
ननु 'अश्राद्धभोजी ब्राह्मणः' 'असूर्यम्पश्या राजदारा'इत्यादिवत् 'अमुक्ता'इत्यत्रापि प्रसज्यप्रतिषेधो भवति इति चेत् ? न । अत्रापि यदि मोचनादिरूपेण क्रियांशेन नञः सम्बन्धः स्यात् तदा तत्रैव प्रव्ह्यप्रतिषेधत्वं वक्तुं शक्यं, न च तथा; तत्र विशेग्यतया प्रधानेन तद्भोज्याद्यर्थन कत्र शेनैव नञः, सम्बन्धात् । यदाहुः
"श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते । न तद्भोजनमात्रं तु कर्तरीनेविधानतः॥' इति ।
इत्यत्र । 'अत्रस्तता'ऽदि । अनूद्य । 'आत्म गोपना'दि । एव न तु 'अत्रस्तता'ऽऽदि । विधेयम् । इतीत्यस्मात् । नत्रः । पर्युदासतया । गुणीभावः । युक्तः । एवं च नञः समासे पर्युदासत्वं, प्रसज्यप्रतिषेधत्वं पुनरन्यत्र । तयोः पूर्व गुणीभावास्पदं, न परम् ; इत्यस्मात् 'अत्रस्तता'ऽऽदेरुद्देश्यताया एव युक्तत्वान्नात्र निरुक्तो दोषः, विधेयस्यात्मगोपना देरुद्देश्यत्वाभावात् । इति निष्कृष्टम् । - उक्तम) द्रढयितुमाशंकते-नन्वित्यादिना।।
ननु । 'अश्राजभोजी न श्राद्धं लक्षणया तदन्नम्भुङ्क्ते इत्येवं शील इति तथोक्तः । श्राद्धानाभोजीति यावत् अत एव 'व्रते।' ३।२।२० इति सूत्रात् व्रते गम्यमाने णिनिः । ब्राह्मणः । 'अस्ती'ति शेषः। 'असूर्यम्पश्याः सूर्यन्न पश्यन्तीति तथोक्ताः । सूर्यस्यापि न निरीक्षितार इति यावत् । 'असूर्यललाटयोईशितपोः।' ३।२॥३६ इत्यसमर्थ खश्च । राजदारा राज्ञोदारा: । 'भार्या जायाऽथ पुम्भूम्नि दारा' इत्यमरः । इत्यादिवदित्यादिष्विवेति । 'तत्र तस्येव ।' ५।१।११६ इति वतिः। 'अमुक्त'त्यत्र । अपि । प्रसज्यप्रतिषेधः। 'नत्र' इति शेषः । भवति । 'भविष्यतीति पाठान्तरम् । इतीत्येवम् । चेत 'आशडकसे' इति शेषः । न । आशङ्कनीयम् । कुत इत्याह-अत्रापीत्यादि । अत्र 'अमुक्ते'त्यत्र। अपि । यदि । मोचनादिरूपेण । क्रियांशेन । भोजनादिरूपक्रियांशेनेति पाठे तु'भोजनादीनां रूपमिव रूपं यस्य तादृशो यो मोचनादिरूपो क्रियांशस्तेने'त्यर्थ इति बोध्यम् । 'सहेति शेषः । नत्रः। सम्बन्धोऽन्वयः । स्याद् 'वस्तुतस्तु नास्तीति शेषः । तदा तर्हि । तत्र 'अश्राद्धभोजी'त्यादौ । इव । प्रतिषेधत्वं निषेधार्थकत्वम् । वाम् । शक्यम् । च किन्तु । तथा 'यथेति शेषः । तथा च-यथा 'तत्र अश्राद्धभोजीत्यादौ भोजनादिरूपेण क्रियांशेन नञः सम्बन्धस्तद्व'दित्यर्थः । न । यतः-तत्र 'अश्राद्धभोजी'त्यादौ-'तो'ति पाठस्याभावे तत्रेत्यस्याध्याहारो विधेयः। विशेष्यतया विशेष्यत्वरूपेण हेतुना । अत एव-प्रधानेन । तदभोज्याद्यर्थेन तस्य श्राद्धादेर्भोज्यादिरिति, स एवार्थस्तेन । तद्भोज्यार्थेन' इति पाठश्चिन्त्यः । अतएव-'श्राद्धभोज्यादिरूपार्थेने ति विवृतिः सङ्गच्छते। कशेन कर्तुः 'भोजनदर्शना'दिकर्तुरंशस्तेन तद्वारेति यावत् । एव न तु श्राद्धादिरूपेण कर्माशेन । नत्रः। सम्बन्धादन्वयात् । न तु समस्ततया वर्तमानत्वात् । तथाच-'अमुक्ते'त्यत्र तु नञो 'मुक्ते'त्यनेन समस्तत्वे न तयोरन्वयः सङ्गच्छते' इति तत्र तस्य पर्युदासत्वमेवोचितम्, 'अश्राद्धभोजी'त्यादौ पुनर्नयः कत्रंशद्वारा सम्बन्धो ‘भोजनादिस्वरूपया क्रियया खलु सम्भवतीति सङ्गच्छत एवात्र नत्रः प्रसज्यप्रतिषेधत्वम् । तस्मान्न तथाऽऽशङ्कनीयम् । इति निष्कृष्टम्। '
उक्तमर्थं समर्थयते यद् यतः । आहुः 'प्राञ्च' इति शेषः । 'हि' यतःकारणात् । 'अश्राद्धभोजी'त्युक्ते श्राद्ध. भोजनशीलः श्राद्धान्नभोजी । कर्ता । 'निषेधरूपेणे'ति शेषः । प्रतीयते । तत्कर्त्तरि श्राद्धभोजनकरणशीलत्वेन प्रतीयमाने कर्तरीति यावत् । इनेः णिनेः 'व्रते।' ३।२।२० इति विहितस्य प्रत्ययस्येति यावत् । विधानतो विधा. मात् । तद्भोजनमात्रं तस्य श्राद्धस्य भोजनमिति, तदेवेति तथोक्तम् । तु। न । 'व्रते।' ३।२।२० इति णिनेर न्यथाऽनुपपत्तेः । तथा च-'अश्राद्धभोजी' त्यत्राप्युच्यमानेऽन्यत्रेव नञः पर्युदासत्वाशंकया, 'अश्राद्धभोजी'त्येव तावदर्थः प्रतीयते, तन-अश्राद्धस्य श्राद्धभिन्नतत्सदृशान्नस्य भोजनशीलत्वं कर्तनिष्ठं प्रतीतिमुपपद्यते । किन्त्वेषान प्रतीतिः प्रमा। यतः-'भोजिनी' त्याद्यात्मनि कतरि व्रते गम्यमाने विहितस्य णिनेः समावेश इति 'अब्राह्मणस्य दयापात्र' मितिवदारो पितश्राद्धभोजनशीलत्वमेव कर्तृनिष्ठतया न वक्तुं युक्तम्, किन्तु-निषेधार्थत्वमादायैव, तस्मात् 'अश्राद्धभोजी' त्यादावुक्ते न श्राद्धभिन्नतत्सदृशमपि भोक्तुं शील इत्येवार्थों बोद्धध्यः ।