________________
(१४
साहित्यदर्पणः।
[ सप्तमः'अप्राधान्य विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥' इति । यथा-'नवजलधरः सन्नद्धोऽय, न हप्तनिशाचरः।" उक्तोदाहरणे तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयताऽनवगमः । यदाहुः-- 'प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥' इति । तेन-- 'जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत् ॥ १ ॥
यद यत:-आहः 'प्राञ्च' इति शेषः । 'यत्र यस्मिन् वाक्ये। विधेः पदार्थान्तरस्य नमो हि निषधोऽर्थो मुख्य इति स्वपदस्य योऽर्थस्तव्यतिरिक्तस्यार्थस्येति यावत् । अप्राधान्यं प्राधान्याभावः । प्रधानस्य भाव इति प्राधान्यं, तन्न भवतीति तथोक्तम् । प्रतिषेधे निषेधार्थे स्वार्थे इति यावत् । प्रधानता प्राधान्यं विधेयत्वेन मुख्यत्वं नतूद्देश्यत्वेनामुख्यत्वप्रत्यायकत्वमिति यावत् । अत एव-यत्र । क्रियया । सह । नञ् 'समन्वयते' इति शेषः । असौ नत्र । 'तत्रे'ति शेषः । प्रसज्यप्रतिषेधः प्रसज्योऽसौ प्रतिषेधो निषेधदिति तथोक्तः । प्रतिषेधतीति प्रतिषेधः । अत एवोक्तं 'प्रसज्यस्तु निषेधकृत् ॥' इति । यद्वा-प्रसज्य प्रसक्तो भूत्वा प्रतिषेधतीति ॥' इति ।
उदाहरति-यथेत्यादिना।
यथा 'अयं पुरस्तादृश्यमानः । सन्नद्धः कवची कवचीव स्थित इति यावत् । यद्वा-व्यूढ इत्यर्थः । 'सन्नद्धः कवची व्यूढ' इति मेदिनी । नवजलधरो नवो जलधर इति भावः । दृप्तनिशाचरो दृप्तो निशाचरः । न 'भवती' ति शेषः ।' इति ।अत्रेद बोध्यम्--'नवजलधरः सन्नद्धोऽयं, न दृप्तनिशाचरः, सुरधनुरिदं दूराकृष्टं, न तस्य शरासनम् । अयमपि पटुर्धारासारो, न बाणपरम्परा, कनकनिकषस्निग्धा, विद्युत् प्रिया न ममोर्वशी॥' इत्यत्र समासाभावानजः प्रसज्य. प्रतिषेधत्वं, न तु पर्युदासत्वम् । पूर्वापेक्षयाऽत्रानुपपत्त्यतिरेकं दर्शयति--
उक्तोदाहरणे 'अमुक्ता भवता' इत्यत्र 'अमुक्ते'ति पदे। तु। तत्पुरुषसमासे 'सती'ति शेषः । नञो नञथस्य नअपदार्थस्येति यावत् । गुणीभावे गौणत्वप्रतिपत्तौ सत्याम् । पयंदासतया पर्यदासलक्षणाक्रान्तत्वेन । निषेधस्य निषेधरूपस्यार्थस्य । विधेयताऽनवगमो विधेयताया अनवगमोऽवगमाभाव इति । अत्रेदमुक्तम्-नहि प्रसज्यप्रतिषेधः सन् समस्यते पर्युदासस्यैव समासे उपपत्तेः । तस्मात् 'अमुक्त'त्यत्र नत्रः समस्तत्वात् पर्युदासत्वमेव । अत्र च निषेधस्य प्रधानत्वासम्भवाद्विवक्षितस्य च निषेधप्राधान्यस्यानिर्वाहादविमृष्टत्वं निर्वाधम् । इति ।
उक्तमर्थ प्राचां संवादेन प्रमाणयति-यद् यतः । आहुः 'प्राञ्च' इति शेषः । 'यत्र यस्मिन् वाक्ये । विधेः प्रधानत्वम् । प्रतिषेधे नजथे । अप्रधानता । अत एव यत्र । उत्तरपदेन 'सह समस्त'इति शेषः । 'वृद्धो यूनातल्लक्षणश्वेदेव विशेषः ।' १।२।९५ इत्यादिनिर्देशात्तृतीया । न 'य'इति शेषः । स तत्रे'ति शेषः । पर्युदासः पर्युदासयति खार्थमिति तथोक्तः । विज्ञेयः ॥' इति ।
एतेन सिद्धमर्थं निर्दिशति-तेन ‘हेतुनेति' शेषः ।। - 'स प्रकृतः प्रसिद्धो वा दिलीपो नाम महाराजः । अत्रस्तो न त्रस्त इति निर्भयः सन्नित्यर्थः। त्रस्तो भीरुभीरुकभीलुकाः ।' इत्यमरः । आत्मानम् । जुगोप ररक्ष । अनातुरो नातुर इति तथोक्तः; रोगादिजन्यव्याकुलताशून्यः सन्नित्यर्थः । धर्मम् । भेजे। अगृध्नुनै गृध्नुरिति, तृष्णाशून्यः सन्नित्यर्थः । गृधु अभिकाङ्क्षायाम् । 'सिगृधिधृषिशिपेः क्नुः।' ३।२।१४ इति क्नुः । 'गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्' इत्यमरः । अर्थान् विषयान् । आददे जग्राह भुक्तवानिति यावत् । असक्तोऽनासक्तः सन्नित्यर्थः । सुखम् । अन्वभूत्॥तथा च-स नृपतिरत्रस्तोऽपि त्रस्त इवात्मानं ररक्ष, अनातुरोऽपि आतुर इव धर्ममाचरितवान्, अतृषितोऽपि तषित इव विषयान् भुक्तवान् , असक्तोऽपि सक्त इव सुखमनुभूतवान् । इति । निष्कृष्टोऽर्थः । इदं च पद्यं रघुवंशस्य ॥ १ ॥