________________
१३.
परिच्छेदः ]
रुचिराख्यथा व्याख्यया समेतः ।
यथा वा- 'आसमुद्र क्षितीशानाम्' इत्यत्रा 'समुद्र' मिति वाच्यम् ।
यथा वा- 'यत्र ते पतति सुभ्रु ! कटाक्षः षष्ठवाण इव पञ्चशरस्य । ' इत्यत्र षष्ठ इवेत्युत्प्रेक्ष्यम् । यथा वा- 'अमुक्ता भवता नाथ ! मुहूर्त्तमपि सा पुरा ।'
इत्यत्र 'अमुक्ते' त्यत्र नञः प्रसज्यप्रतिषेधत्वमिति विधेयत्वमेवोचितम् । यदाहुः
शेषः । अत्रेदमभिहितम् - अनेकानेकपरः सहस्रराक्षसाधिराजराजिमर्दनपराक्रान्ततया विश्रुतप्रभावार्थक एव रामशब्दो लाक्षणिकोऽभिप्रेतः, तत्सम्बन्धित्वमेव पुना रक्षसां मर्दने युक्तं प्रतिभासते इति तस्य रामस्य सम्बन्धित्वमेव विधेयं, तच्च नानुवाद्यम्, किन्त्वनुजशब्देन समं रामशब्दस्य समासे तदनुवाद्यतां प्राप्तं गुणीभूतम्, न तु विधेयत्वेन प्राधान्यमुपगतमस्मात् 'रामस्य योऽनुजस्तस्यै' त्यभिप्रेतस्यार्थस्योल्लासाय 'रामस्यानुजस्ये' त्यसमस्तमेव वाच्यं, न तु 'रामानुजस्ये 'ति समस्तम् । तत्पुषसमासे हि रामपदार्थस्य गुणीभावो ऽनुजपदार्थस्य च प्राधान्यम् । रामस्य पूर्ववर्त्तित्वादनुजस्य चोत्तरवर्त्तित्वादिति तत्त्वम् । इति । यथा वा 'आसमुद्र क्षितीशानां समुद्र मर्यादी कृत्येत्यासमुदं क्षितेः पृथिव्या ईशा : स्वामिनस्तेषाम् । 'रघूणामन्वयं वक्ष्ये ।' इति शेषः । इत्यत्र 'आसमुद्रम् । 'इतीत्येवं पृथक्कृत्य । वाच्यं वक्तुं योग्यम् । अत्रायम्भावः - रघुवंशभवानां शासनं समुद्रावधिकं, तस्मात्तदेव विधेयम्, किन्तु समासे गुणीभूतत्वादनुवाद्यत्वस्य प्रतीतिमूलतां प्राप्तम् । तथा च विधेयमनुवाद्यत्वप्रत्याय कम्माभूदित्यसमस्तमेव ' आसमुद्रं क्षितीशाना' मिति वाच्यम् । एवं च - 'समुद्रपर्यन्तं पृथिवीपतीना' मिति, न तु 'समुद्रावधिकपृथिवीपतीना' मिति विधेयांशस्य गुणीभूतत्वं प्रतिपत्स्यते । समासाभावे समुद्रपर्यन्तताया विशेषणविषयत्वासम्भवात् । इति । यथा वा 'हे सुभ्रु ! सुषू भ्रुवौ यस्यास्तत्सम्बुद्धौ तथोक्ते । ते तव । कटाक्षः । पञ्चशरस्य कामदेवस्य । 'कामः पञ्चशरः स्मरः ।' इत्यमरः । षष्ठवाणः षष्ठो बाणः । इव । यत्र यस्मि । पतति । 'मनुभाषिणि ! बलान्निगृहीतस्तत्क्षणाद्वशमुपैति स एव ॥' इति शेषः ।' इत्यत्र षष्ठो 'बाणः' इति शेषः । इव । इतीत्येवम् । उत्प्रेक्ष्यमुत्प्रेक्षितुं युक्तम् । अत्रेदमवसेयम्- 'पञ्चशरस्य षड्बाणत्वासम्भवात्तद्वाणानां षट्कत्वस्याप्यसम्भवः । तस्माद्वाणे षष्टत्वमुत्प्रेक्ष्य विधेयम्, वशीकरणे च वाणस्योत्प्रेक्ष्य विधेयं षष्टत्वमेव हेतुरित्येवात्र हेतूत्प्रेक्षा । केचित्त्वाहु: - 'कटाक्षस्य तीक्ष्णत्वेन वाणेन साम्यम्, तच्च पञ्चशरसम्बन्धिनैव तस्यैव वशीकर्तृत्वसम्भवात् । अस्य च षष्टत्वासम्भवात् षष्ठत्वमुत्प्रेक्ष्य विधेयम् । तस्माद्वशीकरणे कटाक्षरूपस्य षष्ठत्वमुत्प्रेक्ष्यते इति उत्प्रे क्षे'ति । अन्ये त्वाहुः - तीक्ष्णत्वेन हेतुना बाणेन समं सादृश्येनोत्प्रेक्षणीयस्यापि कटाक्षस्य वशीकरणे तस्य षष्ठत्वमेवोत्प्रेक्ष्यते इति हेतू प्रेक्षषा, बाणस्य षष्टत्वं चोत्प्रेक्ष्य विधेयं निर्बाधम् ।' इति । न च कटाक्षे षष्ठबाणत्वस्य विशिष्टस्यैवोत्प्रेक्ष्य विधेयत्वान्माभूदुक्तदोषावकाश इति वाच्यम् । वशीकरणे विधेयांशस्य बाणत्वस्याप्रयोजकत्वेन प्राधान्याभावाद्विशेषणांशस्य षष्ठत्वस्य च प्रयोजकत्वेन प्राधान्योपपत्तेरविशिष्टस्य षष्ठत्वस्यैवोत्प्रेक्ष्यत्वात् । अत एव ' आकडारादेका सञ्ज्ञा ' १।४।१ इत्यत्रैकत्वस्य प्राधान्यभङ्गापत्तेः समासाभावः सङ्गच्छते । अन्यथाऽत्राप्येकस्मिन् स ज्ञन्युद्देश्ये एकत्वविशिष्टसज्ञिविधाने दोषो न स्यात् । इति । उत्प्रेक्ष्यविधेयस्य च बाणे षष्टत्वस्य समासे गुणीभावादनिर्वाहः । तस्मात् - 'सुभ्रु ! षष्ठ इव पञ्चशरस्य सायकः पतति यत्र कटाक्षः ।' इति युक्तः पाठः । यथा वा- 'हे नाथ ! भवता । पुरा पूर्वस्मिन् समये । मुहूर्तम् । अपि । अमुक्ता न मुक्ता । 'अय या प्रोज्झिता हन्त लोकान्तरमुपस्थिता ॥' इति शेषः ।' इत्यत्र । 'लोक' इति शेषः । 'अमुक्ते 'त्यत्रेत्यस्मिन् पदे । नञः । प्रसज्यप्रतिषेधत्वम् । 'अभिमत' मितिशेषः । इतीत्यस्मात् कारणात् विधेयत्वम् । एव नत्वनुवाद्यत्वम् । उचितम् । अत्रायम्भावः - 'अमुक्ता' इत्यत्र नत्रा 'मुक्त' त्येतस्य तत्पुरुषसमासः स च परपुरुषप्रधानः, न चात्र परपुरुषो विधेयत्वेन विवक्षितः, तथा विवक्षितः पुनमेवात्र; किन्त्वेतस्य समासे गुणीभावात् प्रसज्यप्रतिषेधत्वाभावः, प्रसज्यप्रतिषेधत्वं पुनः समासाभाव एव, समासे पुनः पर्युदासत्वापत्तेः पर्युदासत्वे च क्रियया सममन्वयानुपपत्तौ स्फुटमवमृष्टविधेयांशत्वम् । यथा वा - 'अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति । श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥' इत्यत्र 'ते पण्डिता न मता' इति विवक्षितं तच्च समासे गुणीभूतम् ; नयः समासगतत्वात् । न च नयः प्रसज्यप्रतिषेधो ऽर्थोऽवतिष्ठत इत्यविमृष्टविधेयांशत्वम् । इति ।
तदेवसमर्थयते - यदाहुरित्यादिना ।