________________
साहित्यदर्पणः।
[सप्तमःविधेयस्यांशस्य विमर्शाभावेन गुणीभूतत्वमविमृष्टविधेयांशत्वम् । यथा-- 'स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः।' इत्यत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् ।
यथा वा--'रक्षांस्यपि पुरस्थातुमलं रामानुजस्य मे।' इत्यत्र 'रामस्येति वाच्यम् । पदस्यांशभूतेनाम्बिकेतिशब्देन 'च'ईश' शब्दस्य 'पति' शब्दस्य 'रमण'शब्दस्य च संयोगात् 'देवदत्तपत्न्यावल्लभ' इतिवत् 'मातू रमण' इतिवच्च भवान्याः पत्यन्तरेऽम्बिकायाश्च पुत्रेण समं व्यभिचारे प्रतीतिमुपस्थापयतीति विवक्षितार्थप्रतिबन्धः स्फुटम् । तथा च-एतस्य पदस्य विरुद्धमतिकारित्वम् । इति प्राश्चः । नव्यास्त्वाः 'भवानी'त्यादिभिः शब्दै रीशपत्यादिशब्दाना मंबिके त्यादिशब्दै 'रमणा' दिशब्दानां वा सन्निधानेऽपि 'रूढियोगापहारिणी' इत्युक्तदिशा दुर्गावप्रकारक एव बोधोजन्यते, अन्यथा 'शिवा भवानी रुद्राणी' इत्यायुक्तदिशा तस्य तस्य शब्दस्यापरपर्यायत्वं मा भत् । एवं च--'भगिनी भगवती'त्यादीनां शब्दानां योगेनैकार्थकत्वेऽपि रूढ्या भिन्न भिन्नार्थत्वेन नियन्त्रितत्वं सङ्गच्छते । अत एवैतेषामलीलत्वमपि न । इति । वस्तुतस्तूक्तदोष एव न । अस्य हि प्रसिद्धप्रतिकूलतया विवक्षितार्थताया अवस्थानमिति बोध्यम् ।
यथा वा मम--'जनतापहृतौ धृतव्रतं प्रथितोदारचरित्रमच्युतम् । खरदुषणरावणान्तकं शरणं यामि तमेकमीश्वरम् ॥' इत्यत्र 'जनतापहृता'विति पदस्य 'जनानां तापस्तस्य हतौ' इति विवक्षितार्थापेक्षया 'जनताया अपहृता'विति विरुद्धार्थप्रत्यायकत्वाद्विरुद्धार्थमतिकारित्वम् । तस्मात्--'जनशोकनिवर्तनव्रत'मिति युक्तः पाठः ।
त्रयोदशं पदस्थमविमृष्टविधेयांशत्वं दोषमुदाह व्याचष्टे--'विधेयस्येत्यादिना ।
विधेयस्य विधातुं प्राधान्येन निर्देष्टुं योग्यः शक्योवेति तस्य । 'अचोयत् ।' ३।१।९७ इति यत् । 'ईद्यति ।' ६।४।९५ इतीदादेशे गुणः । अंशस्य भागस्य । विमर्शाभावेन विमर्शस्य विचारस्याभावस्तेन । गुणीभूतत्वम् । अविमृष्टविधेयांशत्वमविमष्टोऽनपेक्षितो विधेयांशो यस्य तस्य भावः तत्त्वम् 'दोष' इति शेषः । अत्रायम्भावः-- यथातथमेव वर्णनमुपयुज्यते, नान्यथा; प्रधानस्य प्राधान्येन तदितरस्य पुनर्गुणीभावत यथा वर्णनं सङ्गच्छते, न तथा प्रधानस्याप्राधान्येनाप्रधानस्य पुनः प्राधान्येन । एवं च--यत्र प्राधान्येन वर्णनीयस्य वर्णनं यदि भवेदप्राधान्येन, तर्हि तत्राविमष्टविधेयांशत्वन्नाम दोषः । विधेयं प्रधानं, न पुनरनुवाद्यमिति विधेयस्याप्यनुवाद्यवद् गुणीभाव एवैतस्य मूलम् । अयं च नित्यः, विधेयस्यांशस्य गुणीभावेन तत्तिरस्कारस्यैवोपस्थानात् । न चास्याभवन्मतयोगत्वेन सङ्करः । अत्र पदार्थानां परस्परमन्वयबाधाभावात्, तत्र पुनस्तस्याप्यभावात् । पदगत एवायं सति समासे, न पुनर्वाक्यगत इत्येके, वस्तुतस्तु अनित्य एवैषः, 'सर्वाबलानां गतिः' इत्यादौ तस्य दुष्टत्वानुदयात् ।
उदाहरणानान्तरं दर्शयति--यथा वा--स्वर्गग्रामटिकाविलुण्ठवृथोच्छ्रनैः स्वर्ग एव प्रामटिकाऽल्पोग्रामस्तस्या विलुण्ठनं तत्र वृथोच्छूनास्तैः । एभिः । भुजैः। किम् । 'अस्ती'ति शेषः ॥' इत्यत्र । वृथात्वम् । 'भुजाना मिति शेषः । विधेयम् । तत् भुजानां वृथात्वम् । च । समासे । गुणीभावात् । अनुवाद्यत्वप्रतीतिकृदनुवाद्यत्वस्य प्रतीतिरिति, तां करोतीति तथोक्तम् । अत्रायम्भावः --पदार्थानाम्मध्ये विधेयोऽश एवो. पादेय इति तस्य प्रधान्यमेवोपयुज्यते न तु गुणीभावः । असौ क्वचित् समासेन, कचित् पुनरुद्देश्यविधेयपदयोः पौर्यापर्यविपर्येण; तत्राये पदस्थः, द्वितीये पुनर्वाक्यस्थो दोषः । एवं च--अत्र खर्गरूपाया ग्रामटिकाया विलुण्ठनेन समुच्छूनैरेभिर्भुजैः किं वृथेति भुजानां वैयर्थ्य विधेयम्, तच्च वृथापदस्योच्छ्नपदेन समं समासे गुणीभूतम् , अनुवाद्यत्वप्रत्यायकत्वात् । तद्यथा--'स्वर्गरूपाया ग्रामटिकाया विलुण्ठनेन वथोच्छ्रनैरेभि जैः 'कि' मित्यभिहिते 'तथा वृथोच्छूनेभुजैः कि' मिति वृथोच्छनत्वविशिष्टानां भुजानां वैयाभिधानमनुवाद्यत्वप्रत्ययमूलम् । इति । यथा वा रामानुजस्य रामस्य योऽनुजस्तस्येत्यर्थः । मे मम । 'लक्ष्मणस्येति शेषः । पुरः पुरस्तात् सम्मुखे इति यावत् । रक्षांसि राक्षसाः । अपि । स्थातुं प्रतिष्टितानि भवितुम् । अलं समर्थानि 'कि' मिति शेषः ॥ इत्यत्र 'आकारेणैव घोराणि प्रबलानि च गर्जनात् । रक्षास्यपि पुरः स्थातुमलं रामानुजस्य मे ॥ इत्यत्र 'रामानुजस्थे' त्यस्मिन् स्थल इति यावत् । 'गमस्य।' इतीत्येवं पृथककृत्य । वाच्यं' वक्तुं योग्यम् । 'पदमिति