________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः।
यथा-'क्षीरोदजावसतिजन्मभुवः प्रसन्नाः॥' इत्यत्र क्षीरोदजा लक्ष्मीः, तस्या वसतिः पद्मं, तस्य जन्मभुवो जलानि, इत्यर्थप्रतीतौ व्यवधानम् ।
विरुद्धार्थावगमकत्वं विरुद्धमतिकारिता । यथा-'भूतयेऽस्तु भवानीशः' इत्यत्र 'भवानीश' शब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् ।
इति प्रतीतिमान्थयेणैव क्लिष्टत्वं दोषः । स च पदसम्भवी वाक्यसम्भवी चेति द्विविधः । तत्राद्यः, समाससद्भाव एव, समासेन अनेकेषां पदानामैकपद्येऽन्वितार्थबोधस्य विलम्बेनोत्थानात् । अत एव दुःश्रवत्वादिभ्य एतस्य भेदः । तेषां समासासमासोभयसाधारण्यात् पदांशेऽपि सम्भवित्वाच । वस्तुतस्तु दूषकताबीजभेदादेव भेदः, अन्त्यः पुनरसमासेऽपि । दूषकताबीजं च विवक्षितविशिष्टार्थप्रतीतिविलम्बः । अत एवासावनित्यः, प्रहेलिकायमकादौ चित्रोद्देश्यत्वेन विवक्षितविशिष्टस्यार्थस्याभिप्रेतत्वे दोषत्वानवस्थानातू, मत्तोक्त्यादिषु तस्यौचित्याद् गुणत्वेनाप्यवस्थानात् । इति । यथा।-क्षीरोदजावसतिजन्मभूवः क्षीरोदः समुद्रस्तस्माज्जायत इत्यसौ क्षीरोदजा लक्ष्मीस्तस्या वसतिनिवासस्थानं कमलमिति यावत्तस्य जन्मभुव आपः, जलानीति यावत् । प्रसन्नाः ।' इत्यत्र । क्षीरोदजा तच्छन्द इति भावः । लक्ष्मीस्तद्वाचक इति यावत् । तस्या लक्ष्म्याः । वसतिर्वासस्थानम् । 'वसतिः स्यात् त्रियां वासे यामिन्यां च निकेतने।' इति मेदिनी । पद्मम् । तस्य । जन्मभुषो जन्मनो भुवः स्थानानि तत्खरूपाइति यावत् । 'भूः स्थानमात्रे कथिता धरण्यामपि योषिति । इति गोपालः । 'उत्तरपदस्य चेति वक्तव्यम् ।' इत्युदादेशः । इतीत्येवम् । अर्थप्रतीतौ । व्यवधानम् । 'तस्मात् क्लिष्टत्व'मिति शेषः । 'ताः क्वाप्यहो घनक्टाविलय प्रयाता ज्योत्स्नाश्चिराय मुदिताश्च विलासशीलाः । क्षीरोदजावसतिजन्मभुवः प्रसन्ना अद्यानुरञ्जयति भास्वति दक्षिणाशाम् ॥' इति समस्तं पद्यम् । तत्र 'क्षोरोदजावसतिजन्मभुव' इति क्लिष्टम. न तु नेयार्थम् । अभिधेयस्यैव दुःखबीध्यत्वात्, लक्ष्यत्वस्यासम्पर्काच्च । इति ।
.द्वादशं पदस्थ विरुद्धमतिकारित्वमुदाहरति-विरुद्धार्थावगमकत्वमित्यादिना ।
विरुद्धार्थावगमकत्वं विरुद्धश्चासावर्थस्तमवगमयति बोधयतीति तत्त्वम् । विवक्षितविरुद्धार्थबोधकारित्वमि. त्यर्थः । विरुद्धमतिकारिता विरुद्धा विवक्षितादर्थात् तस्य वा प्रतिकूला या मतिरर्थबोधशक्तिस्तस्याः कारीति तत्ता । 'दोष' इति शेषः । तथा च-विवक्षितार्थापेक्षया विरुद्धस्यार्थस्य बोधजनकत्वं विरुद्धमतिकारित्वं नाम दोषः । विरुद्धत्वं च स्वान्यतरतिरस्कारप्रत्ययहेतुभूतत्वम् । तच्च प्रतिबन्धकात्मैव । तस्मात्-विवक्षितार्थस्य प्रतिबन्धकीभूततिरस्कारप्रत्ययहेतुभतार्थजनकत्वं विरुद्धमतिकारिता नाम दोष इति फलितम् । अत्रेदं बोद्धव्यम्-अयं पदस्थो दोषः पदान्तरसन्निधानमन्तरेण न सम्भवति । अत एवाश्लीलत्वादनुचितार्थत्वान्निहतार्थत्वाच्चैतस्य भेदः । किञ्च-अश्लीलत्वमनुचिताथत्वं निहतार्थत्वं वा न पदान्तरसन्निधानाद् भवन्तीति बोद्धव्यम् । एवं च-पदान्तरेण विवक्षितार्थप्रतिबन्धकीभूतस्यान्यतरस्यार्थस्य प्रत्ययहेतुत्वं विरुद्धमतिकारित्वं दोषः । अयं चानित्यः, श्लेषादौ तत्तयाऽनङ्गीकारात् । अत एव 'वर्धयन् कुमुदामोदं क्षणदाननमुन्नयन् । मित्रमारमयन्नद्यन्नयं दोषाकरः स्थितः ॥' इत्यत्र 'दोषाकर'इति पदं दोषाणामाकर इति प्रतीतिकरत्वाद्विरुद्धमतिकृदपि न दुष्टम् । इति । यथा-'भवानीशो भवान्या ईशः । भवस्य महादेवस्य स्त्रीति भवानी । 'पुंयोगादाख्यायाम् ।' ४ । १ । ४८ इति ङीष 'इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ।' ४।१।५९ इत्यानुक् च । भूतये सम्पदे सम्पदं दातुमिति यावत् । 'क्रियाऽर्थोपपदस्य च कर्मणि स्थानिनः ।' २।३। १४ इति चतुर्थी । 'विभूति भूतिरैश्वर्यमणिमादिकमष्टधा।' इत्यमरः। अस्तु स्तात् । इत्यत्र 'अणिमादि. विभूतीनामीश्वरो भूतभावनः । भूतयेऽस्तु भवानीशः स्वभावात् करुणानिधिः ॥' इति पद्यस्यांशे। 'भवानीश'श 'भवानीश' इति पदम् । भवान्याः पार्वत्याः पत्यन्तरप्रतीतिकारित्वात् विरुद्धमतिकृत् । 'तस्मात् पदस्यास्य विरुद्धमतिकारित्वेन दूषितत्व'मिति शेषः । यथा वा-'गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः । सविधे निरहङ्कारः पायाद्वः सोऽम्बिकारमणः ॥' इत्यत्रा म्बिकारमण' इति पदस्य 'मातृगामी' ति प्रतीतिकारित्वाद्विरुद्धमतिकारत्वम् । अत्रेदमवसेयम्-'भवानीश' इति 'भवानीपति' रिति पदस्य वांऽशभूतेन 'भवानी'ति शब्देन 'अम्बिकारमण' इति