________________
साहित्यदर्पणः।
[ सप्तमःअवाचकत्वं यथा-'गीतेषु कर्णमादत्ते' इत्यत्रा'' पूर्वो 'दा' धातुर्दानार्थेऽवाचकः । यथा वा'दिनम्मे त्वयि सम्प्राप्ते ध्वाम्तच्छन्नाऽपि यामिनी।' इत्यत्र 'दिन'मिति पदं प्रकाशमयार्थेऽवाचकम् । क्लिष्टत्वमर्थप्रतीतेर्व्यवहितत्वम् ।
दशमं पदस्थमवाचकत्वमुदाहरति-अवाचकत्वमित्यादिना ।
अवाचकत्वं तदाख्यो दोषः । यथा-'गीतेषु गानेषु । कर्ण तदाख्यमिन्द्रियम् । आदत्ते ददाति ।' इत्यत्र । 'आङ' पूर्व 'आङ्' उपसर्गपूर्वकः । 'दा' धातुः 'डदा' धातुः । दानार्थे 'विवक्षित' इति शेषः ।' अवाचकः तस्य 'उपसर्गबलादर्थों धातोरन्यत्र नीयते।' इत्युक्तदिशा ग्रहणार्थमात्रत्वात्तस्मिन्नर्थ चाभिधाशक्तिप्रवृत्यभावादिति शेषः । अत्रायम्भाव:-'गीतेषु कर्णमादत्ते, चक्षुलावण्यराशिषु । पग्रिन्या दिव्यगन्धेषु, घ्राणं चित्तं तु केलिषु ॥' इति समस्तं पद्यम, तत्र 'आदत्ते' इत्या दानं करोती'त्यर्थस्य वाचकम्भवितुमर्हति, न तु विवक्षितस्य 'दानं करोती'त्यस्यार्थस्येत्यवाचकत्वं स्फुट दोषः । यद्यपि 'षष्ठी चानादरे।' २।३।३८ इति सप्तम्यां गीतान्यनादृत्य कर्णमादत्ते गृह्णाति ततस्ततोऽपनयते ॥' इत्येवन्नात्रावाचकत्वं दोष इति वक्तुं शक्यते, तथाऽपि तादृशस्यार्थस्य विवक्षितत्वम् । अथ ददाते
ने शक्तिरूपसामर्थ्यसत्त्वेऽपि 'आई' इत्युपसर्गेणादाने ( उपादाने ) एव शक्तनियमितत्वमित्यादातिर्दानेऽर्थे वाचको नत्वसमर्थः 'तस्मादादत्ते' इति पदं 'दत्ते' इति विवक्षितेऽर्थेऽवाचकत्वेन दोषेण प्रस्तम् । एवं च न दानं व्यङ्गयमिति वक्तुं शक्यम् , अन्वितमर्थान्तरं प्रतिपादयत एव पदस्य व्यञ्जकत्वाङ्गीकारात् । एतस्य पुनर्बीजं विवक्षितस्यार्थस्योपस्थापनाभावः । इति । यथावा-'त्वयि प्रियतमे । सम्प्राप्त समुपागते सति । ध्वान्तच्छन्ना ध्वान्तेनान्धकारेण च्छन्ना व्याप्ता । 'छन्नं रहश्छादितयोः।' इति हैमः । अपि किंपुनश्चन्द्रिकारूपा। यामिनी रात्रिः। 'रजनी यामिनी तमी।' इत्यमरः । मे मम कृते । दिनं प्रकाशरूपा ॥' इत्यत्र । 'दिन'मिति पदम् । प्रकाशमयार्थे प्रकाशप्रधानेऽर्थे । अवाचकं वाचकन्न भवतीति । 'सुडनपुंसकस्य ।' १।१।४३ इत्यस्य ज्ञापकत्वेनासमर्थसमासः । अत्रायम्भाव:-'दिन' मिति पदं 'प्रकाशमयेत्यर्थे विवक्षितम् , 'ध्वान्तच्छन्ने'ति विशेषणेन बोधितस्य यामिनीविषयस्य तमोमयत्वस्य वैपरीत्याभिधानायोपात्तत्वात् । तत्र च धर्मिणो योगमनपेक्ष्यैव रूढया 'दिन' मिति पदं दिनत्वेन शक्तं, न पुनः प्रकाशमयत्वेनेत्य: वाचकम् । एतस्य पुनर्बीजं विवक्षितस्यार्थस्य प्रतीतितिरोधानम् । तर्कवागीशास्त्वाहुः-अत्र शृङ्गार प्रतीतिविलम्वनं दूषकताबीजम् । रूढयादिसत्त्वे लाक्षणिकपदप्रयोगेऽवाचकत्वं, तदसत्वे नेयार्थत्वमिति भेदः । निरूढलक्षणादौ शाब्दबोध. विलम्बाभावान्न रसादिबोधविलम्बनमिति नास्यावसर इत्यवधेयम् । इति । 'गते नाथे स्फुरदपि यदासीत् प्रसृतं तमः । दिनम्मे त्वयि सम्प्राप्ते ध्वान्तच्छन्नाऽद्य यामिनी ॥' इति भवेत् समस्तं पद्यम् । इति । यथा वा-'अबन्ध्यकोपस्य निहन्तुरापदाम्भवन्ति वश्याः खयमेव देहिनः । अमर्षशन्येन जनस्य जन्तुना न जातहार्देन न विद्विषा दरः ॥' इत्यत्र पूर्वार्ध दारिद्रयापद्विघातकतया दातृत्वं विवक्षितमित्युत्तरार्धं तद्वैपरीत्यप्रदर्शकत्वेनादातर्य्यर्थे 'जन्तुने ति पदं प्रयुक्तम्, तत्र च 'जायते' इति योगमवलम्ब्य तस्य धर्मिणि शक्तत्वेऽपि विवक्षितेनादातृत्वेन न शक्तिरित्यवाचकत्वम् । न च तात्पर्यानुपपत्या लक्षणया भवेद्विवक्षितस्यार्थस्य बोधकत्वमिति वाच्यम् , प्रयोजनाद्यभावेन लक्षणाया अप्रसङ्गात् । यदि तु 'जन्तुने'ति पदं सर्वप्रकारानुपास्यत्वादिबोधरूपप्रयोजनाङ्गीकारेण लाक्षणिकं तदा माभूदेतस्य दोषस्य प्रसङ्गः । इति ।
एकादशं पदस्थं क्लिष्टत्वमुदाहरति-क्लिष्टत्वमित्यादिना ।
अर्थप्रतीतेरर्थस्य विवक्षिताभिधेयस्य प्रतीतिः प्रतिपत्तिस्तस्याः । व्यवहितत्वं व्यवधान प्राप्तत्वम् । विवम । 'दोष' इति शेषः । अर्थप्रतीतेव्यवधानमन्वयोपयोगावहकारणकलापप्रतिपत्तिमान्थर्यमात्रकृप्तम् ,अन्वयोपयोगावहः कारणकलापश्चाकाङ्क्षाऽऽसत्तियोग्यत्वात्मा । तथा च-आकाक्षाया आसत्तेर्योग्यतायाश्च प्रतिपत्तिमान्थर्येणैव विवक्षितस्यान्वितविशेषात्मनोऽर्थस्यापि प्रतिपत्तिर्मन्थरता प्रतिपद्यते इति तथा दुःखावहत्वं क्लिष्टत्वमिति स्थितम् । आकाक्षादिप्रतीतिविलम्बादन्वयप्रतीतेविलम्बः, तस्य सद्भावे पुनर्विवक्षितोऽप्यन्वितोऽथों झटिति न प्रतीयते