________________
परिच्छेदः ]
रुचिराख्यया व्याख्येया समेतः। निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेऽर्थे प्रयोगः । यथा-- 'यमुनाशम्बरमम्बरं व्यतानीत् ॥' इत्यत्र दैत्ये प्रसिद्धः शम्बर' शब्दो जले निहतार्थः ।
प्यसम्भव इति चरणाघातपदस्यार्थो न साक्षात् सम्भवतीति मुख्यार्थवाधः । तस्मात्-निर्जितत्वे लक्षणया तस्य प्रयोगः । यद्यपि वैयाकरणैरिवालङ्कारिकैरपि वृत्तावेकार्थीभावाशीकारात् शक्यसम्बन्धरूपा लक्षणा सूपपादा, तथाऽपि निर्जितत्वे चरणाघातपदस्य रूढेः प्रयोजनस्य वाऽभावेन मुख्यशब्दार्थव्यतिरिक्तस्यार्थस्य प्रतीत्यभाव इति नेयार्थत्वम् । उक्तं च 'लक्षणा सा न कर्तव्या कष्टेनार्थागमो यतः । न यत्र शक्यसम्बन्धो न रूढिन प्रयोजनम् ॥' इति । न च निर्जितत्वातिशयप्रतिपत्तिः प्रयोजनमिति वाच्यम् । उपमानत्वेनोत्तमगणे चन्द्रे, उपमेयत्वेन न्यूनगुणेन मुखेन चरणाघातदानवर्णने वर्ण्यस्यैवापकर्षापत्तरिति भावः । तर्कबागीशास्त्वाहुः-'मुखस्य चरणासम्भवात्तदाघातस्याप्यसम्भव इत्यन्वयानुपपत्तिः । खजन्यचरणाघातपराभवः स्वजन्यवृत्तिपराभववत्त्वं मुख्यलक्ष्ययोः सम्बन्धः । अत्र रूढिप्रयोजनव्यतिरेकनिश्चयेन कवेरशक्तिनिश्चयः, ततो लक्ष्योपस्थितिः, ततः शाब्दबोध इति तद्विलम्बेनैव रसबोधविलम्बनमत्र दूषकताबीजम् । ' इति। यथा वा-'नवकुमुदतनश्रीहासकेलिप्रसङ्गादधिकरुचिरशोभामप्युषां जागरित्वा । अयमपरदिशोऽके मुञ्चति स्रस्तहस्तः शिशयिपुरिव पाण्डुम्लानमात्मानमिन्दुः ॥' इत्यत्र 'सस्तहस्ते ति पदस्य नेयार्थत्वम् ।
नवमं पदस्थं निहतार्थत्वं दोषमुदाहरन व्याचष्टे--निहतार्थत्वमित्यादिना ।
उभयार्थस्योभयः प्रकृताप्रकृतः प्रसिद्धाप्रसिद्धी वाऽर्थो यस्य तस्य । शब्दस्य । अप्रसिद्ध प्रसिद्धव्यति. रिक्त । अर्थे वाच्येऽर्थे । प्रयोगः प्रकृतत्वेन न्यासः । निहतार्थत्वनिहती विवक्षितेतरार्थप्रसिद्धयाऽभिभ तोऽर्थो यस्य तस्य भाव स्तत्त्वम् । 'दोष' इति शेषः । तथा च-अविवक्षितस्य प्रसिद्धस्यार्थस्य झटिति बोधो पस्थित्या विवक्षितस्य प्रसिद्धतरस्य बोधविलम्बे तिरस्कृतविवक्षितार्थबोधत्वं निहतार्थत्वन्नाम दोष इति फलितमा प्रसिद्धत्वं च यदर्थतया भूरिप्रयोगप्रवाहः, तेन वा उपस्थाप्यमानदृढतरझटितिबोधसंस्कारविषयभूतत्वम् । तेन च तस्य तस्य झटित्युपस्थित्या तदतिरिक्तस्य न झटिति उपस्थितिरिति तिरस्कृतत्वमेव निहतार्थत्वम् । एवं च योगमात्रमवलम्ब्य कुमुदाद्यर्थ पङ्कजादिषु पदेषु प्रयुक्तेष्वप्यस्य दोषस्यैव सद्भावः, 'रूढिर्योगापहारिणी।' इत्युकदिशा रूढयर्थस्य झटित्यप. स्थितेः । नास्य नेयार्थत्वेन सङ्करः । प्रयोजनसद्भावेऽपि दुष्टत्वस्वीकारात् । नापि सङ्करोऽप्रयुक्तत्वेन, तस्य श्लेषयमका. दिष्वेव दुष्टत्वपरिहानात् , एतस्य पुनरन्यत्रापि दुष्टत्वाभावात् । उक्तं च-'लक्षणया प्रयुक्तत्वेऽसति च प्रयोजने नेयार्थत्वं दोषः, सति त्वदोष एव । गूढेऽप्यर्थे क्वचित् प्रयोगानाप्रयुक्तत्वेन सङ्करः ।' इति । अत एवानि. त्योऽपीति स्थितं श्लेषयमकादिभ्यो व्यतिरिक्तेऽपि स्थले गूढेऽर्थे दुष्टत्वाभावात् । यथा-'यमनाशम्बर यमुनायाः शम्बरं जलम् ( कर्तृ ) । 'शम्बरं सलिले पुंसि मृगदैत्यविशेषयोः' इति विश्वः । अम्बरमा.. काशम् । 'व्योम पुष्करमम्बरम् ।' इत्यमरः । व्यतानीद् व्याप्तं चकार ॥' इत्यत्र । दैत्ये दैत्यविशेषे इत्यर्थः । प्रसिद्धः। शम्बर' शब्दः । 'जले प्रसिद्धतरार्थके प्रयुक्त इती' ति शेषः । निहतार्थः। अत्रेदं तत्त्वम-'शम्बर, शब्दः श्रुतमात्रो दैत्यविशेषवाचकतामवगमयति, न पुनर्विवक्षितां जलवाचकताम्, तस्मात् स्फुटं निहतार्थत्वम । नन पंल्लिङ्ग एव 'शम्बर' शब्दो दैत्यविशेषवाचको न तु नपुंसकलिङ्गः, नपुंसकलिङ्गस्य तस्य जलवाचकत्वस्यामरादिभिरा. म्नातत्वात् । प्रकृते च नपुंसकलिङ्गतया ग्रयुक्त: 'शम्बर'शब्दः । तस्मात् कथमसौ 'श्रुतमात्रो दैविशेषवाचकतामवगम
'त्युच्यते ! इति चेत् ! 'शम्बर' शब्दो नपुसकलिङ्गोऽपि न जलवाचकतया प्रसिद्धः, तत्र भूरिप्रयोगप्रवाहाभाबात। तस्मानपुंसकलिङ्गतया प्रयुक्तोऽपि 'शम्बर'शब्दः पुंल्लिङ्ग एवासौ दैत्यविशेषवाचक' इति विचारसापेक्ष्यकृतं तदोधमा. पर्यमुन्मूल्य श्रुतमात्रो दैत्यविशेषवाचकतामेवावगमयतीति तस्य स्वाभाव्यादिति युक्तमेवोदाहृतं कविराजैः । न च तर्हि भवेदप्रयुक्तत्वं दोषः' इति शङ्कयम् । नपुंसकलिङ्गतयाऽऽम्नातस्य जलार्थकस्य 'शम्बर' शब्दस्य कविभिरनाहत्य पंलिङ्गतयाऽपि वा तत्रादृतत्वाभावात् । 'नवनीरदकान्तिनाऽम्बुकेलौ प्रहतानां वजसुन्दरीकुचानाम् । मदपुजभरेण मोदमानं यमः नाशम्बरमम्बरं व्यतानीत् ॥' इति भवेत् समस्तं पद्यम् । इति ।