________________
साहित्यदर्पणः ।
[ सप्तमः
इत्यत्र योगशास्त्र एव वासनार्थ 'आशय' शब्दः । 'आशीः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥' अत्र 'वन्द्या'मिति पदं किं बन्दीभूतायामुत वन्दनीयामिति सन्दिग्धत्वम् । नेयार्थत्वं रूढिप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् । यथा---- 'कमले चरणाघातं मुखं सुमुखि ! तेऽकरोत् ॥' इत्यत्र चरणाघातेन निजतत्वं लक्ष्यम् ।
काशयैरपरामुष्टः पुरुषविशेषः ईश्वरः । इति । इत्यत्र वासनाऽर्थो वासनावाचकः । 'आशय' शब्दः । पातअलशास्त्रएव प्रसिद्धत्वादप्रतीतत्वेन ग्रस्त इति शेषः । अत्रायम्भाव:--'चिरादभ्यस्यमानेन योगेन दलिताशयः । प्रयाति ब्रह्मनिर्वाणमचिरादकुतीभयम् ॥' इत्यस्यांशभूतं 'योगेन दलिताशयः' इति । तथा च---अत्र आशयशब्दस्य वासनार्थत्व. नाभिमतस्याप्रतीतत्वेन ग्रस्तत्वमिति भावः इति ।
सप्तमं पदगतं सन्दिग्धत्वमुदाहरति---'आशीः परम्परा'मित्यादिना ।
'वन्द्यां वन्दितुं योग्यां स्तवनाामिति यावत् । 'अहे कृत्यतृचश्च । ३।३।१९९ इति ण्यत् । आशी:परम्परा माशिषान्मइलप्रार्थनानां परम्परा ताम् । कर्णे । कृत्वा । 'हे राजन्' इति शेषः । कृपाम् । कुरु ॥ यद्वा----'भाशी: परम्परां कर्णे कृत्वा बन्यां (बन्दीजने )-कृपां कुरु ।' इत्यत्रोदाहृते स्थल । 'वन्द्या' मिति ‘पदस्थेति शेषः । बन्दीभूनायाम् । उताथवा । वन्दनीयां स्तवनीयाम् । इति 'अर्थ' इति शेषः । तस्मात् । सन्दिग्धत्वं तदाख्यो दोषः । तात्पर्य विष यीभतस्यार्थस्य तात्पर्यनिश्चयाभावेन यथाऽर्थतयाऽधिगमाभावविषयभूतत्वं सन्दिग्धत्वम् । न हि सन्दिग्धं तात्पर्यण निर्देष्ट शक्यते, इयत्ताविषयकविकल्पावगाहिज्ञानस्यैव सन्देहपदार्थत्वात् । तस्मात--तात्पर्यसन्देहविषयीभतार्थद्वयोपस्थितिवि. पथीभूतत्वं सन्दिग्धत्वमिति निष्कृष्टम् । 'आलिङ्गितस्तव भवान् सम्पराये जयश्रिया।' इति तत्पूर्वार्द्धम् । अत्र न.--- 'रलयोर्डलयाश्चैव शसयोर्ववयोस्तथा । वदन्त्येषां च सावर्ण्यमलङ्कारविदो जनाः ॥ इत्युक्तदिशा 'वन्या मिति पदं 'नमः स्यामित्यर्थ 'बन्दीकृताया मित्यर्थ वा प्रकरणायतन्त्रितमाहेति संदिग्धार्थम् । दृषकताबीज पुनरुद्देश्यनिश्चयाभावः । अत एव तस्मिन्नभिमते न भवेददूषकतेत्यस्यानित्यत्वं विरुद्धमतिकारित्वाद्भेदश्च ।
अष्टमं पदगतं नेयार्थत्वमुदाहरति-नेयार्थत्वमित्यादिना । । रुढिप्रयोजनाभावादूढिश्च प्रयोजनं चेति, तयोरभावस्तस्मात् । रूढी रूढिमूला, प्रयोजनं पुनः प्रयोजनमूल लक्षणा, तयोरभावः सम्भवाभावः सङ्गत्यभावो वा । तथाच--रूढिमूलायाः प्रयोजनमूलाया वा प्रसिद्धाया लक्षणायाः सम्भवाभावात् सङ्गतताऽभावाद्वेत्यर्थः । अशक्तिकृतं न शक्तिरिति तया कृतम् । शक्तिः प्रतिभा प्रभावो व्युत्पत्तिा तया कृतम् । लक्ष्यार्थप्रकाशनं लक्ष्यः शक्यविरुद्धोऽर्थस्तस्य प्रकाशनं प्रकाशकत्वम् । नेयार्थत्वं नेयो रूढिप्रयोजनाभ्यामन्यया लक्षणया कल्प्यो न तु स्वतःसम्भवी अर्थो यस्य तस्य भावस्तत्त्वम् । 'दोषः' इति शेषः । अत्रायं भावः--'निरूढा लक्षणाः काश्चित् सामर्थ्यांदभिधानवत् । क्रियन्ते साम्प्रतं काश्चित् काश्चिन्नैव त्वशक्तितः॥' इत्यायुक्तदिशा रूढिप्रयोजनमूलाभ्यां प्रसिद्धाभ्यां लक्षणाभ्यां व्यतिरिक्ताया अत एव निषिद्धाया लक्षणायाः प्रतिपाद्यो नेयोऽर्थः, तद्वत्त्वं पुनर्नेयार्थत्वं दोषः स च रूढिमूलायाः प्रयोजनमूलायाश्च प्रसिद्धाया लक्षणाया भिन्नथा कयाऽपि लक्षणया प्रतिपाद्यार्थत्वे एव सम्भवति नान्यथेति निर्विचिकित्सितं विदुषाम् । रूढिप्रयोजनमूलाभ्यां लक्षणाभ्यां भिन्ना लक्षणाच कथमपि कल्प्यमानेव, न तु खरूपसतीत्यत एव तस्या अप्रसिद्धत्वम् । तया च-प्रतिपाद्यमानोऽप्यों न किञ्चित्स्वरूपसन्निति तच्छालित्वं दोषत्वमेवावहति । अत्र दूषकताबीजं पुनर्लक्षणाजन्यबोधे रूढिप्रयोजनान्यतरज्ञानस्य हेतुत्वेन प्रकृते तदभावात् वृत्त्यभावेनार्थानुपस्थितिः । अत एवाप्रयुक्तवाद्भेदः, नित्यश्चायं दोषः।इति।सच-यथा हे सुमुखि! ते तवामुखम् (कर्त)। कमले। चरणाघातं चरणनाघातस्तम् । अकरोत् ।' इत्यत्र । चरणावातेन चरणद्वारा य आघातस्तद्वारा । निजितत्वं कमलस्ये' तिशेषः । लक्ष्यं न च तथा सङ्गच्छत इति नेयार्थत्व'मिति शेषः । 'मित्रदर्शनय. जातप्रमोदोल्लाससुन्दरे। कमले चरणाघातं मुखं सुमुखि ! तेऽकरोत् ॥' इत्यत्र मुखस्य चरणासम्भवात्तदाघातस्या