________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। 'भाति पद्मः सरोवरे !' इत्यत्र पद्मशब्दः पुंल्लिङ्गः।। ग्राम्यत्वमापामरज्ञेयार्थत्वं यथा-कटिस्ते हरते मनः।' इत्यत्र कटिशब्दोग्राम्यः । अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् । यथा-'योगेन दलिताशयः ॥'
याविरुद्धत्वेन प्रयोगौचित्येऽपि सम्प्रदायत्वेन कविप्रयोगार्हत्वशन्यत्वात् । 'एतस्य च यमकालेषादौ स्वरूपसत्तयाऽवस्थितत्वात् सङ्गच्छतएवानित्यत्वम् । एतस्य बीजंच-प्रयोजनगौरवमन्तरेणापि तादृशकविजनसम्प्रदायोलङ्घनप्रयोजनानुसन्धानव्यग्रतया मुख्यार्थस्य विच्छित्तिः। अतएव यमकादौ नास्य स्वरूपेणावस्थानम् । इति ।
उदाहरति-यथा । 'सरोवरे । पद्मः कमलम् । 'वा पुंसि पद्म' मित्यमरः । भाति चकास्ति ।' इत्यत्र पद्मशब्दः । पुंलिङ्गः । 'अप्रयुक्तत्वेन ग्रस्त' इति शेषः । अत्रायम्भाव:-'मकरन्दप्रपानाय मधुपानाह्वयनिव । सौरभोद्गारिकिजल्को भाति पद्मः सरोवरे ॥' इत्यत्र 'पद्म' पदं 'वा पुंसि पद्म' मित्यमरोक्त्या पुंलिङ्गतया प्रयुक्तमाम्नातमेव, अथापि प्रायोऽयं शब्दः पुंलिङ्गतया विधिविशेषवाचित्वेनैव कविभिः प्रयुज्यते, न तु कमलंबाचित्वेनापि, इति तथा प्रसि. द्धावपि कविभिरनादृतस्यास्य प्रयोगादप्रयुक्तत्वं दुष्टत्वम् । इति ।
पञ्चमं पदगत ग्राम्यत्वमुदाहरति-ग्राम्यत्वमित्यादिना ।
'आपामरज्ञेयार्थत्वमापामरं ज्ञेयोऽर्थो यस्य तत्त्वम् । पामरान् मर्यादीकृत्येत्यापामरम् । सर्वजनज्ञेयार्थत्वमिति भावः ॥ ग्राम्यत्वं ग्रामे नतु नगरे नवोपनगरे भवमिति तस्य भावस्तत्त्वम् 'दोष' इति शेषः । अत्रेदमवसेयम्-विदग्धमात्रस्थानं नगरं, किञ्चिद्विदग्धस्थानमुपनगरम्, अविदग्धमात्रस्थानं पुनामः । विदग्धमात्रप्रयोगास्पदं नागरम्, किञ्चिद्विदग्धप्रयोगार्हमुपनागरम्, अविदग्धमात्रप्रयोगार्ह पुनाम्यम्; तत्र न तथाऽऽद्ये आपामरं प्रसिद्धार्थ यथाऽन्त्य पदं, तस्मात् कविभिर्नागरमुपनागरमेव वा प्रयुज्यते न पुनाम्यम्, वैदग्ध्याभावोन्नयनेन श्रोतुबैमुख्यापादकत्वात् । अत एव विदषकाद्यक्तौ ग्राम्यमेव प्रयुज्यते पदम्, तच्चावहति शोभाम् तस्य तथैवौचित्येन वैरस्यापादकत्वाभावात्; प्रत्युत स्वारस्यापादकत्वात् । अनित्यश्च तस्मादयं दोषः । एतस्य मूलं च वक्तुर्वेदग्ध्याभावोन्नयनेन श्रोतुर्वैमुख्योत्पत्तिः ।
उदाहरति-यथा-ते तव ।' कटिः श्रोणिः । 'कटिः श्रोणिः ककुद्मती ।' इत्यमरः । मनस्तत्तिमिति यात् । हरते स्वसौन्दर्येणाकर्षति, अनुरञ्जयतीत्यर्थः ॥ इत्यत्र । 'कटि' शब्दः । ग्राम्यो ग्राम्यत्वेन दुष्टः । 'राका-- विभावरीकान्तसक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिस्ते हरते मनः ॥' इति समस्तम् ।
यथावा-'न हयन च मात.र्न रथेन च पत्तिभिः । किन्तु स्त्री वामदृष्टयेव जगन्ति जयति क्षणात् ।' इत्यत्र 'स्त्री' शब्दः । यथा वा मम-'जयिनो मन्मथनृपतेर्जित्वा जगतीं सुखं शयानस्य । न्युज निहितौ सुन्दार ! तव स्तनौ दुन्दुभी मन्ये॥' इत्यत्र 'स्तन' शब्दः ।
षष्ठं पदगतमप्रतीतत्वमुदाहरति-अप्रतीत्वमित्यादिना ।
एकदेशमात्रप्रसिद्धत्वर्गकोऽसौ देशः स्थलमित्येकदेशः, स एवेत्येकदेशमात्र तत्र प्रसिद्धत्वम् । 'सप्तमी शौण्डः ।' १५१४ इति समासः । अप्रतीतत्वं न (ईषत् ) प्रतीतं प्रतीतिविषयभूतमिति, तत्त्वम् । 'दोषः' इति शेषः । इदं बोध्यम्-यद्यपि कविभिरनादृतत्वादप्रयुक्तोऽपि शास्त्रस्यैकदेश एव प्रसिद्ध इति वक्तुं शक्यते।तथाऽपि न स कविभिरादृत इति न तस्य प्रसिद्धत्वम, प्रतीतः पुनः आइतोऽपि न प्रसिद्धः तस्मान प्रयुक्तत्वेऽप्रतीतस्यांतर्भावो युज्यत इति बोध्यम् । दोषश्चायमनित्यः । तदभिज्ञ स्वस्मिन्नेव वा परामर्शकतरि तत्खरूपसत्त्वानुपलब्धः, प्रत्युत व्युत्पत्तिसूचकत्वेन गुणात्मनाऽवस्थानात् । अत एव असमर्थत्वादप्येतस्य भेदः । तत्तच्छास्त्राभिज्ञानामपि सर्वेषां तत्तदर्थानुपलब्धेः । इति । यथा-'योगेन चित्तवृत्तिनिरोधेन तदात्मनोपायेने ति यावत् । तथोक्तम्-'योगश्चित्तवृत्तिनिरोधः' इति । दलिताशयोदलितश्चूर्णित आशयो वासनाकृतानां शुभाशुभकर्मणां संस्कारो यस्य सः 'दल' विशरणे । क्तः । तथोक्तम्-क्लेशकर्मविपा