________________
साहित्यदर्पणः।
[सप्तमः'शूरा अमरता यान्ति पशुभूता रणाध्वरे ।' इत्यत्र 'पशु' शब्दः कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् । अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वम् । यथातृतीयं पदगतमनुचितार्थत्वं व्याचष्टे-'शूरा'-इत्यादिना ।
'शरा युद्धादपलायिनो वीराः । रणाध्वरे रण एवाध्वरो यज्ञस्तत्रा रण: कोणे क्वणे पुंसि समरे पुन्नपुंसकम् ।' इति, 'यज्ञः सवोऽध्वरोयागः सप्ततन्तुर्मखः क्रतुः ।' इतिच मेदिनी। पशुभूताः पशुस्वरूपाः सन्तः।अमरताममराणां देवानां । भावस्तत्तेति ताम् । यान्ति प्रतिपद्यन्ते।तथोक्तम्महाभारते-'द्वाविमौ पुरुषव्याघौ सूर्य्यमण्डलभेदिनौ । परिवाड़ योगयुक्तश्च रणे चाभिमुखे हतः ॥'इति । इत्यत्रेत्यस्मिन् ‘पद्यार्धे' इति शेषः । 'पशु' शब्दः । कातर्य कातराणाम्भाव इति तत्त्वं तत् । अभिव्यनक्तिव्यन्जनया बोधयति । इतीत्यस्मात् कारणात् । अनुचितार्थत्वम् । यः स्याद् विवक्षितो ऽथस्तस्यैव ब्रीडाऽऽदिव्यजकताशून्यत्वे सति तत्तिरस्कारप्रत्यायकताशून्यार्थत्वमनुचितार्थत्वमित्यर्थः। येन ब्रीडाऽऽदिव्यअकताशून्यत्वे सति वर्ण्यमान एवार्थः पराभूतः प्रत्याय्येत सोऽनुचितार्थत्वन्नाम दोष इति भावः । अत एव-विवक्षितस्यार्थस्य तिरस्कारोपस्थितिकारकत्वमेतस्य बीजम्, तस्मानित्यत्वं च । अत्रेदमाकूतम्-'यथा यज्ञेऽश्वमेधादौ पशवोऽश्वप्रमुखा बध्यन्ते इयन्ते च, ते पुनः स्वगै प्रपद्यन्ते तथैव रणे रणविदो युध्यन्ते म्रियन्ते च, ते पुनः स्वर्गे महीयन्ते । इत्येवं रणयज्ञ शरा एव पशवः, ते तत्र बध्यमानाः स्वर्गमधिगच्छन्ती' ति, अत्र न पशवः स्वयं यथा स्वर्ग गन्तुमुपतिष्ठन्ति न वा स्वयं वलादत्रस्यन्तो वा जहति प्राणान्, किन्तु परतन्त्रास्त्रस्यन्त एव वध्यन्ते हूयन्ते चेति, तथा न राजन्या अपि स्वयमत्रस्यन्तो बलाजहति प्राणान , न वा तत्र प्राणान् परित्यज्य स्वयं स्वर्ग जिगमिषन्तीति स्फुटं तेषां शूराणामपि कातरत्वं व्यज्यते, न चायमर्थो विवक्षाविषयस्तस्माद् विवक्षितस्यापि तेषां शूरत्वाभिव्यञ्जनस्य तिरस्कारादभिव्यज्यमानादत्रानु. चितार्थत्वं दोषः । अयं च विवक्षितस्यार्थस्य तिरस्काराभिव्यक्तिमुपजीव्यैवावतिष्ठते, इति नित्यं परिहेयत्वानित्यः । तथोक्तं प्रदीपकारैः-'अत्र शौर्ये प्रतिपाद्य पदान्तरानपेक्षमेव पशुपदं कातरतामभिव्यनक्ति, पशुपदार्थे कातरताया दर्शनात् । विरुद्धमतिकृत्त्वं तु पदान्तरसापेक्षं, न तथेदमिति तस्माद्भेदः । दूषकताबीजं च विवक्षिततिरस्कारकार्थोपस्थितिः । अतोऽस्य नित्यदोषत्वम् ।' इति । यत्तद्द्योतकारैरुक्तम्-'अस्य नित्यदोषत्वं चिन्त्यम् । तदर्थेऽगृहीतकातरत्वस्य तत्तिरस्कारोपस्थित्यभावात् ।' इति । तत्रोच्यते न साक्षात्पशुपदार्थ कातरत्वं, येन सहृदयेतरोऽप्यधिगच्छेत् किन्तु व्यज्यमानम् । एवं च-विवक्षितार्थतिरस्कारोऽपि व्यज्यमान एवानुचितार्थत्वस्य मूलभूतः, न पुनरभिधीयमानः, तस्मात् पशुपदार्थे सहृदयेतरो यदि भवेदगृहीतकातरताकः, तस्य च व्यज्यमाना विवक्षितार्थतिरस्कारोपस्थितिन पुनर्यदि स्यात् तर्हि स्थाने । न ततस्तस्य नित्यत्वं व्याहन्यते । इति । यथा वा मम-"अबला तरुणेन तेन सा निगृहीता भुजपजरे बलात् । चकिता तरलाम्बुजेक्षणा सुभगस्याननमेव वीक्षते ॥” इत्यत्रा 'बलेति' पदं जुगुप्सामभिव्यनक्तीत्यनुचितार्थम् । अत्राहुस्तर्कवागीशा:-'अनुचितार्थत्वं क्वचिद् वाच्यार्थदोषप्रतिपादकत्वेन, क्वचिदर्थासम्भवेन, कचिदसत्समर्थकत्वेन । तत्राद्यमाह-'शूरा' इति । पशुभूताश्छेद्यस्वरूपाः । अत्र वाच्यार्थस्य शूरस्य कातर्य दोषः । तस्य व्यञ्जकत्वात् पशुपदस्यानुचितार्थत्वम् । द्वितीयं यथा 'प्रज्वलजलधारावनिपतन्ति शरास्तव ।' इत्यत्र 'प्रज्वल' दिति पदमनुचितार्थम् । तृतीयं यथा-'दिवाकराद्रक्षति यो गुहामु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ॥' अत्रासद्भूतस्यान्धकारस्य समर्थकं द्वितीयार्थमनुचितार्थम् । एवमन्यदपि ज्ञेयम् । इति ।
चतुथै पदगतमप्रयुक्तत्वं व्याचष्टे-अप्रयुक्तत्वमित्यादिना ।
तथा प्रसिद्धौ । 'सत्या' मिति शेषः । 'अपि, व पुनरन्यथा । कविभिर्विवेकिभिः, एतेन वैयाकरणानामपि सड़ग्रहः । 'सङ्ख्यावान् पण्डितः कविः ।' इत्यमरः । अनादृतत्वं न (ईषत्) आदृतं स्वीकृतमिति, तस्य भावः तत्त्वम् । 'ननभावे निषेधे च स्वरूपार्थेऽप्यतिक्रमे । ईषदर्थे च सादृश्ये तद्विरुद्वतदर्थयोः ॥' इति मेदिनी । अप्रयुक्तत्वं नेषन तु सर्वदा सर्वथा प्रयुक्तं प्रयुज्यमानतयाधिकृतमिति तस्यऽभावः तत्त्वं तथोक्तम् । 'दोष' इति शेषः । तथा च-व्याकरणाद्यविरुद्धत्वे सत्यपि वैयाकरणैरालङ्कारिकैश्वेषदाढतत्वमेवाप्रयुक्तत्वन्नाम दोष इति निष्कृष्टम् । अयं चाचित्यः, अनुशासनाद्याम्ना