________________
परिच्छेदः ]
afariख्यया व्याख्यया समेतः ।
क्रमेणोदाहरणम्
'हप्ता रिविजये राजन् ! साधनं सुमहत्तव ।' 'प्रससार शनैर्वायुर्विनाशेतन्वि ! ते तदा ।' इति च । अत्र 'साधनवायुविनाश' शब्दा अश्लीलाः ।
भिमतत्वे सति व्यञ्जकत्वमप्येतस्य गुणः कथमन्यथा शान्त बीभत्सादावुपादेयत्वेन तस्यानित्यत्वं स्यात् ? एनयोर्नित्यत्वानित्यत्वे अपि भेदमूलम् । बीजं चैतस्य-अनभिमतत्वे सति व्रीडाऽऽ दिव्यञ्जकत्वम् । इति । अत्रैतदपि बोद्धव्यम् - त्रिवि धोऽप्ययं पुनस्त्रिविधः । क्वचिद्विवक्षितस्यैवार्थस्य व्रीडाऽऽद्यालम्बनत्वात् क्वचिदविवक्षितस्यार्थस्य प्रकृतार्थोऽन्वयिनो व्रीडाऽऽद्यालम्बनत्वात्, क्वचित् पुनस्तादृशार्थस्य प्रकृतार्थे ऽनन्वयिनोऽपि स्मृतिमात्रत्वात् । इति ।
उदाहरन्नाह - क्रमेण यथासम्भव' मिति शेषः । उदाहरणम् । यथा- 'हप्तारि' - इत्यादि ।
'हे राजन् भूपते स्वामिन् ! इति वा भाव: 'राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शक्रे च पुंसि स्यात् इति मेदिनी । तव नरपतेः स्वामिन इति वा । दृप्तारिविजये दृप्ता अजेयत्वाभिमानेन प्रमत्ता अमी अरयः शत्रव इति तेषां विजयस्तत्र यदा दृप्तो दर्प गतोऽसौ अरिः कामाख्यः शत्रुरिति, तस्य विजयस्तत्र तस्मिन् विषय इति यावत् । सुमहदतिविपुलम् | 'विशङ्करं पृथु बृहद्विशालं पृथुलं महत् । वोरुविपुलम्' इत्यमरः । साधनं सैन्यं लिङ्गं च । 'सर्वातिशयितं नित्यं सुदृढं परिदृश्यते ॥' इति शेषः । हे तन्वि सुन्दरि ! तदा तस्मिन् समये । ते तव । विनाशे अदशेने दर्शनाभावे जाते इति यावत् । 'णश्' अदर्शने इत्यस्य घनि रूपमेतत् । शनैर्मन्दम् । वायुः प्रससार प्रचलति स्म । अत्रेदं बोद्धव्यम् -'साधनमि' तिपदस्य सैन्यवाचित्वेऽपि पुरुषचिह्नव्यञ्जकत्वम्, तच्च प्रकृते विरुद्धमिति व्रीडाव्यञ्जकत्वमेतस्य निर्बाधम् एवम्- 'उदारचरितैस्तैस्तैधीरैः सदसि मण्डिते । प्रससार शनैर्वायुस्तस्य सुन्दरि सर्वतः ॥ ' इति 'जीवितादपि पद्माक्षि ! दयितायाः शुचिस्मिते । नष्टप्रायमिदं जातं विनाशे तन्वि ते तदा ॥ ' इति च पयम् । अनयोर्भवेत्, पद्ययोः 'प्रससार शनैर्वायुर्विनाशे तन्वि ! ते तदा' इति पादद्वयम् । अत्र च - 'वायु' रिति पदमपानवायुं स्मारयति, न तु तदर्थतया वाक्यमुत्पद्यते । एवं च जुगुप्साप्रतीतिरिति स्फुटमश्लीलत्वम् । तथा-'विनाशे' इति 'मरणे' इत्यर्थ स्मारयति । न चायम विवक्षितः, अथाऽयमङ्गलं व्यञ्जयति । तस्मादेतस्याप्यश्लीलत्वम् । दूषकताबीजं त्वनुभवसिद्धं सहृदयस्य श्रोतुर्वैमुख्यम् ।
एतत् सर्वमभिप्रेत्याह-अत्रेत्यादि ।
अत्रास्मिन् 'उदाहृते स्थळे' इति शेषः । 'साधनवायुविनाश' शब्दाः | अलीलाः । व्रीडाजुगुप्सा Sमङ्गलव्यञ्जकत्वादिति शेषः । अत्रदमवधेयम् - ननु 'विनाशशब्दोऽश्लीलोऽप्रयुक्तोऽनुचितार्थी वा ? अश्लील एव, अमङ्गलव्यञ्जकत्वात् । अत एव प्रकाशकारा अपि - 'मृदुपवनविभिन्नो मत्प्रियाया विनाशाद्वनरुचिरकलापो निःसपत्नोऽय जातः । रतिविगलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष वहीं ॥' इत्यत्र 'विनाश' 'शब्दोऽश्लील ' इत्याहुः । न चेदं क्षोदक्षमम्-तथाहि शाब्दिकैरदर्शनार्थसाधारण्येनाभिधातुं शक्यस्यापि विनाशशब्दस्य कविभिः सहृदयैश्चानादृतत्वादप्रयुक्तत्वम्, यद्वा-किञ्चित्कालावधिकवियोगार्थत्वेन विवक्षितस्य चिरकालिक वियोगार्थकत्वेन प्रत्यायकत्वादनुचितार्थत्वम् । इति चेत् 'विनाश' शब्दस्याप्रयुक्तत्वेऽनुचितार्थत्वेऽपि वाऽमङ्गलव्यञ्जकताया अनपायाद
1
त्वम् । अतएव त्रीडाऽऽदिव्यञ्जकत्वे एवाश्लीलता, कविभिरनादृतत्वे एवाप्रयुक्तता, व्रीडाऽऽदिव्यञ्जकताऽभावेऽपि अनौचित्यान्तरव्यञ्जकत्वेऽनुचितार्थता पुनर्दोषः इति भेदः । इति । यथा वा- 'न ब्रह्मविद्या न च राजलक्ष्मीस्तथा यथेयं कविता कवीनाम् । लोकोत्तरे पुंसि निवेश्यमाना पुत्रीव हर्ष हृदये करोति ॥' इत्यत्र 'पुत्रीवे' ति । तथा - 'कुहूकुहस्वरेणैव मधुरेण निरन्तरम् । मनोहरन्नयं चूते कामं कूजति कोकिलः ॥' इत्यत्र 'चूत' इति । एवम् - 'मुदं सुमनसो यान्ति रमां वमन्ति दुर्जनाः । इति राजेन्द्र पश्यामि तव जाते महोदये ।' इत्यत्र 'वमन्ती' ति । 'विभाते गृहमागम्य विष्ठितं शयनोपरि । व्यजनादाशु तन्वङ्गी तोषयामास सादरम् ॥' इत्यत्र 'विष्टित' मिति । 'दशै दशै महोदारं विदग्धं जीवितेश्वरम् । अन्तःप्रसन्ना शुशुभे स्मयमानमुखाम्बुजा ॥' इत्यत्र 'विदग्ध' मिति । 'प्रवासयन्ती दयितं जीवितादपि वलभम् । सा Masta नाके वा रमणी नान्यया समा ॥' इत्यत्र 'प्रवासयन्ती' ति च ।
x