________________
साहित्यदर्पणः।
.
[ सप्तम:
तत्र-परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् । तद यथा' काय यातु तन्वङ्गी कदाऽनङ्गवशंवदा ॥'
इत्यत्र 'कार्तार्थ्य' मिति पदम्।।
अश्लीलत्वं ब्रीडाजुगुप्साऽमङ्गलव्यश्चत्वकात विविधम्। संस्कारता च्युतः स्खलितः संस्कारो व्याकरणलक्षणानुगमो यत्र तस्य भवस्तत्ता,भाषायाः संस्कारकं हि व्याकरणं तदनुशिष्टलक्षणप्रतिकूलत्वं च च्युतसंस्कृतित्वाद्यपरपर्यायच्युतसंस्कारता नाम दोषः, 'इत्येते त्रयो दोषाः सम्भवन्ति' इतिशेषः ॥२॥३॥४॥ - अत्रेदमवधेयम्-दुःश्रुवत्वादयस्तावत् षोडश दोषाः । तत्र-दुःश्रवत्वमश्लीलत्वमप्रयुक्तत्वं प्राम्यत्वमप्रतीतत्वं सन्दिग्धत्वं निहतार्थत्वं क्लिष्टत्वं विरुद्धमतिकारित्वं निरर्थकत्वमविमृष्टविधेयांशत्वं चेत्येते एकादश दोषा अनित्याः, नित्याः पुनरनुचितार्थत्वन्नेयार्थत्वमवाचकत्वमविमृष्टविधेयांशत्वमसमर्थत्वं च्युतसंस्कारत्वं चेत्येते पञ्च । निरर्थकत्वमति नित्य इति नागेशः, विरुद्धमतिकारित्वमपि नित्य इत्यन्ये । अत्रापि--अप्रयुक्तत्वग्राम्यत्वाप्रतीतत्वावाचकत्वक्लिष्टत्वविरुद्धमतिकारिस्वाविमृष्टविधेयांशत्वानां पदवाक्योभयसम्भवित्वमात्रं, तदन्येषां दुःश्रवत्वाश्लीलत्वानुचितार्थत्वसन्दिग्धत्वनेयार्थत्वनिहताधत्वानां पदपदांशवाक्यत्रितयसम्भवित्वम् । निरर्थकत्वासमर्थत्वच्युतसंस्कारत्वाख्यानां पुनर्दोषाणां पदसम्भवित्वमेव । च्युतसंस्कारत्वं दोषः पुनर्वाक्यसम्भवोऽपि इत्यन्ये । क्लिष्टत्वाविमृष्टविधेयांशत्वविरुद्धमतिकारित्वानां समाससत्त्व एव पदस्थत्वमन्येषान पुनर्नियमोऽयम् । यत्परिवृत्त्यसहो यो दोषः स तत्सम्भवीति पदपरिवृत्त्यसहः पददोषः, पदांशपरिवृत्त्यसहः पदांशदोषः, वाक्यपरिवृत्यसहो वाक्यदोषश्चेति दिक् ।
अथ क्रमादेतानुदाजिहीर्घराह तत्रेत्यादि । तत्र तेषु षोडशदोषेषु मध्यापरुषवर्णतया परुषा रूक्षा वर्णा यत्र तस्य भावस्तत्ता तया।परुषत्वं च वीररुद्रवीभत्सादिरसचर्चाविधुरचेतसां शृङ्गारकरुणादिरसमात्रनिरतानामनभिमतत्वम्। अत एव-श्रुतिदुःखावहत्वं श्रुत्या श्रवणेन यदु दुःखं तस्यावहं प्रापकं तस्य भावः तत्त्वम्, दुःश्रवत्वम् । तथा च-बीररुद्रबीभत्सादिरसचर्चाविधुरचेतसां शृङ्गारादिरसमात्रनिरतानामरुचिकरवर्णशालिवे सति श्रवणद्वारा तेषामेव दुःखावहत्वं दुःश्रवत्वम् । अतएव-वीररुद्रादिषु रसेषु दुःश्रवत्वभपि न स्वरूपसत् । श्रवणद्वारा वीरादिरसचर्चाविमुखानां शृङ्गारादिरसनिरतानां सहृदयानां हृदयोद्वेजनमेवास्य बीजम् । अत एव शृङ्गारादिरसचर्चाविमुखत्वे सति वीरादिरसचर्चानिरतानां सहृदयानां हृदयस्योद्वेजकत्वाभावान वीरादिषु मधुरेतरेषु रसेषु दोषः प्रत्युत गुण एवायम् । न चास्य प्रतिकूलवर्णत्वेन संकरः। उपाधेयसायेऽपि उपाध्योः सङ्करत्वाभावात् । सति हि दुःश्रवत्वे न रसस्य प्रतिबन्धः किन्तु जायमानेऽपि रसे नास्वादोद्रेक: । प्रतिकूलवर्णत्वसद्भावे तु न रसास्वादोदेकाभाव एव, किन्तु रसस्य प्रतिबन्धोऽपि । तत् ' दुश्रवत्व 'मिति शेषः । यथा
'अनङ्गवशंवदाऽनङ्गः कामस्तस्य वशंवदाऽधीनेति तथोक्ता । मदनपरतन्त्रेत्यर्थः । 'कन्दर्पो दर्पकोऽनङ्ग' इत्यमरः । तन्वङ्गी कुशोदरी तनु सूक्ष्ममङ्गमुदरादि यस्याः सा । 'तनुः काये त्वचि स्त्री स्यात्रिध्वल्पे विरले कृशे।' इति विश्वः । कदा। ‘कान्तेन सह सङ्गम्य स्मयमानमुखेन्दुना।' इति शेषः । कार्ताऱ्या कृतार्थतां सिद्धमनोरथताम् । यातु यायात् । 'लोट च' ३।३।१६२ इति लोट् ॥'
इत्यत्र 'श्लोके' इति शेषः । 'कार्तार्थ्य' मिति पदम् । 'तहुएमिति शेषः । द्वितीयं पददोषमश्लीलत्वं व्याचष्टे-अश्लीलत्वमित्यादिना ।
अशीलत्वमा वीटाजगसामवाट ब्रीडा च जगप्सा चामडलं चेति तेषां व्यञ्जकत्वं तस्मान 'कारणा'दिति शेषः 'मन्दाक्षं ह्रीस्त्रपा ब्रीडा' इत्यमरः। 'मोहो वीज्या जगासा च णीया हृणिया घृणा।' इति वाच स्पतिः । त्रिविधम् । नास्य ग्राम्यत्वेनाभेदः, तस्य ब्रीडाऽऽदिव्यञ्जकत्वाभावेऽपि असभ्यताप्रत्यायकत्वात् । न वाऽप्यनुचितार्थत्वेन भेदाभावः, तस्योपश्लोक्यमानतिरस्कारव्यञ्जकत्वेनैव तादवस्थ्यात्, अस्य पुनर्जीडाऽऽदिव्यञ्जकत्वेन. वेति भेदस्य स्फुटं प्रतिपत्तेः । ब्रीडाऽऽदीनामप्यनभिमतत्वे एव व्यजकत्वमस्यावटम्भः । अत एव-ब्रीडाऽऽदीनाम