________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । तद्विशेषानाह--
२ ते पुनः पञ्चवा मताः। पदे तदंशे वाक्येऽर्थे
सम्भवन्ति रसेऽपि यत् ॥ १॥ ३ दुःश्रवैत्रिविधाश्लीलांनुचितार्थाप्रयुक्तताः।ग्राम्याप्रतीतसन्दिग्धंनेयार्थनिहातार्थताः॥२॥ अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिती । अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥ ३॥ दोषाः केचिद् भवन्त्येषु पदांशेऽपि पदे पुनः । निरर्थकॊत्तमर्थत्व च्युतसंस्कारतों तथा॥४॥
सामान्यज्ञानानन्तरं विशेषजिज्ञासाया अवश्यम्भावित्वादाह-तद्विशेषानित्यादि ।
तद्विशेषांस्तस्य दोषस्य निरुक्तलक्षणस्येति यावत् विशेषा विभेदा इति तान् । आह कथयति । २ ते पुनरित्यादिना ।
२ते दोषाः । पत्र
त दोषाः । पुनः । पञ्चधा पञ्चप्रकाराः 'संख्याया विधाऽर्थे धा।' ५।३।४२ इति धा । मताः स्वीकृताः । 'विवेकिभि'रिति शेषः । कुत इत्याह-यद यस्मात् कारणात् । 'ते दोषा' इति शेषः । पदे 'सुप्तिङन्तं पदम् ।' १।४।१४ इत्युक्तखरूपे वाक्यांशभूते शब्दविशेषे इति यावत् । तदंशे तस्य पदस्यांश एकदेशस्तत्र । वाक्ये तात्पर्योपस्थापकत्वेन योग्ये पदसमुदायविशेषे । अर्थे वाच्याद्यन्यतमेऽभिधाऽऽदिप्रतिपाद्ये शब्दबोध्ये । रसे चमत्कारप्राणे काव्यात्मनि । अपि वस्तुतयाऽसम्भवत्वेऽपि उपाधिवशात् । सम्भवन्ति । केचित् कल्पनया केचिदागान्तुकत्वेन केचिद् वस्तुतया केचित्पुनः संसक्तत्वेन प्रतीयमानत्वेन वा भवन्तीति यावत् ॥१॥
नैतद्रूढार्थमित्याह --स्पष्टमिति । तद्विशेषानभिधातुमुपकममाण आह-तत्रेत्यादि ।
तत्र तेषु दोषेषु मध्ये । ३ दुःश्रवत्रिविधारलीलानुचितार्थाप्रयुक्तताः । दुष्टः श्रवः श्रवणं यस्य तद्दुःश्रवं तच, त्रिविधं ग्रीडा जुगुप्साऽमङ्गलव्यञ्जकतया त्रिप्रकारमश्लील सहृदयहृदयानाहादकं तच, नोचितोविवक्षितार्थोलासकत्वव्यञ्जकतया योग्योऽर्थो यस्य तच, न प्रयुक्तं कविभिराहतमिति, तचेत्येषाम्भावस्तास्तथोक्ताः। 'द्वन्द्वान्ते श्रयमाणं प्रत्येकमभिसम्बध्यते' इति दुःश्रवता, त्रिविधाश्लीलता, अनुचितार्थता, अप्रयुक्तता चेत्यर्थः । ग्राम्याप्रतीतसन्दिग्धनेयार्थनिहतार्थताः । ग्राम्यं चाप्रतीतं च सन्दिग्धं च नेयाथै च निहतार्थ चेति तेषाम्भावास्तत्ता इति तथोक्ता तथोक्ताः। च निहतोऽविक्षितप्रसिद्धार्थप्रत्ययव्यवधानेन विवक्षित प्रत्ययोल्लासे हतशक्तिरों यस्य तच्चेत्येषाम्भावस्तत्ता, तास्तथोक्ताः। ग्राम्यता, अप्रतीतता, सन्दिग्धता, नेयार्थता, निहतार्थता चेत्यर्थः । अवाचकत्वं न(ईषत्वाचकं विवक्षितार्थाभिधायक तस्य भावस्तत्त्वम्। क्लिष्टत्वं क्लिष्टं दुर्बोधं तात्पर्यावगमावसरे दुःखप्रदानमूलभूतमिति यावदिति तत्त्वम्। तात्पर्यनिर्णायकसामग्रीरहितत्वे सति विलम्बेनार्थबोधकत्वं क्लिष्टता । विरुद्धमतिकारिता विरुद्धा प्रकृतप्रतिकूला या मतिवोधस्तत्कारितेति तथोक्ता। पदान्तरसन्निधानेन प्रकृतार्थबोधप्रतिवन्धकीभूताप्रकृतार्थबोधकत्वं विरुद्धमतिकारितेति यावत् । च तथा अविमष्टविधेयांशभावो न विमृष्टो निर्दिष्टोविचारसापेक्ष्येणाहत इति यावद्विधेयांशो विधेयस्य (अवश्यं प्राधान्येन निवेश्यस्य) अंशो (भागो) यस्य तस्य भावः । अप्रधानीकृतविधेयांशत्वमविमृष्टविधेयांशनेति यावत । प्राधान्येन निर्देश्य स्याप्यंशस्योपसर्जनी कृतत्वेन निर्दिष्टत्वमविमृष्टविधेयांशभाव इति भावः । एते-पदवाक्ययोः पदं च वाक्यं चेति तयोः । 'सम्भवन्ती'ति शेषः। तथा---एषु निरुक्तेषु दोषेषु मध्ये । केचित्र तु सर्वेऽपि । दोषा दुःश्रवत्वं विविधमश्लीलत्वमनुचितार्थत्वं नेयार्थत्वनिहतार्थत्वं चेत्येते इतियावत् । पदांशे । अपि । भवन्ति सम्भवन्तीत्यर्थः । पदे । पुनः । निरर्थकासमर्थत्वे निरर्थक नासमर्थं चेति तयोभविौ तत्त्वे । तत्र निर्गतोऽर्थोऽर्थविषयकं तात्पर्य यस्य तस्य भावः तत्त्वं,वृत्तन्यूनतापरिहारमात्रप्रयोजनकत्वे सति विवक्षिताऽर्थबोधानुपयुक्तत्वं निरर्थकत्वम् । न (ईषत्) समर्थमित्यसमर्थम् । तस्य भावस्तत्त्वमसमर्थत्वम्, तच्च शब्दानुशासनाधिनाऽनुशिष्टत्वे सति प्रकृतार्थबोधजनकतासन्यत्वम् । तथा । च्युत