________________
साहित्यदर्पणः ।
[ सप्तमः -
अस्यार्थः प्रागेव स्फुटीकृतः ।
अत्रेदमवधेयम्-रस्यत आस्वाद्यत इति रसः, स च चमत्कारविशेषस्वरूप एव । तस्यापकर्षश्व प्रतीतिप्रतिबन्धमुखेन प्रकृष्टतया प्रतीतिप्रतिबन्धमुखेन प्रतीतिविलम्बनमुखेन च स च न स्वरूपसन्, तथाऽनुपपत्तेः । यथाहि स्थूलशरीरे काणत्वप्रभृतयः खज्जत्यप्रभृतयश्च सम्भवन्तः केचिद्दोषाः स्थूलं शरीरमेव दूषयन्ति, तथा भवन्तश्च ते तद्द्वारा तदात्मभूतं निर्विकारमपि चेतन विशेषं दूषयन्तीव । तथा पुनः शब्दार्थशरीरके काव्ये सम्भवन्तो दुःश्रवत्वादयोऽपुष्टार्थत्वादयत्र शब्दार्थौ दूषयन्तस्तद्द्वारा तदात्मभूतं चमत्कारविशेषं दूषयन्तीति तेऽपि दोषाः काणत्वख अत्वप्रभृतय इव शब्दार्थसम्भविनो दुःश्रवत्वप्रभृतयोऽपुष्टार्थत्वप्रभृतयो ज्ञेयाः । अथ केंsपि यथा मूर्खत्वप्रमुखाः सूक्ष्मशरीरे सम्भवन्तोऽपि साक्षात् तदात्मानमपकर्षयन्ति तथा स्वशब्दवाच्यत्वप्रमुखास्तत्र सम्भवन्त इव कल्प्यमाना अपि साक्षात्तदात्मानमपकर्षयन्तस्तदपकर्षकत्वेनाभिधीयमानाः सम्भवन्ति दोषाः । अतः - काणत्वादिना मूर्खत्वादिना वा शरीरिणो यदपकर्षकत्वं तदेव तेषां यथा दोषत्वं तथा दुःश्रवत्वादिनाऽपुष्टार्थत्वादिना स्वशब्दवाच्यत्वादिना वा रसस्य यदपकर्षकत्वं तदेव तेषां दोषत्वमिति । यथा शरीरिणोऽपकर्षकत्वं दोषत्वं तथेह पुना रसस्यापकत्वं दोषत्वमिति । यत्क्तं वामनाचार्यै: - 'गुणविपर्ययात्मानो दो:' । इति तन्न रुचिरम् क्वचिदोषशून्यत्वेऽपि सगुणत्वस्य क्वचित् पुनर्गुणशून्यत्वंऽपि सदोषत्वस्यादर्शनात्। अत्राहुः प्राञ्चः-“मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद् वाच्यः । ननु हतिर्विनाशः । न च दोषेण रसां विनाश्यते । दुष्टेष्वपि रसानुभवात् । तस्मादलक्षणमेवैतदिति चेत् ? मैवम् । हतिशब्दस्यापकर्षंवा चित्वात् । ' हतिरपकर्ष:' इति प्रकाशकारैरपि स्वयं विवृतम् । स च रसनिष्ठो जातिविशेषः । तद्व्यञ्जकं च दोषज्ञानम् । असत्यपि दुःश्रवत्वादौ तद्मेण रसाकर्षाभिव्यक्तेः । यद्वा-आनन्दांशे सम्यगाव रणध्वंसाभावोऽपकर्षः । आनन्दशश्च चमत्कारापरपययो रस एव । ननु हतिरपकर्ष इति न सम्यक् । रसानुप्रयोगषु च्युतसंस्कारताऽऽदिव्वव्याप्तेरिति चेत् ? हतिरनुत्पत्तिः । इत्यभि न सम्यक् । यत्र रसः स्फुरन्नप्यपकृष्यते तत्राव्याप्तेः । अवैमेत लक्षण मतिदरिद्रदम्पत्योः कृशतर निशाऽवगुण्ठनीयवसन भिवैकेनापकृष्यमाणमपरं परिहरति । किञ्च मुख्यार्थस्यानुत्पत्तिरपकर्षो वा न दक्षेत्रपरतन्त्रः ।" इति । अत्र ब्रूमः - हतिरपकर्षश्च न भिन्नार्थी, अपकर्षोऽपि मुख्यस्य रसस्यैव । किन्तु - अपकर्ष उद्देश्यप्रतीतिविघातात्मा । उद्देश्या च प्रतीतिर्द्विधा-रसबत्यविलम्बिताऽनपकृष्टरसविषया चेति । रसवति शृङ्गाराद्यन्यतमशालिनीत्यर्थः । नीरसे पुनरविलम्बिता चमत्कारिणी श्वार्थंविषया । तथा च- तादृशप्रतीतिविघातकत्वं सर्वेषामविशिष्टम् । दुत्रेषु हि कचिद् रसस्याप्रतीतिरस्त्येव, क्वचित् पुनः प्रतीयमानस्यापि तस्यापकर्षः । एवं नीरसे पुनः क्वचिदर्थस्य मुख्यभूतस्याप्रतीतिः क्वचिच तस्य प्रतीयमानस्याप्यपकर्षः क्वचिदेवं विलम्बेन प्रतीतिः क्वचिभूयचमत्काराहेतुरूपा इत्यनुभवसिद्धमुद्देश्यप्रतीत्यनुत्पादकत्वम् । अथोद्देश्यप्रतीतिविघातकता कस्यचित् साक्षात्, यथा-रसदोषाणां स्वशब्दवाच्यत्वप्रभृतीनाम् । रसापकर्षकाणामपि तेषां प्रकृष्टतया रसाभिव्यञ्जकत्वाभावात् । कस्यचित् परम्परया, यथा-शब्दार्थवर्णरचनादोषाणाम् । तेष्वपि कस्यचिदर्थोपस्थितेरभावात्, यथा-च्युतसंस्कारत्वादेः, कस्यचित् पुनर्विलम्वात्, यथा क्लिष्टत्वादेः कस्यचित् पुनः सचेतसश्चेतसि व्यग्रत्वविमुखत्वायापादनात् यथा - अमतपरार्थत्वविरुद्धमतिकृत्त्वादेः । इति । अथ विघातकत्वं कस्यापि ज्ञातस्य यथा व्याहतत्वादेः, कस्यचित् पुनः, खरूपसत एव; यथा - निहतार्थत्वादेः, एवं च रसापकर्षो दोषः, इति रसस्यैव उद्देश्यवाच्यत्वात्; तदपकर्षश्च प्रतीतिविघातात् । रसश्च चमत्कारविशेष इति निवेदितमसकृत् । एवं पुनर्दोषो द्विविधो नित्योऽनित्यश्च । तत्र - अनुकरणमन्तरा समाधातुमशक्यः सचेतसा वा निलं हेयो दोषो नित्यः । यथा-च्युतसंस्कारत्वादिः । अनित्यः पुनः कचिदुपादेयः, यथा - दुःश्रवत्वादिः तस्य रौद्रादावुपादेयत्वात् । शृङ्गारादौ च यस्यापि दुःश्रवत्वस्याप्रयुक्तत्वस्य च रौद्रे षेवा हेयत्वात् । इति दिकू ।
इत्येतत्सर्वमभिप्रेत्याह- अस्येत्यादि ।
अस्यानन्तरोदितस्य । अर्थस्तात्पर्यम् । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । प्राक् पूर्वम् । 'दोषास्तस्यापकर्षकाः ।' इति विवरणाबसरे इति यावत् । एव । स्फुटीकृतः । 'अभूततद्भाव इति वक्तव्यम् ।' * इति चिः । 'अस्य वौ ' ७ । ४ । ३२ इतीत् ।