________________
||श्रीः ॥
रुचिराख्यया व्याख्यया समेतः
साहित्यदर्पणः।
सप्तमः परिच्छेदः।
इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिः परिदर्शिता, सम्प्रति के ते ? इत्य. पेक्षायामुद्देशक्रमप्राप्तानां दोषाणां स्वरूपमाह
१२सापकर्षका दोषाः
महिम्नः सौरभ्यं दिशिदिशि वितन्वनमुपमं तिरस्कुर्वन् सद्यो नवजलदशोभां सुषमया ।
सुरेन्द्रान् वन्दारून निजपदमरन्देन मदयन् सदा मोदायास्तां हृदि सुविलसन् कश्चन विभुः ॥१॥ प्रधान ( काव्यं ) स्वरूपतो निर्दिश्य तदीयानां दोषाणां च गुणानामपि वा निरूपणीयत्वं सङ्गच्छते तदपरिज्ञाने हेयत्वायत्यबुद्धेख्दयासम्भवादितीह प्रधानस्य काव्यस्य स्वरूपं निरूप्य तदीयानां दोषाणां गुणानां च हेयोपादेयत्वं प्रदर्श यितु तत्र तावद् दोषाणां स्वरूपं निरूपयन् काव्यस्य प्रकृतत्वं तेषां च निरूपणस्य गुणनिरूपणापेक्षया पूर्वमुचितत्वमुपपा. दयति-इह हीत्यादिना । ___ इहास्मिन् प्रकृते निवन्धे साहित्यदर्पणाभिधेये इति यावत् । हि एव । 'हि हेताववधारणे ।' इत्यमरः । प्रथमतः पूर्वम् । काव्ये दोषगुणरीत्यलङ्काराणां दोषाश्च गुणरीत्यलंकाराश्चेति तेषाम् । अवस्थितिः परिदर्शिता प्रतिपादिताऽवसायिता वेत्यर्थः । 'हेयोपादेयत्वेने ति शेषः । सम्प्रति साम्प्रतम् । ते दोषादयः। के किंवरूपाः । इत्यपेक्षायामित्येवञ्जिज्ञासायाम् । उद्देशक्रमप्राप्तानामुद्देशकमेणोद्देशक्रम वा प्राप्ता इति, तेषां तथोक्तानाम् । उद्देशकमश्च यथावस्थाननिर्देशः । यथाहि-गुणरीत्यलंकारापेक्षया दोषनिर्देशप्राथम्यम् । दोषाणां वक्ष्यमाणानां दुःश्रवत्वादीनाम् । स्वरूपं लक्षणं सामान्यलक्षणमिति यावत् । सामान्यानवगमे विशेषावगमापेक्षाया अनुदयात् । भाह प्रतिपादयति । १'रसापकर्षका इत्यादिना ।
अत्रेदमभिहितम्-काव्यवाक्यान्तदोषा गुणा रीतयोऽलङ्काराश्च सम्भवन्ति । यद्यपि गुणापेक्षषा दोषनिर्देशप्राथम्यं न प्रायो दृष्टचरं, तथाऽपि गुणानां दोषपारहारमूलकावस्थानत्वाद्दोषाणां परिहारस्य गुणानामुपादानापेक्षया च प्रागौचित्याद् दोषनिर्देशप्राथम्यमेव सझच्छते । अथ ते यथोद्देशमुपपादनीयाः । तत्र तावत् पूर्वनिर्दशी दोषाणामिति त एव सम्प्रति उद्देशकमप्राप्ता इति तेषां स्वरूपं प्रथमं दर्शयति । इति ।।
१ रसापकर्षका, रसः काव्यमावजीवातुश्चमत्कारविशेषः कारादिव्यपदेश्यात्मा तमपकर्षयन्ति स्वसनिधाना. भासनव तिरोहितात्मतान्नयन्तीति ते तथोक्ताः। अप-कृष-बुण । दषयन्तीति, ते तथोक्ताः । भवन्तीति शेषः । तदुक्तं प्रकाशकारीः 'मुख्यार्थहतिदोषो रसश्च मुख्यस्तदाश्रयाद् वाच्यः। उभयोपयोगिनः स्युः शन्दाद्यास्तेन तेवपि सः॥' इति ।