________________
परिच्छेद: ]
रुचिराख्यया व्याख्यया समेतः ।
६३० कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् । चित्र भवेदार्या चित्रापवत्रके ॥ ६३० ॥ आपकारः खादेर्वृत्त कीर्त्तनम् ।
यथा कादम्बर्यादिः ।
६३१ आख्यायिका यथावत्स्यात्कवेर्वेशानुकीर्त्तनम् ॥ ६३१ ॥ अस्यामन्यकवीनां च वृत्तं पद्यं क्वचित्क्वचित् । कथांशानां व्यवच्छेद आश्वास इति बध्यते ॥ ६३२ ॥ आयविकापवत्राणां छन्दसा येन केनचित् । अन्यापदेशेनोच्छ्रास-मुखे भाव्यर्थसूचनम् ॥ ६३३ ॥
५४३
यथा - हर्षचरितादिः ।
"अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् ।” इति दण्ड्यांचावचनात् केचित् " आख्या यिका नायकेनैव निबद्धव्या" इत्याहुः । तदयुक्तम् । भाख्यानादयश्च कथाssख्यायिकयोरेवान्तर्भा-वान पृथगुक्ताः । यदुक्तं दण्डिनैव - "अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः । " इति । आसामुदाहरणम् - पञ्चतन्त्रादि । अथ पद्यगद्यमयानि --
1
समरस्य सङ्ग्रामस्य कण्डूलौ कण्डूतिमन्तौ यो निबिडो पुष्टौ भुजदण्डौ ताभ्यां कुण्डलीकृतं यत् कोदण्डं धनुस्तस्य शिञ्जिनी मौर्वी तस्याष्टङ्कारः शब्दविशेषस्ततोज्जागरितमत्यन्तं जागरणं नीतं वैरिनगरं येन तत्सम्बुद्धौ तथोक्त !" इत्यादि । 'कुण्डलीकृतकोदण्ड' । इति अनुष्टबृवृत्तस्य । पादः । अत्र 'समरकण्डूल' इति 'यत्त' दिति शेषः । प्रथमाक्षरद्वयरहितः 'महा' इत्यादिरूपं यदादौ अक्षरद्वयं तद्धीनः । तस्यानुष्टुव्वृत्तस्य । एव । पादः । उत्कलिकाप्रायम् । यथा । मम । एव। 'अणिसं अनिशं निरन्तरम् । विसुमरणिसिददरसर विसरविदलितसमरपरिगद पवरपरबल ! विसृमरनिशिततरशर विसरविदलितसमरपरिगतप्रवलपरबल ! विसृमराः सर्वतो व्याप्ता ये निशिततरा अत्यन्तं तीक्ष्णाः शरा वाणास्तेषां विसरः पुञ्जस्तेन विदलितानि समरपरिगतानि सङ्ग्रामं प्राप्तानि प्रबलानि परबलानि परेषां सैन्यानि येन तत्सम्बुद्धौ तथोक्त !" इत्यादि । चूर्णकम् । यथा मम । " गुणरत्नसागर गुणा रत्नानीव तेषां सागरस्तत्सम्बुद्धौ तथोक्त ! जगदेकनागर जगति एकोऽद्वितीयोऽसौ नागरश्चतुरस्तत्सम्बुद्धौ तो ! कामिनीमदन कामिनीनां कृते कामस्वरूप ! जनरञ्जन !" इत्यादि ।
art कथेत्याख्योsपि भेद इति सूचयंस्तत्स्वरूपमाह - ६३० कथायां कथाssख्ये गद्यकाव्य इति भावः । गद्यैः । एव । विनिर्मितम् । सरखं श्रुतिमधुरमर्थतश्च मधुरम् । वस्तु इतिवृत्तम् । 'भवती' ति शेषः । अत्रास्याम् । क्वचित् कस्मिंश्चिदंशे । आर्य्या तद्वृत्ते निबद्धं पद्यम् । क्वचित् । वत्रापवत्रके तन्नामनी छन्दसी तत्र निबद्धे पद्ये । 'स्याता' मिति शेषः । आदौ कथायाः प्रारम्भे । पद्यैः । नमस्कारः । खलादेर्दुष्टपाषण्डादेः । वृत्तकीर्त्तनं चरितकीर्त्तनम् | 'चे' ति शेषः ॥ ६३० ॥
उदाहरति यथेत्यादिना । स्पष्टम् । गद्यस्याख्यायिकाऽपि भेद इति सूचयंस्तत्स्वरूपमाह - ६३१ कवेः । यथावत् । वंशानुकीर्त्तनम् । आख्यायिका तन्नामकं गद्यकाव्यम् । स्यात् । अस्याम् । च । अन्यकवीनां स्वभिन्नानां कवीनाम् । वृत्तमितिवृत्तम्। कचित्कञ्चित् । पद्यम् । कथांशानाम् । व्यवच्छेदः समाप्तिः । आश्वासः 'उच्छ्वास' इति पाठान्तरम् । इति । बध्यते । आर्य्याविकापवत्राणां तदाख्यानां मध्ये । येन । केनचित् । छन्दसा तन्निबद्धेन पद्येन । (क) अन्यापदेशेन परच्छलेन । उच्छ्रासमुखे उच्छ्रासारम्भे । भाव्यर्थसूचनं भाविनोऽर्थस्य सूचनम् । 'कर्त्तव्य' मिति शेषः ॥६३१-६३३॥
उदाहरति-यथेत्यादिना । स्पष्टम् । दण्डिमतानुकूल्येन परेषां मतं निराकरोति
" आख्यायिका । नायकेन नायकभूतकविचरित्रेण । एव । निबद्धव्या, नहि तत्र परेषामपि चरित्रं निबद्धव्यम् इति शेषः ।" इति 'य' दिति शेषः । केचित् । आहुः । तत् । "अपितु किन्तु । तत्रापि तस्या