________________
५४४ साहित्यदर्पणः।
षष्ठः:६३२ पद्यगद्यमयं काव्यं चम्पूरित्यभिधीयते । यथा-देशराजचरितम् ।
६३३ पद्यगद्यमयी राजस्तुतिबिरुदमुच्यते ॥ ६३४ ॥ यथा-बिरुदमणिमाला।
६३४ करम्भकं तु भाषाभिर्विविधाभिर्विनिर्मितम् । यथा-मम, षोडशभाषामयी प्रशस्तिरत्नावली । एवमन्येऽपि भेदा उद्देशमात्रप्रसिद्धत्वादुक्तभेदानतिक्रमाच्च न पृथग लक्षिताः।
इति साहित्यदर्पणे दृश्यश्रव्यकाव्यनिरूपणो नाम षष्ठः परिच्छेदः। माख्यायिकायामपि । अन्यैर्नायकभिन्नचरितैः 'सहेति शेषः । उदीरणात' 'नायकचरितस्ये ति शेषः । अनियमो नायकस्यैव चरित्रं निबद्धमिति नियमाभावः । दृष्टः ।" इति । दण्ड्याचार्य्यवचनात् । अयुक्तम्। ननु आख्यानादयोऽपि कतिचिदपरैरुक्ता अत्र निरूपणीया इत्याशङ्कयाह-आख्यानादयः। आदिनोपन्यासादीनां ग्रहणम् । च । कथाऽऽख्यायिकयो।एवाअन्तर्भावात् तं मत्वेति भावः। ल्यबर्थेयं पञ्चमी । पृथक् 'ताभ्याम्' इति शेषः।न। उक्ताःअत्रापि दण्डिसम्मतिं दर्शयति-यतादण्डिनाएव । उक्तम्। “अत्रैवानयोः कथाऽऽख्यायिकयोरेव । शेषा अनुक्ताः । आख्यानजातय आख्यानभेदाः । च । अन्तर्भविष्यन्ति । न पुनरासां पृथगभिधानं युक्तमिति भावः । आख्यानजातीनामुदाहरणं दर्शयति-आसामाख्यानजातीनाम् । 'एषा' मिति पाठे आख्यानादीनामित्यर्थः । स्पष्टमन्यत् ।
पद्यगद्यमयं लक्षयितुमाह-अथ । पद्यगद्यमयानि लक्ष्यन्ते ६३२ पद्यगद्यमयम् । काव्यम् । चम्पूः । इति । अभिधीयते।
उदाहरति-यथेत्यादिना । स्पष्टम् । 'मयानी' नि बहुवचनबोध्यं भेदान्तरमाह-६३३ पद्यगद्यमयी।राजस्तुतिः।बिरुदम्। उच्यते कथ्यते ॥६३४॥
उदाहरति-यथेत्यादिना । स्पष्टम् ।
करम्भकाख्यं भेदं लक्षयति-६३४ विविधाभिः। भाषाभिस्तन्मयैः पद्यगोरिति भावः । विनिम्मितम । तु पुनः । करम्भकम् एतन्नामक पद्यगद्यमयं काव्यं स्यादित्यर्थः।
उदाहरति-यथेत्यादिना । स्पष्टम् । उदाहरणादिभेदानामनभिधाने हेतुमाह-एवम् । अन्ये । अपि । भेदाः 'पद्यगद्यमयस्ये' ति शेषः । उद्देशमात्रप्रसिद्धत्वान्नाममात्रेण भिन्नतया विख्यातत्वात् । अतएव-उक्तभेदानतिक्रमादुक्तभेदानामनतिक्रमात् पृथक्तयाऽनुपलम्भात् तानतिक्रम्य स्वरूपतोऽनवस्थानादिति यावत् । च । न । पृथक् । लक्षिताः । अनुक्तानामुदाहरणादीनां भेदानामनैवान्तर्भावो विभावनीय इति भावः । तथाहि-“येनकेनापि तालेन पद्यगद्यसमन्वितम् । जयेत्युपक्रम मालिन्यादिप्रासविचित्रितम् ॥ तदुदाहरणं नाम्ना विभक्त्यष्टाङ्गसंयुतम् । सम्बोधनविभक्त्या यत् प्रचुरं पद्यपूर्वकम् । विमुक्तपुनराकृष्टशब्दं स्याचक्रवालकम् । आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ॥ अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता । प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता ॥ सर्वतो देवशब्दादिरेषा भोगावली मता॥ वर्ण्यनामाङ्कबिरुदवर्णनप्रचुरोज्ज्वला ॥ वाक्याऽडम्बरसंयुक्ता कथिता बिरुदावली । ताराणां सङ्ख्यया पधैर्युक्ता तारावली मता ॥ विश्वेषां सङ्ख्यया पधैर्युक्ता विश्वावली मता। रत्नानी सख्यया पधैर्युक्ता रत्नावली मता । पद्यैश्व पञ्चभिर्युक्ता प्रोक्ता पञ्चाननावली ॥” इत्यादयो भेदा उक्तेष्वन्तर्भाव्या इति निष्कर्षः ।
प्रसङ्गसमाप्तिं दर्शयति-इति । साहित्यदर्पणे । दृश्यश्रव्यकाव्यनिरूपणो दृश्यश्रव्यकाव्ययोनिरूपणं यत्रतादृशः । नाम प्रसिद्धः । षष्ठः। परिच्छेदः। बहुविधाभिनयायननायकं विमलदृश्यविधानविचक्षणम् । सुपुरुषार्थमशेषसचेतसां सदयितं दयितं कमपि स्तुमः ।।
इति श्रीशिवनाथसूरिसूनुना श्रीशिवदत्तकविरत्नेन रचितायां रुचिराऽऽख्यायां
साहित्यदर्पणव्याख्यायां षष्टः परिच्छेदः समाप्तः ।