________________
५४२
-साहित्यदर्पण: ।
६२६ भाषाविभाषानियमात् काव्यं सर्गसमुज्झितम् ॥ ६२५ ॥ एकार्थप्रवणैः पद्यैः सन्धिसामय्यवर्जितम् ।
यथा - भिक्षाटनम् आर्य्यविलासश्च ।
६२७ खण्डकाव्यं भवेत् काव्यस्यैकदेशानुसारि च ॥ ६२६ ॥ यथा मेघदूतादि ।
६२८ कोषः श्लोकसमूहस्तु स्यादन्योऽन्यानपेक्षकः । व्रज्याक्रमेण रचितः स एवातिमनोहरः || ६२७ ॥ जातीयानामेकत्र सन्निवेशो व्रज्या । यथा - मुक्तावल्यादि । अथ गद्यकाव्यानि । ६२९ वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च । भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् ॥ ६२८ ॥ आद्यं समासरहितं वृत्तभागयुतं परम् ।
अन्यद्दीर्घसमासादयं तुय्यै चाल्पसमासकम् ॥ ६२९ ॥
[ षष्ट:
मुक्तकं यथा - "गुरुर्वचसि पृथुरुरसि' इत्यादि । वृत्तगन्धि यथा मम - "समरकण्डूलनिबिडभुजदण्ड कुण्डलीकृतकोदण्डशिञ्जिनीटङ्का रोजागरितवैरिनगर !” इत्यादि । अत्र 'कुण्डलीकृतकोदण्ड' इत्यनुष्टुववृत्तस्य पाद:, ' समरकण्डूल' इति प्रथमाक्षरद्रयरहितस्तस्यैव पादः । उत्कलिकाप्रायं यथा ममैव - 'अणि विसुमरणिसिददरसरविश्वरविदलिदसमरपरिगदपवरपरबले ! " इत्यादि । चूर्णकं यथा मम - " गुणरत्नसागर ! जगदेकनागर ! कामिनीमदन ! जनरञ्जन !" इत्यादि ।
काव्यं लक्षयति- ५२६ भाषाविभाषानियमात् भाषा देववाणी, विभाषा प्राकृतादिः तयोर्नियमं कृत्वेति भावः । ' रचित 'मिति शेषः । सर्गसमुज्झितं सर्गहीनम् । एकार्थप्रवणैः प्रस्तुतार्थप्रतिपादनमात्रपरैः । पद्यैः । ' सहित 'मिति शेषः । सन्धिसामग्रयवर्जितं सन्धिसामग्र्या सहितम् । काव्यम् । अयम्भावः - संस्कृतं प्राकृतद्यन्यतमां वा भाषामाथित्य प्रस्तुतानुकूलतया महावाक्यायमानैः पद्यैः सहितं मुखादिशालिसर्गद्दीनं यत् तत् काव्यं नाम काव्यम् । इति ॥ ६२५ ॥
उदाहरति यथा । मेघदूतादि । आदिना हंसदूतादेर्ग्रहणम् ।
खण्डकाव्यं लक्षयति-६२७ काव्यस्यानन्तरोक्तलक्षणस्य महावाक्यविशेषस्य । च । एकदेशानुसारि कियदंशानुरूपम् । खण्डकाव्यम् । भवेत् ॥ ६२६ ॥ उदाहरति-यथेत्यादिना । स्पष्टम् ।
कोषकाव्यं लक्षयति-६२८ श्लोकसमूहः । अन्योऽन्यानपेक्षक एवं प्रसङ्गमनुसृत्यानिबद्धः । तु । कोषस्तदाख्यं काव्यम् । स्यात् । स निरुक्तलक्षणः । एव । व्रज्याक्रमेण श्रेणीविशेषमार्गेण । रचितः । अतिमनोहरः । 'भवती 'ति शेषः ॥ ६२७ ॥
कारिकां सुगमयितुं व्रज्यापदार्थ विवृणोति - सजातीयेत्यादिना । स्पष्टम् । उदाहरति यथेत्यादिना । स्पष्टम् । गद्यकाव्यं लक्षयितुमाह-अथ । गद्यकाव्यानि । अत्र बहुवचनं तद्भेदबहुत्वद्योतनार्थम् । 'लक्ष्यत' इति शेषः । ६२९ वृत्तबन्धोज्झितं वृत्तरचनया शून्यम् । गद्यम् । तच्च - मुक्तकम् । वृत्तगन्धि । च । उत्कलिकाप्रायमुद्गता या कलिका तस्याः प्रायं सदृशम् । च । चूर्णकम् । इति चतुर्विधम् । भवेत् । अत्र च आद्यं मुक्तकमित्यर्थः । समासरहितम् । परं द्वितीयं वृत्तगन्धि इति यावत् । वृत्तभागयुतं वृत्तस्य भाग एकांश युतम् । अन्यत् तृतीयमुत्कलिकाप्रायमिति यावत् । दीर्घसमासादयमतिसमस्तम् । तुय्यै चतुर्थ चूर्णकमिति यावत् । च । अल्पसमासकं क्षुद्रसमासघटितम् ॥ ६२८ ॥ ६२९ ॥
उदाहरति-मुक्तकम् । यथा । " वचसि भाषणे । गुरुर्महान् सुराचार्यश्च । उरसि । पृथुः पुष्टो वासुदे वांशविशेषश्च" इत्यादि । वृत्तगन्धि वृत्तस्य गन्धो लेशभ्रमोऽस्मिन्नस्तीति तथोक्तम् । यथा । मम । "समर.......
१ अनिशं विस्मरनिशिततरशर विसरविदलितसमरपरिणतप्रबलपरबल ! इति संस्कृतम् ।